विकर्तनो विवस्वांश्च विश्वकर्मा विभावसुः ॥ १ ॥
आदित्यश्चोष्णगुः सूर्योऽर्यमा ब्रध्नो दिवाकरः ॥ २ ॥
सूरः प्रभाकरः श्रीमान् लोकचक्षुर्ग्रहेश्वरः ॥ ३ ॥
गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः ॥ ४ ॥
छन्दोश्वो वेदवेद्यश्च भास्वान् पूषा वृषाकपिः ॥ ५ ॥
दैत्यहा पापहर्ता च धर्मो धर्मप्रकाशकः ॥ ६ ॥
दिक्पतिः पद्मनीनाथः कुशेशयकरो हरिः ॥ ७ ॥
एभिः सप्ततिसङ्ख्याकैः पुण्यैः सूर्यस्य नामभिः ॥ ८ ॥
प्रत्येकमुच्चरन्नाम दृष्ट्वादृष्ट्वा दिवाकरम् ॥ ९ ॥
जानुभ्यामवनिं गत्वा परिपूर्य जलेन च ॥ १० ॥
दूर्वाङ्कुरैरक्षतैश्च निक्षिप्तैः पात्रमध्यतः ॥ ११ ॥
उपमौलिं समानीय तत्पात्रं नान्यदृङ्मनाः ॥ १२ ॥
अनया नामसप्तत्या महामन्त्ररहस्यया ॥ १३ ॥
व्याधिभिर्मुच्यते घोरैरपिजन्मान्तरार्जितैः ॥ १४ ॥
कालेन निधनं प्राप्तः सूर्यलोके महीयते ॥ १५ ॥
श्री सूर्य सप्ततिनाम स्तोत्रम् सम्पूर्णम् ॥
