Lord Narasimha

श्री नृसिंह मन्त्रराजपाद स्तोत्रम्

(Shri Narasimha Mantrarajapada Stotram)

From Ahirbudhnya Samhita

This powerful stotram originates from the Ahirbudhnya Samhita and serves as a quintessential prayer to Lord Narasimha, the fierce man-lion avatar of Vishnu. The verses exalt the deity's destructive power against evil, emphasizing his role as the protector of the righteous. Chanting this hymn is believed to dispel internal and external fears, neutralize negative influences, and provide immense spiritual strength. It is regarded as a mantra-raja, a king among mantras, offering devotees divine shelter, courage, and the realization of ultimate truth through the grace of the ferocious yet protective Lord Narasimha.

पार्वत्युवाच ।

मन्त्राणां परमं मन्त्रं गुह्यानां गुह्यमेव च ।
ब्रूहि मे नारसिंहस्य तत्त्वं मन्त्रस्य दुर्लभम् ॥
शङ्कर उवाच
वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम् ।
निनादत्रस्तविश्वाण्डं विष्णुमुग्रं नमाम्यहम् ॥ 1 ॥
सर्वैरवध्यतां प्राप्तं सबलौघं दितेः सुतम् ।
नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम् ॥ 2 ॥
पदावष्टब्धपातालं मूर्धाऽऽविष्टत्रिविष्टपम् ।
भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम् ॥ 3 ॥
ज्योतींष्यर्केन्दुनक्षत्रज्वलनादीन्यनुक्रमात् ।
ज्वलन्ति तेजसा यस्य तं ज्वलन्तं नमाम्यहम् ॥ 4 ॥
सर्वेन्द्रियैरपि विना सर्वं सर्वत्र सर्वदा ।
यो जानाति नमाम्याद्यं तमहं सर्वतोमुखम् ॥ 5 ॥
नरवत् सिंहवच्चैव यस्य रूपं महात्मनः ।
महासटं महादंष्ट्रं तं नृसिंहं नमाम्यहम् ॥ 6 ॥
यन्नामस्मरणाद्भीताः भूतवेतालराक्षसाः ।
रोगाद्याश्च प्रणश्यन्ति भीषणं तं नमाम्यहम् ॥ 7 ॥
सर्वेऽपि यं समाश्रित्य सकलं भद्रमश्नुते ।
श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम् ॥ 8 ॥
साक्षात् स्वकाले सम्प्राप्तं मृत्युं शत्रुगणान्वितम् ।
भक्तानां नाशयेद्यस्तु मृत्युमृत्युं नमाम्यहम् ॥ 9 ॥
नमस्कारात्मकं यस्मै विधायात्मनिवेदनम् ।
त्यक्तदुःखोऽखिलान् कामानश्नन्तं तं नमाम्यहम् ॥ 10 ॥
दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः ।
अतोऽहमपि ते दासः इति मत्वा नमाम्यहम् ॥ 11 ॥
शङ्करेणादरात् प्रोक्तं पदानां तत्त्वमुत्तमम् ।
त्रिसन्ध्यं यः पठेत्तस्य श्रीविद्याऽऽयुश्च वर्धते ॥ 12 ॥
इति श्रीशङ्करकृत श्री नृसिंह मन्त्रराजपद स्तोत्रम् ।

Explore More