Lord Vishnu

श्री हरि वायु स्तुति

(Sri Hari Vayu Stuti)

Sri Trivikrama Panditacharya

Sri Hari Vayu Stuti is a celebrated devotional poem composed by Sri Trivikrama Panditacharya, a direct disciple of Sri Madhvacharya. It serves as a profound eulogy to Lord Vishnu and His primary emissary, Vayu Deva, who is revered in Madhva philosophy as the embodiment of knowledge and the carrier of divine grace. The stotra is considered the crown jewel of Madhva literature. Devotees believe that chanting this sacred composition with devotion grants spiritual wisdom, protection from obstacles, and the attainment of liberation, ultimately fostering an eternal connection between the soul and the supreme Lord.

अथ नखस्तुतिः

पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटा-
-कुम्भोच्चाद्रिविपाटनाधिकपटु प्रत्येक वज्रायिताः ।
श्रीमत्कण्ठीरवास्यप्रततसुनखरा दारितारातिदूर-
-प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता भूरिभागैः ॥ 1 ॥
लक्ष्मीकान्त समन्ततोऽपि कलयन् नैवेशितुस्ते समं
पश्याम्युत्तमवस्तु दूरतरतोपास्तं रसो योऽष्टमः ।
यद्रोषोत्कर दक्ष नेत्र कुटिल प्रान्तोत्थिताग्नि स्फुरत्
खद्योतोपम विस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ 2 ॥
अथ वायुस्तुतिः
श्रीमद्विष्ण्वङ्घ्रिनिष्ठातिगुणगुरुतमश्रीमदानन्दतीर्थ-
-त्रैलोक्याचार्यपादोज्ज्वलजलजलसत्पांसवोऽस्मान् पुनन्तु ।
वाचां यत्र प्रणेत्री त्रिभुवनमहिता शारदा शारदेन्दु-
-ज्योत्स्नाभद्रस्मितश्रीधवलितककुभा प्रेमभारं बभार ॥ 1 ॥
उत्कण्ठाकुण्ठकोलाहलजवविजिताजस्रसेवानुवृद्ध-
-प्राज्ञात्मज्ञानधूतान्धतमससुमनोमौलिरत्नावलीनाम् ।
भक्त्युद्रेकावगाढप्रघटनसधटात्कारसङ्घृष्यमाण-
प्रान्तप्राग्र्याङ्घ्रिपीठोत्थितकनकरजःपिञ्जरारञ्जिताशाः ॥ 2 ॥
जन्माधिव्याध्युपाधिप्रतिहतिविरहप्रापकाणां गुणानां
अग्र्याणामर्पकाणां चिरमुदितचिदानन्दसन्दोहदानाम् ।
एतेषामेष दोषप्रमुषितमनसां द्वेषिणां दूषकाणां
दैत्यानामार्तिमन्धे तमसि विदधतां संस्तवे नास्मि शक्तः ॥ 3 ॥
अस्याविष्कर्तुकामं कलिमलकलुषेऽस्मिन् जने ज्ञानमार्गं
वन्द्यं चन्द्रेन्द्ररुद्रद्युमणिफणिवयोनायकाद्यैरिहाद्य ।
मध्वाख्यं मन्त्रसिद्धं किमुत कृतवतो मारुतस्यावतारं
पातारं पारमेष्ट्यं पदमपविपदः प्राप्तुरापन्नपुंसाम् ॥ 4 ॥
उद्यद्विद्युत्प्रचण्डां निजरुचिनिकरव्याप्तलोकावकाशो
बिभ्रद्भीमो भुजे योऽभ्युदितदिनकराभाङ्गदाढ्य प्रकाण्डे ।
वीर्योद्धार्यां गदाग्र्यामयमिह सुमतिं वायुदेवो विदध्यात्
अध्यात्मज्ञाननेता यतिवरमहितो भूमिभूषामणिर्मे ॥ 5 ॥
संसारोत्तापनित्योपशमदसदयस्नेहहासाम्बुपूर-
-प्रोद्यद्विद्यानवद्यद्युतिमणिकिरणश्रेणिसम्पूरिताशः ।
श्रीवत्साङ्काधिवासोचिततरसरलश्रीमदानन्दतीर्थ-
-क्षीराम्भोधिर्विभिन्द्याद्भवदनभिमतं भूरि मे भूतिहेतुः ॥ 6 ॥
मूर्धन्येषोऽञ्जलिर्मे दृढतरमिह ते बध्यते बन्धपाश-
-च्छेत्रे दात्रे सुखानां भजति भुवि भविष्यद्विधात्रे द्युभर्त्रे ।
अत्यन्तं सन्ततं त्वं प्रदिश पदयुगे हन्त सन्तापभाजा-
-मस्माकं भक्तिमेकां भगवत उत ते माधवस्याथ वायोः ॥ 7 ॥
साभ्रोष्णाभीशुशुभ्रप्रभमभय नभो भूरिभूभृद्विभूति-
-भ्राजिष्णुर्भूरृभूणां भवनमपि विभोऽभेदि बभ्रे बभूवे ।
येन भ्रूविभ्रमस्ते भ्रमयतु सुभृशं बभ्रुवद्दुर्भृताशान्
भ्रान्तिर्भेदावभासस्त्विति भयमभिभूर्भोक्ष्यतो मायिभिक्षून् ॥ 8 ॥
येऽमुं भावं भजन्ते सुरमुखसुजनाराधितं ते तृतीयं
भासन्ते भासुरैस्ते सहचरचलितैश्चामरैश्चारुवेषाः ।
वैकुण्ठे कण्ठलग्नस्थिरशुचिविलसत्कान्तितारुण्यलीला-
लावण्यापूर्णकान्ताकुचभरसुलभाश्लेषसम्मोदसान्द्राः ॥ 9 ॥
आनन्दान्मन्दमन्दा ददति हि मरुतः कुन्दमन्दारनन्द्या-
-वर्तामोदान् दधाना मृदुपदमुदितोद्गीतकैः सुन्दरीणाम् ।
वृन्दैरावन्द्यमुक्तेन्द्वहिमगुमदनाहीन्द्रदेवेन्द्रसेव्ये
मौकुन्दे मन्दिरेऽस्मिन्नविरतमुदयन्मोदिनां देवदेव ॥ 10 ॥
उत्तप्ताऽत्युत्कटत्विट् प्रकटकटकटध्वानसङ्घट्टनोद्य-
-द्विद्युद्व्यूढस्फुलिङ्गप्रकरविकिरणोत्क्वाथिते बाधिताङ्गान् ।
उद्गाढं पात्यमाना तमसि तत इतः किङ्करैः पङ्किले ते
पङ्क्तिर्ग्राव्णां गरिम्णा ग्लपयति हि भवद्वेषिणो विद्वदाद्य ॥ 11 ॥
अस्मिन्नस्मद्गुरूणां हरिचरणचिरध्यानसन्मङ्गलानां
युष्माकं पार्श्वभूमिं धृतरणरणिकस्वर्गिसेव्यां प्रपन्नः ।
यस्तूदास्ते स आस्तेऽधिभवमसुलभक्लेशनिर्मूकमस्त-
-प्रायानन्दं कथञ्चिन्न वसति सततं पञ्चकष्टेऽतिकष्टे ॥ 12 ॥
क्षुत् क्षामान् रूक्षरक्षोरदखरनखरक्षुण्णविक्षोभिताक्षा-
-नामग्नानान्धकूपे क्षुरमुखमुखरैः पक्षिभिर्विक्षताङ्गान् ।
पूयासृङ्मूत्रविष्ठाकृमिकुलकलिले तत्क्षणक्षिप्तशक्त्या-
-द्यस्त्रव्रातार्दितांस्त्वद्द्विष उपजिहते वज्रकल्पा जलूकाः ॥ 13 ॥
मातर्मे मातरिश्वन् पितरतुलगुरो भ्रातरिष्टाप्तबन्धो
स्वामिन् सर्वान्तरात्मन्नजर जरयितर्जन्ममृत्यामयानाम् ।
गोविन्दे देहि भक्तिं भवति च भगवन्नूर्जितां निर्निमित्तां
निर्व्याजां निश्चलां सद्गुणगणबृहतीं शाश्वतीमाशु देव ॥ 14 ॥
विष्णोरत्त्युत्तमत्वादखिलगुणगणैस्तत्र भक्तिं गरिष्ठां
आश्लिष्टे श्रीधराभ्याममुमथ परिवारात्मना सेवकेषु ।
यः सन्धत्ते विरिञ्चश्वसनविहगपानन्तरुद्रेन्द्रपूर्वे-
-ष्वाध्यायंस्तारतम्यं स्फुटमवति सदा वायुरस्मद्गुरुस्तम् ॥ 15 ॥
तत्त्वज्ञान् मुक्तिभाजः सुखयिसि हि गुरो योग्यतातारतम्या-
-दाधत्से मिश्रबुद्धिंस्त्रिदिवनिरयभूगोचरान् नित्यबद्धान् ।
तामिस्रान्धादिकाख्ये तमसि सुबहुलं दुःखयस्यन्यथाज्ञान्
विष्णोराज्ञाभिरित्थं शृतिशतमितिहासादि चाकर्णयामः ॥ 16 ॥
वन्देऽहं तं हनूमानिति महितमहापौरुषो बाहुशाली
ख्यातस्तेऽग्र्योऽवतारः सहित इह बहुब्रह्मचर्यादिधर्मैः ।
सस्नेहानां सहस्वानहरहरहितं निर्दहन् देहभाजां
अंहोमोहापहो यः स्पृहयति महतीं भक्तिमद्यापि रामे ॥ 17 ॥
प्राक्पञ्चाशत्सहस्रैर्व्यवहितमहितं योजनैः पर्वतं त्वं
यावत्सञ्जीवनाद्यौषधनिधिमधिकप्राण लङ्कामनैषिः ।
अद्राक्षीदुत्पतन्तं तत उत गिरिमुत्पाटयन्तं गृहीत्वा
यान्तं खे राघवाङ्घ्रौ प्रणतमपि तदैकक्षणे त्वां हि लोकः ॥ 18 ॥
क्षिप्तः पश्चात्सत्सलीलं शतमतुलमते योजनानां स उच्च-
-स्तावद्विस्तारवंश्चाप्युपललव इव व्यग्रबुद्ध्या त्वयाऽतः ।
स्वस्वस्थानस्थितातिस्थिरशकलशिलाजालसंश्लेषनष्ट-
-छ्छेदाङ्कः प्रागिवाभूत् कपिवरवपुषस्ते नमः कौशलाय ॥ 19 ॥
दृष्ट्वा दुष्टाधिपोरः स्फुटितकनकसद्वर्म घृष्टास्थिकूटं
निष्पिष्टं हाटकाद्रिप्रकटतटतटाकातिशङ्को जनोऽभूत् ।
येनाऽजौ रावणारिप्रियनटनपटुर्मुष्टिरिष्टं प्रदेष्टुं
किं नेष्टे मे स तेऽष्टापदकटकतटित्कोटिभामृष्टकाष्ठः ॥ 20 ॥
देव्यादेशप्रणीतिदृहिणहरवरावध्यरक्षोविघाता-
-द्यासेवोद्यद्दयार्द्रः सहभुजमकरोद्रामनामा मुकुन्दः ।
दुष्प्रापे पारमेष्ठ्ये करतलमतुलं मूर्धिविन्यस्य धन्यं
तन्वन्भूयः प्रभूतप्रणयविकसिताब्जेक्षणस्त्वेक्षमाणः ॥ 21 ॥
जघ्ने निघ्नेन विघ्नो बहुलबलबकध्वंसनाद्येन शोच-
-द्विप्रानुक्रोशपाशैरसुविधृतिसुखस्यैकचक्राजनानाम् ।
तस्मै ते देव कुर्मः कुरुकुलपतये कर्मणा च प्रणामान्
किर्मीरं दुर्मतीनां प्रथममथ च यो नर्मणा निर्ममाथ ॥ 22 ॥
निर्मृद्नन्नत्ययत्नं विजरवर जरासन्धकायास्थिसन्धीन्
युद्धे त्वं स्वध्वरे वा पशुमिव दमयन् विष्णुपक्षद्विडीशम् ।
यावत्प्रत्यक्षभूतं निखिलमखभुजं तर्पयामासिथासौ
तावत्याऽयोजि तृप्त्या किमु वद भगवन् राजसूयाश्वमेधे ॥ 23 ॥
क्ष्वेलाक्षीणाट्टहासं तव रणमरिहन्नुद्गदोद्दामबाहोः
बह्वक्षौहिण्यनीकक्षपणसुनिपुणं यस्य सर्वोत्तमस्य ।
शुश्रूषार्थं चकर्थ स्वयमयमथ संवक्तुमानन्दतीर्थ-
-श्रीमन्नामन्समर्थस्त्वमपि हि युवयोः पादपद्मं प्रपद्ये ॥ 24 ॥
दृह्यन्तीं हृदृहं मां दृतमनिल बलाद्द्रावयन्तीमविद्या-
-निद्रां विद्राव्य सद्योरचनपटुमथाऽपाद्य विद्यासमुद्र ।
वाग्देवी सा सुविद्याद्रविणद विदिता द्रौपदी रुद्रपत्न्या-
-दुद्रिक्ता द्रागभद्राद्रहयतु दयिता पूर्वभीमाऽज्ञया ते ॥ 25 ॥
याभ्यां शुश्रूषुरासीः कुरुकुलजनने क्षत्रविप्रोदिताभ्यां
ब्रह्मभ्यां बृंहिताभ्यां चितसुखवपुषा कृष्णनामास्पदाभ्याम् ।
निर्भेदाभ्यां विशेषाद्विवचनविषयाभ्याममूभ्यामुभाभ्यां
तुभ्यं च क्षेमदेभ्यः सरिसिजविलसल्लोचनेभ्यो नमोऽस्तु ॥ 26 ॥
गच्छन् सौगन्धिकार्थं पथि स हनुमतः पुच्छमच्छस्य भीमः
प्रोद्धर्तुं नाशकत्स त्वमुमुरुवपुषा भीषयामास चेति ।
पूर्णज्ञानौजसोस्ते गुरुतम वपुषोः श्रीमदानन्दतीर्थ
क्रीडामात्रं तदेतत् प्रमदद सुधियां मोहक द्वेषभाजाम् ॥ 27 ॥
बह्वीः कोटीरटीकः कुटलकटुमतीनुत्कटाटोपकोपान्
द्राक्च त्वं सत्वरत्वाच्चरणद गदया पोथयामासिथारीन् ।
उन्मथ्यातथ्यमिथ्यात्ववचनवचनानुत्पथस्थांस्तथाऽन्यान्
प्रायच्छः स्वप्रियायै प्रियतमकुसुमं प्राण तस्मै नमस्ते ॥ 28 ॥
देहादुत्क्रामितानामधिपतिरसतामक्रमाद्वक्रबुद्धिः
क्रुद्धः क्रोधैकवश्यः क्रिमिरिव मणिमान् दुष्कृती निष्क्रियार्थम् ।
चक्रे भूचक्रमेत्य क्रकचमिव सतां चेतसः कष्टशास्त्रं
दुस्तर्कं चक्रपाणेर्गुणगणविरहं जीवतां चाधिकृत्य ॥ 29 ॥
तद्दुष्प्रेक्षानुसारात्कतिपयकुनरैरादृतोऽन्यैर्विसृष्टो
ब्रह्माऽहं निर्गुणोऽहं वितथमिदमिति ह्येष पाषण्डवादः ।
तद्युक्त्याभासजालप्रसरविषतरूद्दाहदक्षप्रमाण-
-ज्वालामालाधराग्निः पवन विजयते तेऽवतारस्तृतीयः ॥ 30 ॥
आक्रोशन्तो निराशा भयभरविवशस्वाशयाश्छिन्नदर्पा
वाशन्तो देशनाशस्विति बत कुधियां नाशमाशादशाऽशु ।
धावन्तोऽश्लीलशीला वितथशपथशापाशिवाः शान्तशौर्या-
-स्त्वद्व्याख्यासिंहनादे सपदि ददृशिरे मायिगोमायवस्ते ॥ 31 ॥
त्रिष्वप्येवावतारेष्वरिभिरपघृणं हिंसितो निर्विकारः
सर्वज्ञः सर्वशक्तिः सकलगुणगणापूर्णरूपप्रगल्भः ।
स्वच्छः स्वच्छन्दमृत्युः सुखयसि सुजनं देव किं चित्रमत्र
त्राता यस्य त्रिधामा जगदुत वशगं किङ्कराः शङ्कराद्याः ॥ 32 ॥
उद्यन्मन्दस्मितश्रीमृदु मधुमधुरालापपीयूषधारा-
-पूरासेकोपशान्तासुखसुजनमनोलोचनापीयमानम् ।
सन्द्रक्ष्ये सुन्दरं सन्दुहदिह महदानन्दमानन्दतीर्थ
श्रीमद्वक्त्रेन्दुबिम्बं दुरतनुदुदितं नित्यदाऽहं कदा नु ॥ 33 ॥
प्राचीनाचीर्णपुण्योच्चयचतुरतराचारतश्चारुचित्ता-
-नत्युच्चां रोचयन्तीं श्रुतिचितवचनां श्रावकांश्चोद्यचुञ्चून् ।
व्याख्यामुत्खातदुःखां चिरमुचितमहाचार्य चिन्तारतांस्ते
चित्रां सच्छास्त्रकर्ताश्चरणपरिचराञ्छ्रावयास्मांश्च किञ्चित् ॥ 34 ॥
पीठे रत्नोकपक्लृप्ते रुचिररुचिमणिज्योतिषा सन्निषण्णं
ब्रह्माणं भाविनं त्वां ज्वलति निजपदे वैदिकाद्या हि विद्याः ।
सेवन्ते मूर्तिमत्यः सुचरित चरितं भाति गन्धर्व गीतं
प्रत्येकं देवसंसत्स्वपि तव भगवन्नर्तितद्योवधूषु ॥ 35 ॥
सानुक्रोशैरजस्रं जनिमृतिनिरयाद्यूर्मिमालाविलेऽस्मिन्
संसाराब्धौ निमग्नान् शरणमशरणानिच्छतो वीक्ष्य जन्तून् ।
युष्माभिः प्रार्थितः सन् जलनिधिशयनः सत्यवत्यां महर्षे-
-र्व्यक्तश्चिन्मात्रमूर्तिर्न खलु भगवतः प्राकृतो जातु देहः ॥ 36 ॥
अस्तव्यस्तं समस्तश्रुतिगतमधमै रत्नपूगं यथाऽन्धै-
-रर्थं लोकोपकृत्यै गुणगणनिलयः सूत्रयामास कृत्स्नम् ।
योऽसौ व्यासाभिधानस्तमहमहरहर्भक्तितस्त्वत्प्रसादात्
सद्यो विद्योपलब्ध्यै गुरुतममगुरुं देवदेवं नमामि ॥ 37 ॥
आज्ञामन्यैरधार्यां शिरसि परिसरद्रश्मिकोटीरकोटौ
कृष्णस्याक्लिष्टकर्मा दधदनुसराणादर्थितो देवसङ्घैः ।
भूमावागत्य भूमन्नसुकरमकरोर्ब्रह्मसूत्रस्य भाष्यं
दुर्भाष्यं व्यस्य दस्योर्मणिमत उदितं वेदसद्युक्तिभिस्त्वम् ॥ 38 ॥
भूत्वा क्षेत्रे विशुद्धे द्विजगणनिलये रौप्यपीठाभिधाने
तत्रापि ब्रह्मजातिस्त्रिभुवनविशदे मध्यगेहाख्यगेहे ।
पारिव्राज्याधिराजः पुनरपि बदरीं प्राप्य कृष्णं च नत्वा
कृत्वा भाष्याणि सम्यग् व्यतनुत च भवान् भारतार्थप्रकाशम् ॥ 39 ॥
वन्दे तं त्वां सुपूर्णप्रमतिमनुदिनासेवितं देववृन्दैः
वन्दे वन्दारुमीशे श्रिय उत नियतं श्रीमदानन्दतीर्थम् ।
वन्दे मन्दाकिनीसत्सरिदमलजलासेकसाधिक्यसङ्गं
वन्देऽहं देव भक्त्या भवभयदहनं सज्जनान्मोदयन्तम् ॥ 40 ॥
सुब्रह्मण्याख्यसूरेः सुत
इति सुभृशं केशवानन्दतीर्थ- श्रीमत्पादाब्जभक्तः स्तुतिमकृत हरेर्वायुदेवस्य चास्य । तत्पादार्चादरेण ग्रथितपदलसन्मालया त्वेतया ये संराध्यामू नमन्ति प्रततमतिगुणा मुक्तिमेते व्रजन्ति ॥ 41 ॥ अथ श्रीनखस्तुतिः पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटा कुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः । श्रीमत्कण्ठीरवास्य प्रतत सुनखरा दारितारातिदूर- प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः ॥ 1 ॥ लक्ष्मीकान्त समन्ततोऽविकलयन् नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टमः । यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्निस्फुरत् खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ 2 ॥ इति श्रीत्रिविक्रमपण्डिताचार्य विरचिता वायुस्तुतिः समाप्ता ॥

Explore More