आसीद्धराधामललामरूपो नासीदहो कस्य गुरुर्गरीयान् ।
देशः स एवाद्य त्वदीयप्रेयान् हेयानधस्तिष्ठति सर्वदेशात् ॥ १॥
म्लेच्छैरुपेतामवलोक्यते तां नो दूयते किं वद चारु चेतः ॥ २॥
तत्ते बलं क्वास्ति खरः शरो वा गोघातिनो हन्त कथं न हन्सि ॥ ३॥
किं तद्विधानद्य न पश्यसीह यद्वा त्वमस्माकमिवासि भीतः ॥ ४॥
नानाबला हाद्य खला हरन्ति नायांसि कारुण्यमितोऽस्ति खेदः ॥ ५॥
कस्यान्तिकं व्रजतु भारतमेतदद्य लोकाभिराम घनश्याम त्वमेव ब्रूहि ॥ ६॥
