Goddess Lalita

श्रीत्रिपुरसुन्दरीचक्रराजस्तोत्रम्

(Sri Tripurasundari Chakraraja Stotram)

Also known as shri tripurasundari chakraraja stotram · shree tripurasundari chakraraja stotram · tripurasundari chakraraja stotram

The refuge taken here is the diagram rather than the figure: every verse ends by going for shelter to the Shrichakra, giver of every accomplishment. It is one of six stavas in this corpus spelling the sixteen syllables of the Shodashi mantra down their opening letters, and one of the two that print those syllables as headings. The verses work inward through the enclosures — the seventh reaches the inner ten-cornered wheel called Rakshakara, where Tripuramalini rules unrevealed; the fifteenth arrives at the point itself, with Kameshvara reciting the one great hrim and Kameshvari, an ocean of the essence of compassion, seated on his lap. The last verse calls the diagram the one dwelling of the fifteen syllables and the temple of Shodashi.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्रीत्रिपुरसुन्दरीचक्रराजस्तोत्रम् ॥
श्रीत्रिपुरसुन्दरी मूलमन्त्रात्मकः चक्रराजस्तवः
श्रीगणेशाय नमः ।
॥ क ॥
कर्तुं देवि ! जगद्-विलास-विधिना सृष्टेन ते मायया
सर्वानन्द-मयेन मध्य-विलसच्छ्री-विनदुनाऽलङ्कृतम् ।
श्रीमद्-सद्-गुरु-पूज्य-पाद-करुणा-संवेद्य-तत्त्वात्मकं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ १॥
॥ ए ॥
एकस्मिन्नणिमादिभिर्विलसितं भूमी-गृहे सिद्धिभिः
वाह्याद्याभिरुपाश्रितं च दशभिर्मुद्राभिरुद्भासितम् ।
चक्रेश्या प्रकतेड्यया त्रिपुरया त्रैलोक्य-सम्मोहनं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ २॥
॥ ई ॥
ईड्याभिर्नव-विद्रुम-च्छवि-समाभिख्याभिरङ्गी-कृतं
कामाकर्षिणी कादिभिः स्वर-दले गुप्ताभिधाभिः सदा ।
सर्वाशा-परि-पूरके परि-लसद्-देव्या पुरेश्या युतं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ ३॥
॥ ल ॥
लब्ध-प्रोज्ज्वल-यौवनाभिरभितोऽनङ्ग-प्रसूनादिभिः
सेव्यं गुप्त-तराभिरष्ट-कमले सङ्क्षोभकाख्ये सदा ।
चक्रेश्या पुर-सुन्दरीति जगति प्रख्यातयासङ्गतं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ ४॥
॥ ह्रीं ॥
ह्रीङ्काराङ्कित-मन्त्र-राज-निलयं श्रीसर्व-सङ्क्षोभिणी
मुख्याभिश्चल-कुन्तलाभिरुषितं मन्वस्र-चक्रे शुभे ।
यत्र श्री-पुर-वासिनी विजयते श्री-सर्व-सौभाग्यदे
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ ५॥
॥ ह ॥
हस्ते पाश-गदादि-शस्त्र-निचयं दीप्तं वहन्तीभिः
उत्तीर्णाख्याभिरुपास्य पाति शुभदे सर्वार्थ-सिद्धि-प्रदे ।
चक्रे बाह्य-दशारके विलसितं देव्या पूर-श्र्याख्यया
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ ६॥
॥ स ॥
सर्वज्ञादिभिरिनदु-कान्ति-धवला कालाभिरारक्षिते
चक्रेऽन्तर्दश-कोणकेऽति-विमले नाम्ना च रक्षा-करे ।
यत्र श्रीत्रिपुर-मालिनी विजयते नित्यं निगर्भा स्तुता
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ ७॥
॥ क ॥
कर्तुं मूकमनर्गल-स्रवदित-द्राक्षादि-वाग्-वैभवं
दक्षाभिर्वशिनी-मुखाभिरभितो वाग्-देवताभिर्युताम् ।
अष्टारे पुर-सिद्धया विलसितं रोग-प्रणाशे शुभे
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ ८॥
॥ ह ॥
हन्तुं दानव-सङ्घमाहव भुवि स्वेच्छा समाकल्पितैः
शस्त्रैरस्त्र-चयैश्च चाप-निवहैरत्युग्र-तेजो-भरैः ।
आर्त-त्राण-परायणैररि-कुल-प्रध्वंसिभिः संवृतं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ ९॥
॥ ल ॥
लक्ष्मी-वाग-गजादिभिः कर-लसत्-पाशासि-घण्टादिभिः
कामेश्यादिभिरावृतं शुभ~ण्करं श्री-सर्व-सिद्धि-प्रदम् ।
चक्रेशी च पुराम्बिका विजयते यत्र त्रिकोणे मुदा
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ १०॥
॥ ह्रीं ॥
ह्रीङ्कारं परमं जपद्भिरनिशं मित्रेश-नाथादिभिः
दिव्यौघैर्मनुजौघ-सिद्ध-निवहैः सारूप्य-मुक्तिं गतैः ।
नाना-मन्त्र-रहस्य-विद्भिरखिलैरन्वासितं योगिभिः
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ ११॥
॥ स ॥
सर्वोत्कृष्ट-वपुर्धराभिरभितो देवी समाभिर्जगत्
संरक्षार्थमुपागताऽभिरसकृन्नित्याभिधाभिर्मुदा ।
कामेश्यादिभिराज्ञयैव ललिता-देव्याः समुद्भासितं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ १२॥
॥ क ॥
कर्तुं श्रीललिताङ्ग-रक्षण-विधिं लावण्य-पूर्णां तनूं
आस्थायास्त्र-वरोल्लसत्-कर-पयोजाताभिरध्यासितम् ।
देवीभिर्हृदयादिभिश्च परितो विन्दुं सदाऽऽनन्ददं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ १३॥
॥ ल ॥
लक्ष्मीशादि-पदैर्युतेन महता मञ्चेन संशोभितं
षट्-त्रिंशद्भिरनर्घ-रत्न-खचितैः सोपानकैर्भूषितम् ।
चिन्ता-रत्न-विनिर्मितेन महता सिंहासनेनोज्ज्वलं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ १४॥
॥ ह्रीं ॥
ह्रीङ्कारैक-महा-मनुं प्रजपता कामेश्वरेणोषितं
तस्याङ्के च निषण्णया त्रि-जगतां मात्रा चिदाकिरया ।
कामेश्या करुणा-रसैक-निधिना कल्याण-दात्र्या युतं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ १५॥
॥ श्रीं ॥
श्रीमत्-पञ्च-दशाक्षरैक-निलयं श्रीषोडशी-मन्दिरं
श्रीनाथादिभिरर्चितं च बहुधा देवैः समाराधितम् ।
श्रीकामेश-रहस्सखी-निलयनं श्रीमद्-गुहाराधितं
श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ १६॥

Explore More