Goddess Durga

श्री मूकाम्बिका स्तोत्रम्

(Sri Mukambika Stotram)

Also known as shri mukambika stotram · shree mukambika stotram · mukambika stotram

Twelve dense verses in shardulavikridita, each ending on the same words: I meditate on Mukambika. The first places her in the middle triangle of the root lotus and on the Kollur hill at once, glowing bandhuka-red, her dark hair fragrant with cardamom; later verses call her Bala, Tripura and Kameshvari, and four of them add that she is together with Shiva, which sets the whole within the Shrividya. The attributes shift freely between meditations — conch and discus with boon and safety in one verse, trident, noose, skull and book in the next, a golden lotus in the last — and she is by turns bright as a thousand crore noon suns, twilight-red, and cloud-dark. She is named the giver of many kinds of poetry, and the final verse bows to Mukamba as the supreme deity herself.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री मूकाम्बिका स्तोत्रम् ॥
मूलाम्भोरुहमध्यकोणविलसद्बन्धूकरागोज्ज्वलां
ज्वालाजालजितेन्दुकान्तिलहरीमानन्दसन्दायिनीं ।
एलाललितनीलकुन्तलधरां नीलोत्पलाभाम्शुकां
कोलूराद्रिनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १ ॥
बालादित्यनिभाननां त्रिनयनां बालेन्दुना भूषितां
नीलाकारसुकेशिनीं सुललितां नित्यान्नदानप्रियां ।
शङ्खं चक्र वराभयां च दधतीं सारस्वतार्थप्रदां
तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ २ ॥
मध्याह्नार्कसहस्रकोटिसदृशां मायान्धकारच्छिदां
मध्यान्तादिविवर्जितां मदकरीं मारेण संसेवितां ।
शूलम्पाशकपालपुस्तकधरां शुद्धार्थविज्ञानदां
तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ३ ॥
सन्ध्यारागसमाऽननां त्रिनयनां सन्मानसैः पूजितां
चक्राक्षाभय कम्पि शोभितकरां प्रालम्बवेणीयुतां ।
ईषत्फुल्लसुकेतकीदललसत्सभ्यार्चिताङ्घ्रिद्वयां
तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ४ ॥
चन्द्रादित्यसमानकुण्डलधरां चन्द्रार्ककोटिप्रभां
चन्द्रार्काग्निविलोचनां शशिमुखीमिन्द्रादिसंसेवितां ।
मन्त्राद्यन्तसुतन्त्रयागभजितां चिन्ताकुलध्वंसिनीं
मन्दारादिवनेस्थितां मणिमयीं ध्यायामि मूकाम्बिकाम् ॥ ५ ॥
कल्याणीं कमलेक्षणां वरनिधिं वन्दारुचिन्तामणिं
कल्य़ाणाचलसंस्थितां घनकृपां मायां महावैष्णवीं ।
कल्यां कम्बुसुदर्शनां भयहरां शम्भुप्रियां कामदां
कल्याणीं त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ६ ॥
कालाम्भोधरकुन्तलाञ्चितमुखां कर्पूरवीटीयुतां
कर्णालम्बितहेमकुण्डलधरां माणिक्यकाञ्चीधरां ।
कैवल्यैकपरायणां कलिमलप्रध्वंसिनीं कामदां
कल्याणीं त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ७ ॥
नानाकान्तिविचित्रवस्त्रसहितां नानाविधैर्भूषितां
नानापुष्पसुगन्धमाल्यसहितां नानाजनैस्सेवितां ।
नानावेदपुराणशास्त्रविनुतां नानाकवित्वप्रदां
नानारूपधरां महेशमहिषीं ध्यायामि मूकाम्बिकाम् ॥ ८ ॥
राकातारकनायकोज्ज्वलमुखीं श्रीकामकाम्यप्रदां
शोकारण्यधनञ्जयप्रतिनिभां कोपाटवीचन्द्रिकां ।
श्रीकान्तादिसुरार्चितां स्त्रियमिमां लोकावलीनाशिनीं
लोकानन्दकरीं नमामि शिरसा ध्यायामि मूकाम्बिकाम् ॥ ९ ॥
काञ्चीकिङ्किणिकङ्कणाङ्गदधरां मञ्जीरहारोज्ज्वलां
चञ्चत्काञ्चनसत्किरीटघटितां ग्रैवेयभूषोज्ज्वलां ।
किञ्चिन्त्काञ्चनकञ्चुके मणिमये पद्मासने संस्थितां
पञ्चास्याञ्चितचञ्चरीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १० ॥
सौवर्णाम्बुजमध्यकान्तिनयनां सौदामिनीसन्निभां
शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीं ।
ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलादिस्तुतां
मायाविन्ध्यनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ ११ ॥
श्रीमन्नीपवने सुरैर्मुनिगणैरप्सरोभिश्च सेव्यां
मन्दारादि समस्तदेवतरुभिस्सम्शोभमानां शिवां ।
सौवर्णाम्बुजधारिणीं त्रिनयनां एकादिकामेश्वरीं
मूकाम्बां सकलेष्टसिद्धिफलदां वन्दे परां देवताम् ॥ १२ ॥
॥ इति श्री मूकाम्बा स्तोत्रं सम्पूर्णम् ॥

Explore More