श्रीकृष्ण उवाच ।
त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥ 1 ॥
परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी ॥ 2 ॥
सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा ॥ 3 ॥
सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला ॥ 4 ॥
सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी ॥ 5 ॥
दक्षिणा सर्वदाने च सर्वशक्तिस्वरूपिणी ॥ 6 ॥
क्षुत् क्षान्तिः शान्तिरीशा च कान्तिस्तुष्टिश्च शाश्वती ॥ 7 ॥
सतां सम्पत्स्वरूपा श्रीर्विपत्तिरसतामिह ॥ 8 ॥
शश्वत्कर्ममयी शक्तिः सर्वदा सर्वजीविनाम् ॥ 9 ॥
हिताय सर्वदेवानां सर्वासुरविनाशिनी ॥ 10 ॥
सिद्धिस्वरूपा सिद्धानां सिद्धिदा सिद्धयोगिनी ॥ 11 ॥
भद्रदा भद्रकाली च सर्वलोकभयङ्करी ॥ 12 ॥
सतां कीर्तिः प्रतिष्ठा च निन्दा त्वमसतां सदा ॥ 13 ॥
रक्षास्वरूपा शिष्टानां मातेव हितकारिणी ॥ 14 ॥
ब्रह्मण्यरूपा विप्राणां तपस्या च तपस्विनाम् ॥ 15 ॥
मेधा स्मृतिस्वरूपा च प्रतिभा प्रतिभावताम् ॥ 16 ॥
सृष्टौ सृष्टिस्वरूपा त्वं रक्षारूपा च पालने ॥ 17 ॥
कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी ॥ 18 ॥
यया मुग्धो हि विद्वांश्च मोक्षमार्गं न पश्यति ॥ 19 ॥
पूजाकाले पठेद्यो हि सिद्धिर्भवति वाञ्छिता ॥ 20 ॥
