Lord Narasimha

कामसिकाष्टकम्

(Kamasikashtakam)

Swami Vedanta Desika

Kamasikashtakam is a profound octet composed by the illustrious philosopher Swami Vedanta Desika, dedicated to Lord Narasimha residing at the Kamasikha temple in Kanchipuram. The verses glorify the Lord who manifested near the Vegavati River to protect his devotees. By invoking the divine form of Narasimha, who possesses the sun, moon, and fire as his eyes, the stotra serves as a powerful shield against internal and external afflictions. Chanting this hymn with devotion is believed to dispel spiritual ignorance, grant protection from malevolent forces, and bestow supreme peace and liberation upon the sincere seeker.

श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम् ।
कामादधिवसन् जीयात् कश्चिदद्भुत केसरी ॥ 1 ॥
तपनेन्द्वग्निनयनः तापानपचिनोतु नः ।
तापनीयरहस्यानां सारः कामासिका हरिः ॥ 2 ॥
आकण्ठमादिपुरुषं
कण्ठीरवमुपरि कुण्ठितारातिम् ।
वेगोपकण्ठसङ्गात्
विमुक्तवैकुण्ठबहुमतिमुपासे ॥ 3 ॥
बन्धुमखिलस्य जन्तोः
बन्धुरपर्यङ्कबन्धरमणीयम् ।
विषमविलोचनमीडे
वेगवतीपुलिनकेलिनरसिंहम् ॥ 4 ॥
स्वस्थानेषु मरुद्गणान् नियमयन् स्वाधीनसर्वेन्द्रियः
पर्यङ्कस्थिरधारणा प्रकटितप्रत्यङ्मुखावस्थितिः ।
प्रायेण प्रणिपेदुषः प्रभुरसौ योगं निजं शिक्षयन्
कामानातनुतादशेषजगतां कामासिका केसरी ॥ 5 ॥
विकस्वरनखस्वरुक्षतहिरण्यवक्षःस्थली-
-निरर्गलविनिर्गलद्रुधिरसिन्धुसन्ध्यायिताः ।
अवन्तु मदनासिकामनुजपञ्चवक्त्रस्य मां
अहम्प्रथमिकामिथः प्रकटिताहवा बाहवः ॥ 6 ॥
सटापटलभीषणे सरभसाट्टहासोद्भटे
स्फुरत् क्रुधिपरिस्फुट भ्रुकुटिकेऽपि वक्त्रे कृते ।
कृपाकपटकेसरिन् दनुजडिम्भदत्तस्तना
सरोजसदृशा दृशा व्यतिविषज्य ते व्यज्यते ॥ 7 ॥
त्वयि रक्षति रक्षकैः किमन्यै-
-स्त्वयि चारक्षति रक्षकैः किमन्यैः ।
इति निश्चितधीः श्रयामि नित्यं
नृहरे वेगवतीतटाश्रयं त्वाम् ॥ 8 ॥
इत्थं स्तुतः सकृदिहाष्टभिरेष पद्यैः
श्रीवेङ्कटेशरचितैस्त्रिदशेन्द्रवन्द्यः ।
दुर्दान्तघोरदुरितद्विरदेन्द्रभेदी
कामासिकानरहरिर्वितनोतु कामान् ॥ 9 ॥
इति श्रीवेदान्तदेशिककृतं कामासिकाष्टकम् ।

Explore More