Goddess Kali

श्री कालिका स्तोत्रम्

(Sri Kalika Stotram (Tripura Sundari Tantra))

Also known as shri kalika stotram (tripura sundari tantra) · shree kalika stotram (tripura sundari tantra) · kalika stotram (tripura sundari tantra)

Nineteen verses from the Dakshinamurti Samhita of the Tripurasundari Tantra, where the Goddess asks and Dakshinamurti answers, and the instruction given with them matters as much as the verses do: worship Kali first in the proper manner, and only then recite this daily. The hymn itself is a chain of vocatives, each verse a handful of names closing on a salutation — of auspicious body, red of eye, having the very form of Mahadeva, and then, in the same breath, the one who has no lord above her, who is without support and without anything to lean upon. Hindi glosses stand appended inside the verses.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री गणेशाय नमः ॥
॥ श्री कालिका स्तोत्रम् ॥
॥ श्रीदेव्युवाच॥
स्वामिन् सर्वजगन्नाथ प्रणतार्तिविनाशन ।
कालिकायाः महास्तोत्रं ब्रूहि भक्तेष्टदायकम् ॥ १ ॥
॥ श्रीदक्षिणामूर्तिरुवाच ॥
एवं कालीं महादेवीं सम्पूज्य नरपुङ्गवः ।
स्तोत्रं जपेदिदं नित्यं कालिकाया महेश्वरि ॥ २ ॥
॥ स्तोत्रम् ॥
ओं क्रीम् ।
जय त्वं कालिके देवि जय मातर्महेश्वरि ।
जय दिव्ये महालक्ष्मि महाकालि नमोऽस्तु ते ॥ ३ ॥
मुक्तकेशि नमस्तेऽस्तु नमस्तुभ्यं चतुर्भुजे ।
वीरकालि नमस्तुभ्यं मृत्युकालि नमो नमः ॥ ४ ॥
नमः करालवदने नमस्ते घोररूपिणि ।
भद्रकालि नमस्तुभ्यं महाकालप्रिये नमः ॥ ५ ॥
जय त्वं सर्वविद्यानामधीश्वरि शिवप्रिये ।
वागीश्वरि महादेवि नमस्तुभ्यं दिगम्बरे ॥ ६ ॥
नीलमेघप्रतीकाशे नीलाम्बरविराजिते ।
आदिमध्यान्तरहिते नमस्ते गणकालिके ॥ ७ ॥
सर्वसम्पत्प्रदे नित्यं सर्वोपद्रवनाशिनि ।
महामाये महाकृष्णे भक्तशत्रुविनाशिनि ॥ ८ ॥
जगन्मातर्जगद्रूपे विरूपाक्षि नमोऽस्तु ते ।
सिंहारूढे नमस्तुभ्यं गजारूढे नमो नमः ॥ ९ ॥
नमो भद्राङ्गि रक्ताक्षि महादेवस्वरूपिणि ।
निरीश्वरि निराधारे निरालम्बे नमो नमः ॥ १० ॥
निर्गुणे सगुणे तुभ्यं नमस्तेऽस्तु सरस्वति ।
नीलकेशि नमस्तुभ्यं व्योमकेशि नमोऽस्तु ते ॥ ११ ॥
नमस्ते पार्वतीरूपे नम उत्तरकालिके ।
नमस्ते चण्डयोगेशि चण्डास्ये चण्डनायिके ॥ १२ ॥
जय त्वं चण्डिके भद्रे चामुण्डे त्वां नमाम्यहम् ।
नमस्तुभ्यं महाकाये नमस्ते मातृसंस्तुते ॥ १३ ॥
नमस्ते सिद्धसंस्तुत्ये हरिरुद्रादिपूजिते ।
कालिके त्वां नमस्यामि तवोक्तं गिरिसम्भवे ॥ १४ ॥
॥ फलश्रुति ॥
य एतन्नित्यमेकाग्रः प्रजपेन्मानवोत्तमः ।
स मुच्यते महापापैर्जन्मकोटिसमुद्भवैः ॥ १५ ॥
व्याचष्टे सर्वशास्त्राणि विवादे जयमाप्नुयात् ।
मूकोऽपि ब्रह्मसदृशो विद्यया भवति ध्रुवम् ॥ १६ ॥
एकेन श्रवणेनैव ग्रहेद्वेदचतुष्टयम् ।
महाकविर्भवेन्मन्त्री लभते महतीं श्रियम् ॥ १७ ॥
जगत्त्रयं वशीकुर्यात् महासौन्दर्यवान् भवेत् ।
अष्टैश्वर्याण्यवाप्नोति पुत्रान् पौत्राननुत्तमान् ।
देवीसामीप्यमाप्नोति अन्ते नात्र विचारणा ॥ १८ ॥
॥ इति श्रीत्रिपुरसुन्दरीतन्त्रे दक्षिणामूर्तिसंहितायां श्री कालिका स्तोत्रम् सम्पूर्णम् ॥

Explore More