Goddess Devi

श्री प्रत्यङ्गिरा स्तोत्रम् (सिद्धिलक्ष्मी महाविद्या)

(Sri Pratyangira Stotram 2)

Also known as shri pratyangira stotram 2 · shree pratyangira stotram 2 · pratyangira stotram 2

The second Pratyaṅgirā hymn, from the Tridaśa Ḍāmara Tantra, where it is titled the praise of Siddhilakṣmī Mahāmāyā — so the goddess is approached here through her identification with Lakṣmī rather than through her fierce aspect. It opens on the formless: salutation to you, great illusion, beyond the body, without stain, Pratyaṅgirā, sustainer of the world, royal Lakṣmī. What follows is unusual for a stotra in being almost entirely yogic anatomy, and it gives her three bodies in succession — a body of letters, a body of words, a body of principles — before describing her as the great coiled power that splits the thousand-petalled lotus, moving between iḍā and piṅgalā in the form of a lotus-fibre through the central channel. Its closing verse restricts it to one devoted and initiated in the lineage.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री प्रत्यङ्गिरा स्तोत्रम् (सिद्धिलक्ष्मी महाविद्या) ॥
॥ ऐं ख्फ्रेम् ॥
नमोऽस्तु ते महामाये देहातीते निरञ्जने ।
प्रत्यङ्गिरा जगद्धात्रि राजलक्ष्मि नमोऽस्तु ते ॥ १ ॥
वर्णदेहा महागौरी साधकेच्छाप्रवर्तिता ।
पददेहा महास्फाल महासिद्धिसमुत्थिता ॥ २ ॥
तत्त्वदेहस्थिता देवि साधकानुग्रहा स्मृता ।
महाकुण्डलिनी भित्त्वा सहस्रदलभेदिनी ॥ ३ ॥
इडापिङ्गलमध्यस्था वायुभूता खगामिनी ।
मृणालतन्तुरूपिण्या सुषुम्णामध्यचारिणी ॥ ४ ॥
नादान्तेनादसंस्थाना नादातीता निरञ्जना ।
सूक्ष्मेस्थूलेति सम्पूज्ये अचिन्त्याचिन्त्यविग्रहे ॥ ५ ॥
परापरपरे शान्ते ब्रह्मलीने परे शिवे ।
अचिन्त्यरूपचरिते अचिन्त्यार्थफलप्रदे ॥ ६ ॥
एकाकिनी विश्वमाता करवीरनिवासिनी ।
महास्फालप्रदा नित्या महामेलापकारिणी ॥ ७ ॥
बिन्दुमध्ये स्थिता देवी कुटिले चार्धचन्द्रिके ।
द्वादशान्तालया देवी षोडशाधारवासिनी ॥ ८ ॥
कार्यकारणसम्भिन्ना चैतन्यानाडिमध्यगा ।
शक्तिमूले महाचक्रे नवधा संव्यवस्थिता ॥ ९ ॥
अशरीरा परादेवी शरीरे प्राणरूपिणी ।
सुधाद्रवसमाकारा ओङ्कारपरविग्रहा ॥ १० ॥
विद्युल्लतनिभा देवी भावाभावविवर्जिता ।
स्वान्तपद्मस्थिता नित्या परेशी शान्तविग्रहा ॥ ११ ॥
सत्त्वरूपा रजोरूपा तमोरूपा त्रयात्मिका ।
त्वमेव देवी सर्वेषां भूतानां प्राणदायिनी ॥ १२ ॥
त्वयैव सृज्यते विश्वं लीलया बहुधा स्थिता ।
मालिनी परमा देवी श्मशानपरबन्धनी ॥ १३ ॥
हृत्तालुभेदिनी चक्रे विचक्रे चक्रसुन्दरी ।
बिन्दुद्वारनिरोधेन दिव्यव्याप्ता नमोऽस्तु ते ॥ १४ ॥
सूर्यकोटिप्रतीकाशे चन्द्रकोट्यतिनिर्मले ।
कन्दर्पकोटिलावण्यकोटिब्रह्माण्डविग्रहे ॥ १५ ॥
निराकारे निराभासे निर्लेपे निर्विनिग्रहे ।
सकलाख्ये महामाये वरदे सुरपूजिते ॥ १६ ॥
खकारफकारवह्निस्थैकारान्तर सुन्दरि ।
मकारान्तर वर्गेषु पञ्चपिण्डात्मके शिवे ॥ १७ ॥
सर्पवत्कुटिलाकार नादशक्तिपरे मते ।
बिन्दुचक्रस्थिता देवी जालन्धरस्वरूपिणी ॥ १८ ॥
भूर्यवैडूर्यपीठस्थे पूर्णपीठव्यवस्थिते ।
कामस्थिते कलातीते कामाख्ये च भगोद्भवे ॥ १९ ॥
ब्रह्मग्रन्थिकलाटोपमध्येस्रोतप्रवाहिनी ।
शिवे सर्वगते सूक्ष्मे नित्यानन्दमहोत्सवे ॥ २० ॥
मन्त्रनायिकि मन्त्रज्ञे विद्येकोशान्तवासिनी ।
पञ्चपीठिकमध्यस्थे मेरुनायकि शर्वरी ॥ २१ ॥
खेचरी भूचरी चैव शक्तित्रयप्रवाहिनी ।
कालान्ताग्निसमुद्भूता कालकालान्तकालिनी ॥ २२ ॥
कालिकाक्रमसम्बन्धि कालिद्वादशमण्डले ।
त्रैलोक्यदहनी देवी सा च मूर्तिस्त्रयोदशी ॥ २३ ॥
सृष्टि स्थिति च संहारे अनाख्याख्ये महाक्रमे ।
भासाख्या गुह्यकाली च निर्वाणेशी परेश्वरी ॥ २४ ॥
झङ्कारिणी भैरवी च स्वर्णकोटेश्वरी शिवा ।
राजराजेश्वरी चण्डा अघोरेशी निशेश्वरी ॥ २५ ॥
सुन्दरी त्रिपुरा पद्मा तारा पूर्णेश्वरी जया ।
क्रममण्डलमध्यस्था क्रमेशी कुब्जिकाम्बिका ॥ २६ ॥
ज्येष्ठबालविभेदेन कुब्जाख्या उग्रचण्डिका ।
ब्राह्माणी रौद्री कौमारी वैष्णवी दीर्घनासिका ॥ २७ ॥
वज्रिणी चर्चिकालक्ष्मी पूजयेद्दिव्यमातरः ।
असिताङ्गोरुरुश्चण्डः क्रोधीशोन्मत्त सञ्ज्ञकम् ॥ २८ ॥
कपाली भीषणाख्याश्च संहारश्चाष्टमस्तथा ।
भक्तानां साधकानां च लक्ष्मीं सिद्धिं प्रयच्छ मे ॥ २९ ॥
सिद्धिलक्ष्मीर्महादेवीं भैरवेनानुकीर्तिता ।
साधकद्वेष्टकानां च सर्वकर्मविभञ्जिनी ॥ ३० ॥
विपरीतकरी देवी प्रत्यङ्गिरा नमोऽस्तु ते ।
कालादि ग्रसिते सर्वं ग्रहभूतादि डाकिनी ॥ ३१ ॥
साधकं रक्षते देवी कालसङ्कर्षणीं नुमः ।
शिवं प्रयच्छते देवी रक्षते लीलया जगत् ॥ ३२ ॥
राज्यलाभप्रदां देवी रक्षणी भक्तवत्सलाम् ।
प्रत्यङ्गिरां नमस्यामि अचिन्तितार्थसिद्धये ॥ ३३ ॥
सर्वशत्रून् प्रमर्दन्ती दुरितक्लेशनाशिनीम् ।
प्रत्यङ्गिरां नमस्यामि अचिन्तितार्थसिद्धये ॥ ३४ ॥
आपदाम्भोधितरणिं परं निर्वाणदायिनीम् ।
प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ३५ ॥
राज्यदां धनदां लक्ष्मीं मोक्षदां दुःखनाशिनीम् ।
प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ३६ ॥
दुष्टशत्रुप्रशमनीं महाव्याधिविनाशिनीम् ।
प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ३७ ॥
कलिदुःखप्रशमनीं महापातकनाशिनीम् ।
प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ३८ ॥
अचिन्त्यसिद्धिदां देवी चिन्तितार्थफलप्रदाम् ।
प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ३९ ॥
राजोपसर्गशमनीं मृत्युपद्रवनाशिनीम् ।
प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ४० ॥
राजमातां राजलक्ष्मीं राज्येष्टफलदायिनीम् ।
प्रत्यङ्गिरां नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ ४१ ॥
॥ फलश्रुतिः ॥
सिद्धिलक्ष्मीर्महाविद्या महासिद्धिप्रदायिका ।
पठेद्वा पाठयेद्वापि स्तोत्रं प्रत्यङ्गिराभिधम् ॥ ४२ ॥
पठनाच्छत्रुसैन्यानि स्तम्भयेज्जम्भयेत् क्षणात् ।
अचिन्तितानि सिद्ध्यन्ति पठनात् सिद्धिमाप्नुयात् ॥ ४३ ॥
महादोषप्रशमनं महाव्याधिविनाशनम् ।
सिंहव्याघ्रग्रहभये राजोपद्रवनाशनम् ॥ ४४ ॥
ग्रहपीडा जलाग्नीनां नाशनं देवि शान्तिदम् ।
पूजाकाले महास्तोत्रं ये पठिष्यन्ति साधकाः ॥ ४५ ॥
तेषां सिद्धिर्नदूरेऽस्ति देव्याः सन्तुष्टिदायकम् ।
ते नास्ति यन्नसिद्ध्येत कौलिके कुलशासने ॥ ४६ ॥
यं यं चिन्तयते कामं स स सिद्ध्यति लीलया ।
सत्यं सत्यं महादेवी कौलिके तत्समो न हि ॥ ४७ ॥
अर्धरात्रे समुत्थाय दीपः प्रज्वल्यते निशि ।
पठ्यते स्तोत्रमेतत्तु सर्वं सिद्ध्यति चिन्तितम् ॥ ४८ ॥
पुरश्चर्यां विनानेन स्तोत्रपाठेन सिद्ध्यति ।
मण्डले प्रतिमाग्रे वा मण्डलाग्रे पठेद्यदि ॥ ४९ ॥
इदं प्रोक्तं महास्तोत्रं अचिन्तितार्थसिद्धिदम् ।
अन्यदेवरतानां तु न देयं तु कदाचन ॥ ५० ॥
दातव्यं भक्तियुक्ताय कुलदीक्षारताय च ।
अन्यथा पतनं यान्ति इत्याज्ञा पारमेश्वरी ॥ ५१ ॥
॥ इति त्रिदशडामरे कानवीरे श्रीसिद्धिलक्ष्मी महामाया स्तवं नाम श्री प्रत्यङ्गिरा स्तोत्रम् सम्पूर्णम् ॥

Explore More