Lord Vishnu

श्री महाविष्णु स्तुतिः

(Sri Maha Vishnu Stuti)

From Suta Samhita

Also known as shri maha vishnu stuti · shree maha vishnu stuti · maha vishnu stuti

Twenty-two verses from the Suta Samhita, spoken by the brahmin sages and made almost entirely of salutations, each of them a name in the dative. It opens on the first being among the gods, the ancient person, the supreme self, and then on the one free of age and death and disease. The middle turns technical: he is saluted as the form of maya and as the reason maya has any existence at all, and then, in the same verse, in the ranked forms as Pradyumna and as Sankarshana. The last verse leaves the doctrine for a plainer request, saluting him as the giver of a raft of dispassion to those who have been overcome by passion.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री महाविष्णु स्तुतिः ॥
(सूतसंहितायाम्)
ब्रह्मर्षय ऊचुः ।
नमस्ते देवदेवानामादिभूत सनातन ।
पुरुषाय पुराणाय नमस्ते परमात्मने ॥ १ ॥
जरामरणरोगादिविहीनायामलात्मने ।
ब्रह्मणां पतये तुभ्यं जगतां पतये नमः ॥ २ ॥
लोकालोकस्वरूपाय लोकानां पतये नमः ।
शङ्खचक्रगदापद्मपाणये विष्णवे नमः ॥ ३ ॥
नमो हिरण्यगर्भाय श्रीपते भूपते नमः ।
नमः स्वयम्भुवे तुभ्यं सूत्रात्मादिस्वरूपिणे ॥ ४ ॥
विराट् प्रजापतेः साक्षाज्जनकाय नमो नमः ।
विश्वतैजसरूपाय प्राज्ञरूपाय ते नमः ॥ ५ ॥
जाग्रत्स्वप्नस्वरूपाय नमः सुप्त्यात्मने नमः ।
अवस्थासाक्षिणे तुभ्यमवस्थावर्जिताच्युत ॥ ६ ॥
तुरीयाय विशुद्धाय तुर्यातीताय ते नमः ।
प्रथमाय समस्तस्य जगतः परमात्मने ॥ ७ ॥
ओङ्कारैकस्वरूपाय शिवाय शिवद प्रभो ।
सर्वविज्ञानसम्पन्न नमो विज्ञानदायिने ॥ ८ ॥
जगतां योनये तुभ्यं वेधसे विश्वरूपिणे ।
नित्यशुद्धाय बुद्धाय मुक्ताय सुखरूपिणे ॥ ९ ॥
नमो वाचामतीताय मनोऽगम्याय ते नमः ।
अप्रमेयाय शान्ताय स्वयम्भानाय साक्षिणे ॥ १० ॥
नमः पुंसे पुराणाय श्रेयःप्राप्त्येकहेतवे ।
आकाशादिप्रपञ्चाय नमस्तद्रूप शङ्कर ॥ ११ ॥
मायारूपाय मायायाः सत्ताहेतो जनार्दन ।
नमः प्रद्युम्नरूपाय नमः सङ्कर्षणात्मने ॥ १२ ॥
नमोऽनिरुद्धरूपाय वासुदेवाय ते नमः ।
योगाय योगगम्याय योगिनामिष्टसिद्धिद ॥ १३ ॥
नमस्ते मत्स्यरूपाय नमस्ते कूर्मरूपिणे ।
नमस्तुभ्यं वराहाय नारसिंहाय ते नमः ॥ १४ ॥
नमो वामनरूपाय नमो रामत्रयात्मने ।
नमः कृष्णाय सर्वज्ञ नमस्ते कल्किरूपिणे ॥ १५ ॥
कर्मिणां फलरूपाय कर्मरूपाय ते नमः ।
कर्मकर्त्रे नमस्तुभ्यं नमस्ते कर्मसाक्षिणे ॥ १६ ॥
नमो विज्ञप्तिरूपाय नमो वेदान्तरूपिणे ।
गुणत्रयात्मने तुभ्यं नमो निर्गुणरूपिणे ॥ १७ ॥
अद्भुतायामरेशाय शिवप्राप्त्येकहेतवे ।
नमो नक्षत्ररूपाय नमस्ते सोमरूपिणे ॥ १८ ॥
नमः सूर्यात्मने तुभ्यं नमो वज्रधराय ते ।
नमस्ते पद्मनाभाय नमस्ते शार्ङ्गपाणये ॥ १९ ॥
नमस्तुभ्यं विशालाक्ष नमः श्रीधर नायक ।
नमः संसारतप्तानां तापनाशैकहेतवे ॥ २० ॥
श्रौतस्मार्तैकनिष्ठानामचिरादेव मुक्तिद ।
अन्येषामपि सर्वेषां संसारैकप्रदाव्यय ॥ २१ ॥
नमोऽसुरविमर्दाय नमो विद्याधरार्चित ।
क्षीरोदशायिने तुभ्यं नमो वैकुण्ठवासिने ।
नमो रागाभिभूतानां वैराग्यप्लवदायिने ॥ २२ ॥
॥ इति सूतसंहितायां श्री महाविष्णु स्तुतिः सम्पूर्णम् ॥

Explore More