Goddess Lakshmi

श्री महालक्ष्मी स्तवः

(Sri Mahalakshmi Stava by Lord Narayana)

From Brahmavaivarta Purana

Also known as narayana krita mahalakshmi stava · brahmavaivarta lakshmi stava · devi tvam stotum ichchhami

Narayana's own hymn to Lakshmi, from the twenty-second chapter of the Ganapati Khanda in the Brahmavaivarta Purana, and it opens by admitting that the task is beyond the speaker — which carries a particular weight when the speaker is her husband. Goddess, I wish to praise you; the lords themselves are not able to praise you, who are beyond the reach of the understanding, subtle, whose form is light, everlasting, and utterly beyond description — who then is able to describe you? The second keeps the same footing: made of your own will, formless, whose body is grace to devotees — I praise you who are past speech and mind; or what am I, mother of the world? Thirteen verses, and the confession of inadequacy is sustained through all of them.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री महालक्ष्मी स्तवः ॥
॥ श्रीब्रह्मवैवर्तमहापुराणे गणपतिखण्डे द्वाविंशोऽध्याये ॥
नारायण उवाच।
देवि त्वां स्तोतुमिच्छामि न क्षमाः स्तोतुमीश्वराः ।
बुद्धेरगोचरां सूक्ष्मां तेजोरूपां सनातनीम् ।
अत्यनिर्वचनीयां च को वा निर्वक्तुमीश्वरः ॥ १ ॥
स्वेच्छामयीं निराकारां भक्तानुग्रहविग्रहाम् ।
स्तौमि वाङ्मनसोः पारां किं वाऽहं जगदम्बिके ॥ २ ॥
परां चतुर्णां वेदानां पारबीजं भवार्णवे ।
सर्वसस्याऽधिदेवीं च सर्वासामपि सम्पदाम् ॥ ३ ॥
योगिनां चैव योगानां ज्ञानानां ज्ञानिनां तथा ।
वेदानां वै वेदविदां जननीं वर्णयामि किम् ॥ ४ ॥
यया विना जगत्सर्वमबीजं निष्फलं ध्रुवम् ।
यथा स्तनन्धयानां च विना मात्रा सुखं भवेत् ॥ ५ ॥
प्रसीद जगतां माता रक्षास्मानतिकातरान् ।
वयं त्वच्चरणाम्भोजे प्रपन्नाः शरणं गताः ॥ ६ ॥
नमः शक्तिस्वरूपायै जगन्मात्रे नमो नमः ।
ज्ञानदायै बुद्धिदायै सर्वदायै नमो नमः ॥ ७ ॥
हरिभक्तिप्रदायिन्यै मुक्तिदायै नमो नमः ।
सर्वज्ञायै सर्वदायै महालक्ष्म्यै नमो नमः ॥ ८ ॥
कुपुत्राः कुत्रचित्सन्ति न कुत्राऽपि कुमातरः ।
कुत्र माता पुत्रदोषं तं विहाय च गच्छति ॥ ९ ॥
स्तनन्धयेभ्य इव मे हे मातर्देहि दर्शनम् ।
कृपां कुरु कृपासिन्धो त्वमस्मान्भक्तवत्सले ॥ १० ॥
॥ फलश्रुति ॥
इत्येवं कथितं वत्स पद्मायाश्च शुभावहम् ।
सुखदं मोक्षदं सारं शुभदं सम्पदः प्रदम् ॥ ११ ॥
इदं स्तोत्रं महापुण्यं पूजाकाले च यः पठेत् ।
महालक्ष्मीर्गृहं तस्य न जहाति कदाचन ॥ १२ ॥
॥ इति श्रीब्रह्मवैवर्तमहापुराणे गणपतिखण्डे द्वाविंशोऽध्याये नारदनारायणसंवादे श्री लक्ष्मी स्तवः ॥

Explore More