त्वं चेतना यत इति प्रविचार्य चित्ते, नित्यं त्वदीय चरणौ शरणं प्रपद्ये॥१॥
त्वन्मोह-पाश-विवशो जगदम्बसोऽपि, व्याघूर्णमाननयनः शयनं चकार॥२॥
तस्यापि यौ न भवतः सुलभौ निहन्तुं, त्वन्मायया कविलतौ विलयं गतौ तौ॥३॥
यत्लोकशोकजननब्रतबद्ध-हार्द, तल्लीलयैव दलितं गिरिजे भवत्या॥४॥
सर्वासुरक्षयकरे गिरिराजकन्ये मन्ये, स्वमन्यु दहने कृत एष होमः॥५॥
तौ दुर्मदौ सपदि चाम्बर तुल्यमूर्ते, मतिस्तवासिकुलिशात् पतितौ विशीर्णो॥६॥
भूयोऽपि तस्य चरितं प्रथयाञ्चकार, सा त्वं प्रसीद शिवदूति विजृम्भितेन॥७॥
भूमौ बभूवुरमिताः प्रतिरक्तबीजा, स्तेऽपित्वयैव गगने गलिताः समस्ताः॥८॥
शस्त्रैर्निहत्य भुवि शुम्भ-निशुम्भसंज्ञौ, नीतौ त्वया जननि तावपि नाकलोकम्॥९॥
तस्मिन्निपत्य शलभा इव दानवेन्द्रा, भस्मी भवन्ति हि भवानि किमत्र चित्रम्॥१०॥
तत्किं गृणामि भवन्ती भव तीव्र ताप, संवर्द्धन-प्रणयनीं विपदि स्थितेषु॥११॥
खेटं गदां च दधतीं भवतीं भवानि, ध्यायन्ति येऽरुणनिभां कृतिनस्त एव॥१२॥
मायाङ्कितं तिलकितं तरुणेन्दु बिन्दु-, र्नादैरमन्दमिह राज्यमसौ भुनक्ति॥१३॥
मातः क्षमस्व वरदे बहिरन्तरस्थे॥१४॥
का भूरिशब्दरचना वचनाधिका सा, दीनं जनं जननि मामव निष्प्रपञ्चम्॥१५॥
श्रीमान् सुखी स विजयी सुभगः कृती स्यात्, त्यागी चिरन्तनवपुः कवि चक्रवर्ती॥१६॥
