गोविन्द माधव जनार्दन दानवारे ।
नारायणामरपते त्रिजगन्निवास
जिह्वे जपेति सततं मधुराक्षराणि ॥ १ ॥
दामोदरार्णवनिकेतन कैटभारे ।
विश्वम्भराभरणभूषित भूमिपाल
जिह्वे जपेति सततं मधुराक्षराणि ॥ २ ॥
पद्मेश पद्मपद पावन पद्मपाणे ।
पीताम्बराम्बररुचे रुचिरावतार
जिह्वे जपेति सततं मधुराक्षराणि ॥ ३ ॥
विष्णो त्रिविक्रम महीधर धर्मसेतो ।
वैकुण्ठवास वसुधाधिप वासुदेव
जिह्वे जपेति सततं मधुराक्षराणि ॥ ४ ॥
लक्ष्मीपते गरुडवाहन शेषशायिन् ।
केशिप्रणाशन सुकेश किरीटमौले
जिह्वे जपेति सततं मधुराक्षराणि ॥ ५ ॥
कल्पान्तवारिधिविहार हरे मुरारे ।
यज्ञेश यज्ञमय यज्ञभुगादिदेव
जिह्वे जपेति सततं मधुराक्षराणि ॥ ६ ॥
सीतापते दशरथात्मज राजसिंह ।
सुग्रीवमित्र मृगवेधक चापपाणे
जिह्वे जपेति सततं मधुराक्षराणि ॥ ७ ॥
गोवर्धनोद्धरण कंसविनाश शौरे ।
गोपाल वेणुधर पाण्डुसुतैकबन्धो
जिह्वे जपेति सततं मधुराक्षराणि ॥ ८ ॥
नामाङ्कितं पठति नित्यमनन्यचेताः ।
विष्णोः परं पदमुपैति पुनर्न जातु
मातुः पयोधररसं पिबतीह सत्यम् ॥ ९ ॥
