Lord Shiva

श्री शिव आरती

(Shri Shiva Aarti)

Traditional

Shri Shiva Aarti is a quintessential devotional hymn dedicated to Lord Shiva, the supreme cosmic consciousness and destroyer of ignorance. While the specific author remains unknown, this composition is deeply rooted in the Vedic tradition of glorifying the divine aspects of the Mahadeva. By chanting these verses, devotees seek to purify their hearts and align their consciousness with the transcendent stillness of Shiva. The practice is believed to bestow spiritual liberation, dissolve accumulated karmic burdens, and invoke the grace of the Lord who dwells within the sacred space of the human heart as the eternal witness.

सर्वेशं परमेशं श्रीपार्वतीशं वन्देऽहं विश्वेशं श्रीपन्नगेशम् ।
श्रीसाम्बं शम्भुं शिवं त्रैलोक्यपूज्यं वन्देऽहं त्रैनेत्रं श्रीकण्ठमीशम् ॥ 1॥
भस्माम्बरधरमीशं सुरपारिजातं बिल्वार्चितपदयुगलं सोमं सोमेशम् ।
जगदालयपरिशोभितदेवं परमात्मं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 2॥
कैलासप्रियवासं करुणाकरमीशं कात्यायनीविलसितप्रियवामभागम् ।
प्रणवार्चितमात्मार्चितं संसेवितरूपं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 3॥
मन्मथनिजमददहनं दाक्षायनीशं निर्गुणगुणसम्भरितं कैवल्यपुरुषम् ।
भक्तानुग्रहविग्रहमानन्दजैकं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 4॥
सुरगङ्गासम्प्लावितपावननिजशिखरं समभूषितशशिबिम्बं जटाधरं देवम् ।
निरतोज्ज्वलदावानलनयनफालभागं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 5॥
शशिसूर्यनेत्रद्वयमाराध्यपुरुषं सुरकिन्नरपन्नगमयमीशं सङ्काशम् ।
शरवणभवसम्पूजितनिजपादपद्मं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 6॥
श्रीशैलपुरवासं ईशं मल्लीशं श्रीकालहस्तीशं स्वर्णमुखीवासम् ।
काञ्चीपुरमीशं श्रीकामाक्षीतेजं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 7॥
त्रिपुरान्तकमीशं अरुणाचलेशं दक्षिणामूर्तिं गुरुं लोकपूज्यम् ।
चिदम्बरपुरवासं पञ्चलिङ्गमूर्तिं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 8॥
ज्योतिर्मयशुभलिङ्गं सङ्ख्यात्रयनाट्यं त्रयीवेद्यमाद्यं पञ्चाननमीशम् ।
वेदाद्भुतगात्रं वेदार्णवजनितं वेदाग्रं विश्वाग्रं श्रीविश्वनाथम् ॥ 9॥

Explore More