तानि ते कीर्तयाम्येष यथावदनुपूर्वशः ॥ १ ॥
भास्कराय मतङ्गाय मार्तण्डाय विवस्वते ॥ २ ॥
दिवाकराय दीप्ताय अग्नये मिहिराय च ॥ ३ ॥
नमो गोपतये नित्यं दिशां च पतये नमः ॥ ४ ॥
पूष्णे भगाय मित्राय पर्जन्यायांशवे नमः ॥ ५ ॥
हरये हरिताश्वाय विश्वस्य पतये नमः ॥ ६ ॥
नमस्ते सप्तलोकेश नमस्ते सप्तसप्तये ॥ ७ ॥
ज्योतिषां पतये नित्यं सर्वप्राणभृते नमः ॥ ८ ॥
नमः पद्मप्रबोधाय नमो द्वादशमूर्तये ॥ ९ ॥
भीमजाय नमस्तुभ्यं पावकाय च वै नमः ॥ १० ॥
नमोऽस्त्वदितिपुत्राय नमो लक्ष्याय नित्यशः ॥ ११ ॥
आराधनाय देवस्य सर्वकामेन सुव्रत ॥ १२ ॥
स प्राप्नोत्यखिलान् कामान् यथाहं प्राप्तवान् पुरा ॥ १३ ॥
श्रीकामः श्रियमाप्नोति धर्मार्थी धर्ममाप्नुयात् ॥ १४ ॥
राज्यार्थी राज्यमाप्नोति कामार्थी काममाप्नुयात् ॥ १५ ॥
एतेन जपमात्रेण नरः पापात् प्रमुच्यते ॥ १६ ॥
ब्रह्मप्रोक्त सूर्य नाम वर्णनं सम्पूर्णम् ॥
