समस्तकवचानां तु तेजस्वि कवचोत्तमम् ।
आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते ॥ १ ॥
महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः ।
चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् ॥ २ ॥
शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा ।
चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा ॥ ३ ॥
मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी ॥ ४ ॥
बाहू द्वौ द्रविणी पातु करौ हरिवराङ्गना ॥ ५ ॥
कुक्षिं च वैष्णवी पातु नाभिं भुवनमातृका ॥ ६ ॥
ऊरू नारायणी पातु जानुनी चन्द्रसोदरी ॥ ७ ॥
नखान् तेजस्विनी पातु सर्वाङ्गं करुणामयी ॥ ८ ॥
ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये ॥ ९ ॥
मातेव सर्वसुखदा भव त्वममरेश्वरी ॥ १० ॥
लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन् ॥ ११ ॥
यः पठेत्स च धर्मात्मा सर्वान् कामानवाप्नुयात् ॥ १२ ॥
