शूलोग्राग्रविदारितान्धकसुरारातीन्द्रवक्षस्थल ।
कालातीत कलाविलास कुशल त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ १ ॥
नीलार्धाङ्ग निवेशनिर्जरधुनीभास्वज्जटामण्डल ।
कैलासाचलवास कार्मुकहर त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ २ ॥
-तूलानङ्गकचारुसंहनन सन्मीनेक्षणावल्लभ ।
शैलादिप्रमुखैर्गणैः स्तुतगण त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ३ ॥
मूलाधार जगत्त्रयस्य मुरजिन्नेत्रारविन्दार्चित ।
साराकारभुजासहस्र गिरिश त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ४ ॥
-वेलाभूमिविहारनिष्ठ विबुधस्रोतस्विनीशेखर ।
बालावर्ण्यकवित्वभूमिसुखद त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ५ ॥
कीलानेकसहस्रसङ्कुलशिखस्तम्भस्वरूपामित ।
चोलादीष्टगृहाङ्गनाविभवद त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ६ ॥
स्थूलाशेषचराचरात्मक जगत् स्थूणाष्टमूर्ते गुरो ।
तालाङ्कानुज फल्गुनप्रियकर त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ७ ॥
-त्तूलाकोटिमनोहराङ्घ्रिकमलानन्दापवर्गप्रद ।
श्रीलीलाकर पद्मनाभवरद त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ८ ॥
-हालास्याधिपतीष्टमष्टकमिदं सर्वेष्टसन्दोहनम् ।
हालापानफलान्विहाय सन्ततं सङ्कीर्तयन्तीह ये
ते लाक्षार्द्रपदाबलाभिरखिलान् भोगान् लभन्ते सदा ॥ ९ ॥
