Lord Narasimha

श्री शोडश बाहु नरसिंह अष्टकम्

(Shri Shodasha Bahu Narasimha Ashtakam)

Traditional

Shri Shodasha Bahu Narasimha Ashtakam is a powerful devotional hymn dedicated to the sixteen-armed fierce form of Lord Narasimha, the man-lion avatar of Lord Vishnu. Characterized by its intense, rhythmic, and alliterative Sanskrit verses, the stotra evokes the terrifying yet protective energy of the Lord who destroys demonic forces and saves his devotees. Chanting this hymn is believed to confer immense spiritual strength, courage, and divine protection against negative influences, internal anxieties, and external obstacles. It serves as an invocation to the supreme power of Narasimha to establish righteousness and inner peace.

भूखण्डं वारणाण्डं परवरविरटं डम्पडम्पोरुडम्पं
डिं डिं डिं डिं डिडिम्बं दहमपि दहमैः झम्पझम्पैश्चझम्पैः ।
तुल्यास्तुल्यास्तु तुल्याः धुमधुमधुमकैः कुङ्कुमाङ्कैः कुमाङ्कैः
एतत्ते पूर्णयुक्तमहरहकरहः पातु मां नारसिंहः ॥ 1 ॥
भूभृद्भूभृद्भुजङ्गं प्रलयरववरं प्रज्वलज्ज्वालमालं
खर्जर्जं खर्जदुर्जं खिखचखचखचित्खर्जदुर्जर्जयन्तम् ।
भूभागं भोगभागं गगगगगगनं गर्दमर्त्युग्रगण्डं
स्वच्छं पुच्छं स्वगच्छं स्वजनजननुतः पातु मां नारसिंहः ॥ 2 ॥
एनाभ्रं गर्जमानं लघुलघुमकरो बालचन्द्रार्कदंष्ट्रो
हेमाम्भोजं सरोजं जटजटजटिलो जाड्यमानस्तुभीतिः ।
दन्तानां बाधमानां खगटखगटवो भोजजानुस्सुरेन्द्रो
निष्प्रत्यूहं सराजा गहगहगहतः पातु मां नारसिंहः ॥ 3 ॥
शङ्खं चक्रं च चापं परशुमशमिषुं शूलपाशाङ्कुशास्त्रं
बिभ्रन्तं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
वन्दे प्रत्येकरूपं परपदनिवसः पातु मां नारसिंहः ॥ 4 ॥
पादद्वन्द्वं धरित्रीकटिविपुलतरो मेरुमध्यूढ्वमूरुं
नाभिं ब्रह्माण्डसिन्धुः हृदयमपि भवो भूतविद्वत्समेतः ।
दुश्चक्राङ्कं स्वबाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रं
वक्त्रं वह्निस्सुविद्युत्सुरगणविजयः पातु मां नारसिंहः ॥ 5 ॥
नासाग्रं पीनगण्डं परबलमथनं बद्धकेयूरहारं
रौद्रं दंष्ट्राकरालं अमितगुणगणं कोटिसूर्याग्निनेत्रम् ।
गाम्भीर्यं पिङ्गलाक्षं भ्रुकुटितविमुखं षोडशाधार्धबाहुं
वन्दे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः ॥ 6 ॥
के के नृसिंहाष्टके नरवरसदृशं देवभीत्वं गृहीत्वा
देवन्द्यो विप्रदण्डं प्रतिवचन पयायाम्यनप्रत्यनैषीः ।
शापं चापं च खड्गं प्रहसितवदनं चक्रचक्रीचकेन
ओमित्ये दैत्यनादं प्रकचविविदुषा पातु मां नारसिंहः ॥ 7 ॥
झं झं झं झं झकारं झषझषझषितं जानुदेशं झकारं
हुं हुं हुं हुं हकारं हरित कहहसा यं दिशे वं वकारम् ।
वं वं वं वं वकारं वदनदलिततं वामपक्षं सुपक्षं
लं लं लं लं लकारं लघुवणविजयः पातु मां नारसिंहः ॥ 8 ॥
भूतप्रेतपिशाचयक्षगणशः देशान्तरोच्चाटना
चोरव्याधिमहज्ज्वरं भयहरं शत्रुक्षयं निश्चयम् ।
सन्ध्याकाले जपतमष्टकमिदं सद्भक्तिपूर्वादिभिः
प्रह्लादेव वरो वरस्तु जयिता सत्पूजितां भूतये ॥ 9 ॥
। इति श्रीविजयीन्द्रतीर्थ कृतं श्री षोडशबाहु नृसिंहाष्टकम् ।

Explore More