मन्दगतये तर्जनीभ्यां नमः ।
अधोक्षजाय मध्यमाभ्यां नमः ।
सौरये अनामिकाभ्यां नमः ।
शुष्कोदराय कनिष्ठिकाभ्यां नमः ।
छायात्मजाय करतलकरपृष्ठाभ्यां नमः ।
मन्दगतये शिरसे स्वाहा ।
अधोक्षजाय शिखायै वषट् ।
सौरये कवचाय हुम् ।
शुष्कोदराय नेत्रत्रयाय वौषट् ।
छायात्मजाय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।
प्रत्यङ्मुखः काश्यप गोत्रजातः ।
सशूलचापेषु गदाधरोऽव्यात्
सौराष्ट्रदेशप्रभवश्च शौरिः ॥
गृध्रासनस्थो विकृताननश्च ।
केयूरहारादिविभूषिताङ्गः
सदाऽस्तु मे मन्दगतिः प्रसन्नः ॥
अघोररूपोऽतिदीर्घकायोऽशेषभयानकः ॥ १ ॥
अतिसम्पत्प्रदोऽमोघः अन्यस्तुत्या प्रकोपितः ॥ २ ॥
अष्टमस्थोऽञ्जननिभः अखिलात्मार्कनन्दनः ॥ ३ ॥
अभीष्टफलदोऽरिष्टमथनोऽमरपूजितः ॥ ४ ॥
असाध्ययोगो अखिलदोषघ्नः अपराकृतः ॥ ५ ॥
अवलोकात् सर्वनाशः अश्वत्थाम द्विरायुधः ॥ ६ ॥
अनन्तपुण्यफलदो अतृप्तोऽतिबलोऽपि च ॥ ७ ॥
अविद्यामूलनाशश्च अक्षय्यफलदायकः ॥ ८ ॥
आश्रितेष्टार्थवरदः आधिव्याधिहरोऽपि च ॥ ९ ॥
आत्मचक्राधिकारी च आत्मस्तुत्यपरायणः ॥ १० ॥
आत्मनामजपप्रीतः आत्माधिकफलप्रदः ॥ ११ ॥
आपद्बान्धव आनन्दरूपो आयुःप्रदोऽपि च ॥ १२ ॥
आनुकूल्यो आत्मरूपप्रतिमादानसुप्रियः ॥ १३ ॥
इन्दिरार्चितपादश्च इन्द्रभोगफलप्रदः ॥ १४ ॥
इष्टापूर्तिप्रदो इन्दुमतीष्टवरदायकः ॥ १५ ॥
इहामुत्रेष्टफलद इन्दिरारमणार्चितः ॥ १६ ॥
उमास्वरूप उद्बोध्यः उशना उत्सवप्रियः ॥ १७ ॥
उरुप्रकाशो उच्चस्थयोगदः उरुपराक्रमः ॥ १८ ॥
ऊर्जस्वी ऊनपादश्च ऋकाराक्षरपूजितः ॥ १९ ॥
ऋग्वेदवन्द्यो ऋग्रूपी ऋजुमार्गप्रवर्तकः ॥ २० ॥
लूकाररूपको लब्धधर्ममार्गप्रवर्तकः ॥ २१ ॥
एकपाद्येक एकोनविंशतिमासभुक्तिदः ॥ २२ ॥
ऐश्वर्यफलदो ऐन्द्र ऐरावतसुपूजितः ॥ २३ ॥
ओङ्कारबीजो औदार्यहस्तो औन्नत्यदायकः ॥ २४ ॥
करपङ्कजसन्नद्धधनुश्च करुणानिधिः ॥ २५ ॥
किरीटी कर्मकृत् कारयिता कालसहोदरः ॥ २६ ॥
कालचक्रप्रभेदी च कालरूपी च कारणः ॥ २७ ॥
कार्यकारण कालज्ञः काञ्चनाभरथान्वितः ॥ २८ ॥
कालात्मा कालकर्ता च कृतान्तः कृष्णगोप्रियः ॥ २९ ॥
कृष्णवर्णहयश्चैव कृष्णगोक्षीरसुप्रियः ॥ ३० ॥
कृष्णगावैकचित्तश्च कृष्णगोदानसुप्रियः ॥ ३१ ॥
कृष्णगोग्रासचित्तस्य सर्वपीडानिवारकः ॥ ३२ ॥
कृष्णगोस्नान कामस्य गङ्गास्नानफलप्रदः ॥ ३३ ॥
कृष्णगावप्रियश्चैव कपिलापशुषु प्रियः ॥ ३४ ॥
कपिलादानसुप्रीतः कपिलाज्यहुतप्रियः ॥ ३५ ॥
कृष्णमाल्याम्बरधरः कृष्णवर्णतनूरुहः ॥ ३६ ॥
क्रूरचेष्टः क्रूरभावः क्रूरदंष्ट्रः कुरूपि च ॥ ३७ ॥
कामितार्थप्रदः कामधेनुपूजनसुप्रियः ॥ ३८ ॥
कामधेन्वैकचित्तश्च कृपराजसुपूजितः ॥ ३९ ॥
कृष्णाङ्गमहिषीदोग्धा कृष्णेन कृतपूजनः ॥ ४० ॥
कृष्णाङ्गमहिषीदानलोलुपः कामपूजितः ॥ ४१ ॥
खद्योतः खण्डनः खड्गधरः खेचरपूजितः ॥ ४२ ॥
गोसवासक्तहृदयो गोचरस्थानदोषहृत् ॥ ४३ ॥
गृध्रवाहो गृहपतिर्गोचरो गानलोलुपः ॥ ४४ ॥
घननीलाम्बरधरो ङादिवर्णसुसञ्ज्ञितः ॥ ४५ ॥
चन्द्रमत्यार्तिहारी च चराचरसुखप्रदः ॥ ४६ ॥
छायापुत्रश्छत्रधरश्छायादेवीसुतस्तथा ॥ ४७ ॥
जपविध्वस्तविमुखो जम्भारिपरिपूजितः ॥ ४८ ॥
जगत्त्रयप्रकुपितो जगत्त्राणपरायणः ॥ ४९ ॥
ज्योतिश्च ज्योतिषां श्रेष्ठो ज्योतिःशास्त्रप्रवर्तकः ॥ ५० ॥
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः ॥ ५१ ॥
टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ॥ ५२ ॥
ठकारमय सर्वस्वष्ठकारकृतपूजितः ॥ ५३ ॥
डम्बरप्रभवो डम्भो ढक्कानादप्रियङ्करः ॥ ५४ ॥
डाकिनीशाकिनीभूतसर्वोपद्रवनाशकः ॥ ५५ ॥
णकारमयमन्त्रार्थः णकारैकशिरोमणिः ॥ ५६ ॥
णकारमयसर्वस्वः णकारैकपरायणः ॥ ५७ ॥
त्रिविक्रमनुतश्चैव त्रयीमयवपुर्धरः ॥ ५८ ॥
त्रिकालवेदितव्यश्च त्रिकालमतितोषितः ॥ ५९ ॥
तिलान्नसन्तुष्टमनास्तिलदानप्रियस्तथा ॥ ६० ॥
तिलखण्डप्रियश्चैव तिलापूपप्रियस्तथा ॥ ६१ ॥
तिलतर्पणसन्तुष्टस्तिलतैलान्नतोषितः ॥ ६२ ॥
तेजसादित्यसङ्काशस्तेजोमय वपुर्धरः ॥ ६३ ॥
तुष्टिदस्तुष्टिकृत् तीक्ष्णस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ ६४ ॥
तिलोत्तमामेनकादिनर्तनप्रिय एव च ॥ ६५ ॥
स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ॥ ६६ ॥
दशरथप्रार्थनाक्लुप्त दुर्भिक्षविनिवारकः ॥ ६७ ॥
दशरथस्वात्मदर्शी च दशरथाभीष्टदायकः ॥ ६८ ॥
दशरथस्तोत्रवरदो दशरथाभीप्सितप्रदः ॥ ६९ ॥
द्वादशाष्टमजन्मस्थो देवपुङ्गवपूजितः ॥ ७० ॥
द्वादशस्थो द्वादशात्मा सुतो द्वादशनामभृत् ॥ ७१ ॥
दैवज्ञचित्तवासी च दमयन्त्या सुपूजितः ॥ ७२ ॥
दुराराध्यो दुराधर्षो दमयन्तीवरप्रदः ॥ ७३ ॥
दुस्सहो दोषहन्ता च दुर्लभो दुर्गमस्तथा ॥ ७४ ॥
दीप्यमानमुखाम्भोजः दमयन्त्याः शिवप्रदः ॥ ७५ ॥
द्विजदानैकनिरतो द्विजाराधनतत्परः ॥ ७६ ॥
द्विजदानैकचित्तश्च द्विजराजप्रियङ्करः ॥ ७७ ॥
द्विजरूपो द्विजश्रेष्ठो दोषदो दुःसहोऽपि च ॥ ७८ ॥
देवराजेष्टवरदो देवराजप्रियङ्करः ॥ ७९ ॥
देवगानप्रियश्चैव देवदेशिकपुङ्गवः ॥ ८० ॥
धनुष्मान् धनदाता च धर्माधर्मविवर्जितः ॥ ८१ ॥
धर्मराजप्रियकरो धर्मराजस्सुपूजितः ॥ ८२ ॥
नित्यतृप्तस्वभावश्च नित्यकर्मरतस्तथा ॥ ८३ ॥
निर्मांसदेहो नीलश्च निजस्तोत्रबहुप्रियः ॥ ८४ ॥
नक्षत्रमण्डलगतो नमतां प्रियकारकः ॥ ८५ ॥
नवग्रहवरो नीलवपुर्नलकरार्चितः ॥ ८६ ॥
नलपाकप्रियश्चैव नलपद्भञ्जनक्षमः ॥ ८७ ॥
निपाटवीनिवासश्च नलाभीष्टवरप्रदः ॥ ८८ ॥
नलेशदर्शनस्याशु साम्राज्यपदवीप्रदः ॥ ८९ ॥
नित्ययोगरतश्चैव नवरत्नविभूषितः ॥ ९० ॥
नवग्रहाधिपश्चैव नवाक्षरजपप्रियः ॥ ९१ ॥
नवोदन प्रियश्चैव नवधान्यप्रियस्तथा ॥ ९२ ॥
नागराजार्चितपदो नागराजप्रियङ्करः ॥ ९३ ॥
नागेन्द्रगाननिरतो नानाभरणभूषितः ॥ ९४ ॥
नानाद्वीपाधिकर्ता च नानालिपिसमावृतः ॥ ९५ ॥
नानालोकाधिपश्चैव नानाभाषाप्रियस्तथा ॥ ९६ ॥
नानाविचित्रवेषाढ्यो नानाचित्रविधायकः ॥ ९७ ॥
नीलाञ्जनचयप्रख्यो नीलवस्त्रधरप्रियः ॥ ९८ ॥
नानागमविधानज्ञो नानानृपसमावृतः ॥ ९९ ॥
नागलोकान्तवासी च नक्षत्रत्रयसम्युतः ॥ १०० ॥
नामपारायणप्रीतो नामार्चनवरप्रदः ॥ १०१ ॥
नवग्रहसमाराध्यो नवग्रहभयापहः ॥ १०२ ॥
नवग्रहाधिराजश्च नवग्रहजपप्रियः ॥ १०३ ॥
नवग्रहाणामधिपो नवग्रहसुपीडितः ॥ १०४ ॥
परमात्मा परब्रह्म परमैश्वर्यकारणः ॥ १०५ ॥
प्रासहस्तः पङ्गुपादः प्रकाशात्मा प्रतापवान् ॥ १०६ ॥
प्रसन्नात्सर्वसुखदः प्रसन्नेक्षण एव च ॥ १०७ ॥
प्रजानां जीवहेतुश्च प्राणिनां परिपालकः ॥ १०८ ॥
प्राज्ञः प्रशान्तः प्रज्ञावान् प्रजारक्षणदीक्षितः ॥ १०९ ॥
प्रज्ञानिवासहेतुश्च पुरुषार्थैकसाधनः ॥ ११० ॥
प्रपञ्चात्मा प्रसविता पुराणपुरुषोत्तमः ॥ १११ ॥
प्रतिष्ठितः प्रीतिकरः प्रियकारी प्रयोजनः ॥ ११२ ॥
प्रपञ्चकारी पुण्यश्च पुरुहूतसमर्चितः ॥ ११३ ॥
पयोदसमवर्णश्च पाण्डुपुत्रार्तिभञ्जनः ॥ ११४ ॥
पञ्चपाण्डवपुत्राणां सर्वाभीष्टफलप्रदः ॥ ११५ ॥
पाण्डुपुत्राद्यर्चितश्च पूर्वजश्च प्रपञ्चभृत् ॥ ११६ ॥
परब्रह्मस्वरूपश्च पराज्ञा परिवर्जितः ॥ ११७ ॥
पातङ्गी पुरुषाकारः परशम्भुसमुद्भवः ॥ ११८ ॥
प्रसन्नः परमोदारः पराहङ्कारभञ्जनः ॥ ११९ ॥
प्रपन्नभयहारी च प्रणतार्तिहरस्तथा ॥ १२० ॥
प्रदानपावनश्चैव प्रशान्तात्मा प्रभाकरः ॥ १२१ ॥
परशुरामसमाराध्यः परशुरामवरप्रदः ॥ १२२ ॥
परमहंसस्वरूपश्च परमहंससुपूजितः ॥ १२३ ॥
प्रपञ्चरक्षितश्चैव प्रपञ्चस्य भयङ्करः ॥ १२४ ॥
फलाभिषेकप्रियश्च फल्गुनस्य वरप्रदः ॥ १२५ ॥
फणिराजप्रियश्चैव फुल्लाम्बुजविलोचनः ॥ १२६ ॥
ब्रह्मविष्ण्वीशरूपश्च ब्रह्मशक्रादिदुर्लभः ॥ १२७ ॥
बहुश्रुतो बहुमतिर्ब्रह्मण्यो ब्राह्मणप्रियः ॥ १२८ ॥
बालार्कद्युतिमान् बालो बृहद्वक्षो बृहत्तनुः ॥ १२९ ॥
भव्यो भोक्ता भीतिकृच्च भक्तानुग्रहकारकः ॥ १३० ॥
भोगभाग्यप्रदश्चैव भस्मीकृतजगत्त्रयः ॥ १३१ ॥
भास्वद्रतो भक्तिमतां सुलभो भ्रुकुटीमुखः ॥ १३२ ॥
भ्राजिष्णुर्भगवान् भीमो भक्ताभीष्टवरप्रदः ॥ १३३ ॥
भूतसन्तोषकारी च भक्तानां चित्तशोधकः ॥ १३४ ॥
भूतिदो भूतिकृद्भोज्यो भूतात्मा भुवनेश्वरः ॥ १३५ ॥
मुचुकुन्दसमाराध्यो मुचुकुन्दवरप्रदः ॥ १३६ ॥
महाभोगी महायोगी महाकायो महाप्रभुः ॥ १३७ ॥
महाक्रतुर्महामानी महाधीरो महाजयः ॥ १३८ ॥
महासुतो महोदारो महनीयो महोदयः ॥ १३९ ॥
मैथिलीप्रार्थनाक्लुप्तदशकण्ठशिरोपहृत् ॥ १४० ॥
महारथो महावेगो मणिरत्नविभूषितः ॥ १४१ ॥
महादीर्घो महाग्रासो महदैश्वर्यदायकः ॥ १४२ ॥
मकरकुम्भाधिपश्चैव मृकण्डुतनयार्चितः ॥ १४३ ॥
महामन्त्रस्वरूपश्च महायन्त्रस्थितस्तथा ॥ १४४ ॥
महाबलिसमाराध्यो महर्षिगणपूजितः ॥ १४५ ॥
माषोदनप्रीतचित्तो महाशक्तिर्महागुणः ॥ १४६ ॥
योगी योग्यश्च याम्यश्च योगरूपी युगाधिपः ॥ १४७ ॥
यक्षराक्षसवेतालकूष्माण्डादिप्रपूजितः ॥ १४८ ॥
योगप्रियो योगयुक्तो यज्ञरूपो युगान्तकृत् ॥ १४९ ॥
रघुनन्दनसल्लापो रघुप्रोक्तजपप्रियः ॥ १५० ॥
रथी रौद्राधिकारी च राघवेण समर्चितः ॥ १५१ ॥
राशिद्वयाधिपश्चैव रघुभिः परिपूजितः ॥ १५२ ॥
रत्नकेयूरभूषाढ्यो रमानन्दनवन्दितः ॥ १५३ ॥
रघुवंशनृपैः पूज्यो रणन्मञ्जीरनूपुरः ॥ १५४ ॥
लोहजप्रतिमादानप्रियो लावण्यविग्रहः ॥ १५५ ॥
लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः ॥ १५६ ॥
वेदवेद्यो वज्रदेहो वज्राङ्कुशधरस्तथा ॥ १५७ ॥
विश्वस्थो वायसारूढो विशेषसुखकारकः ॥ १५८ ॥
विप्रप्रियो विप्ररूपो विप्राराधनतत्परः ॥ १५९ ॥
विश्वसृष्टिसमुद्भूतो वैश्वानरसमद्युतिः ॥ १६० ॥
विराडाधारचक्रस्थो विश्वभुग्विश्वभावनः ॥ १६१ ॥
विश्वोद्भवो विश्वकर्मा विश्वसृष्टि विनायकः ॥ १६२ ॥
विश्वाधारविलासी च व्यासेन कृतपूजितः ॥ १६३ ॥
विभीषणसमाराध्यो विशेषसुखदायकः ॥ १६४ ॥
वासवात्मजसुप्रीतो वसुदो वासवार्चितः ॥ १६५ ॥
विराण्मन्दिरमूलस्थो वलीमुखसुखप्रदः ॥ १६६ ॥
वरिष्ठो वरदो वन्द्यो विचित्राङ्गो विरोचनः ॥ १६७ ॥
शूली शरण्यः शान्तश्च शिवायामप्रियङ्करः ॥ १६८ ॥
श्रुतिस्मृतिपुराणज्ञः श्रुतिजालप्रबोधकः ॥ १६९ ॥
श्रुत्यन्तर्गतमर्मज्ञः श्रुत्येष्टवरदायकः ॥ १७० ॥
शुचिश्रुतः शान्तमूर्तिः श्रुतिश्रवणकीर्तनः ॥ १७१ ॥
शमीकृतमहाघोरः शरणागतवत्सलः ॥ १७२ ॥
शिवागमैकनिलयः शिवमन्त्रजपप्रियः ॥ १७३ ॥
शतोपनिषदस्तुत्यः शान्त्यादिगुणभूषितः ॥ १७४ ॥
श्यामरक्तसितज्योतिः शुद्धपञ्चाक्षरप्रियः ॥ १७५ ॥
षोडशद्वयसम्पूर्णलक्षणः षण्मुखप्रियः ॥ १७६ ॥
षडक्षरस्वरूपश्च षट्चक्रोपरिसंस्थितः ॥ १७७ ॥
षड्भावरहितश्चैव षडङ्गश्रुतिपारगः ॥ १७८ ॥
स्वर्णेन्द्रनीलमकुटः सर्वाभीष्टप्रदायकः ॥ १७९ ॥
समस्तलोकाभयदः सर्वदोषाङ्गनाशकः ॥ १८० ॥
सर्वनाशक्षमः सौम्यः सर्वक्लेशनिवारकः ॥ १८१ ॥
सर्वरूपी सर्वकर्मा सर्वज्ञः सर्वकारकः ॥ १८२ ॥
सूर्यात्मजः सदातुष्टः सूर्यवंशप्रदीपनः ॥ १८३ ॥
सर्वसङ्क्षोभहारी च सर्वलोकहितङ्करः ॥ १८४ ॥
समस्तऋषिभिः स्तुत्यः समस्तगणपावृतः ॥ १८५ ॥
सर्वसौख्यप्रदाता च सर्वव्याकुलनाशनः ॥ १८६ ॥
सर्वव्याधिप्रशमनः सर्वमृत्युनिवारकः ॥ १८७ ॥
सौराष्ट्रदेशोद्भवश्च स्वक्षेत्रेष्टवरप्रदः ॥ १८८ ॥
सुखासनोपविष्टश्च सद्यःपीडानिवारकः ॥ १८९ ॥
सूर्यमण्डलसञ्चारी संहारास्त्रनियोजितः ॥ १९० ॥
सर्वव्याकुलकारी च सहस्रजपसुप्रियः ॥ १९१ ॥
सर्वालङ्कारसम्युक्तकृष्णगोदानसुप्रियः ॥ १९२ ॥
सिद्धार्थः सिद्धसङ्कल्पः सर्वज्ञः सर्वदः सुखी ॥ १९३ ॥
सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः ॥ १९४ ॥
हरिश्चन्द्रेष्टवरदो हंसमन्त्रादिसंस्तुतः ॥ १९५ ॥
हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ १९६ ॥
हविर्होता हंसगतिर्हंसमन्त्रादिसंस्तुतः ॥ १९७ ॥
क्षेमदः क्षेमकृत् क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः ॥ १९८ ॥
क्षमाधरः क्षयद्वारो नाम्नामष्टसहस्रकम् ॥ १९९ ॥
तस्मात्सर्वप्रयत्नेन नियमेन जपेत्सुधीः ॥ २०० ॥
