Lord Venkateswara

श्री श्रीनिवास विद्या मन्त्राः

(Sri Srinivasa Vidya Mantrah)

From Puranic and Vedic Traditions

Also known as hiranyavarnam harinim suvarnarajatasrajam

This sacred collection of mantras is dedicated to Lord Srinivasa, the supreme form of Lord Vishnu residing at Tirumala. Drawing heavily from the Sri Suktam and traditional Vedic invocations, these verses seek to invoke the divine grace of the Lord and His consort, Goddess Lakshmi. The recitation of these mantras is believed to bestow spiritual wisdom, prosperity, and the removal of karmic obstacles. By chanting these powerful hymns, a devotee aligns their consciousness with the eternal radiance of the Lord, fostering inner peace, material stability, and the ultimate attainment of liberation through constant devotion.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

शुक्लपक्षे
हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं-लँ॒क्ष्मी-ञ्जात॑वेदो म॒ आव॑ह ॥ श्री.1 ॥
स॒हस्र॑शीर्​षा॒ पुरु॑षः । स॒ह॒स्रा॒क्ष-स्स॒हस्र॑पात् ।
स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥ पु.1 ॥
ता-म्म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं-विँ॒न्देय॒-ङ्गामश्व॒-म्पुरु॑षान॒हम् ॥ श्री.2 ॥
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ । यद्भू॒तं-यँच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति ॥ पु.2 ॥
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् ।
श्रिय॑-न्दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥ श्री.3 ॥
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚-ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृत॑-न्दि॒वि ॥ पु.3 ॥
कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रा-ञ्ज्वल॑न्ती-न्तृ॒प्ता-न्त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒ता-म्प॒द्मव॑र्णा॒-न्तामि॒होप॑ह्वये॒ श्रियम् ॥ श्री.4 ॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚-ऽस्ये॒हा-ऽऽभ॑वा॒त्पुनः॑ ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥ पु.4 ॥
च॒न्द्रा-म्प्र॑भा॒सां-यँ॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑-लोँ॒के दे॒वजु॑ष्टामुदा॒राम् ।
ता-म्प॒द्मिनी॑मीं॒ शर॑णम॒ह-म्प्रप॑द्ये-ऽल॒क्ष्मीर्मे॑ नश्यता॒-न्त्वां-वृँ॑णे ॥ श्री.5 ॥
तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ पु.5 ॥
आ॒दि॒त्यव॑र्णे॒ तप॒सो-ऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षो-ऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥ श्री.6 ॥
यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ । ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ॥ पु.6 ॥
उपै॑तु॒ मा-न्दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तो-ऽस्मि॑ राष्ट्रे॒-ऽस्मिन् की॒र्तिमृ॑द्धि-न्द॒दातु॑ मे ॥ श्री.7 ॥
स॒प्तास्या॑सन्परि॒धयः॑ । त्रि-स्स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञ-न्त॑न्वा॒नाः । अब॑ध्न॒न्पुरु॑ष-म्प॒शुम् ॥ पु.7 ॥
क्षुत्पि॑पा॒साम॑ला-ञ्ज्ये॒ष्ठाम॑ल॒क्ष्मी-न्ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धि॒-ञ्च सर्वा॒-न्निर्णु॑द मे॒ गृहा॑त् ॥ श्री.8 ॥
तं-यँ॒ज्ञ-म्ब॒र्​हिषि॒ प्रौक्षन्॑ । पुरु॑ष-ञ्जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ॥ पु.8 ॥
ग॒न्ध॒द्वा॒रा-न्दु॑राध॒र्​षा॒-न्नि॒त्यपु॑ष्टा-ङ्करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒ना॒-न्तामि॒होप॑ह्वये॒ श्रियम् ॥ श्री.9 ॥
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । सम्भृ॑त-म्पृषदा॒ज्यम् ।
प॒शूग्‍स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ॥ पु.9 ॥
मन॑सः॒ काम॒माकू॑तिं-वाँ॒च-स्स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्री-श्श्र॑यतां॒-यँशः॑ ॥ श्री.10 ॥
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋच॒-स्सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ॥ पु.10 ॥
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑-वाँ॒सय॑ मे कु॒ले मा॒तर॑-म्पद्म॒मालि॑नीम् ॥ श्री.11 ॥
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ॥ पु.11 ॥
आपः॑ सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वी-म्मा॒तरं॒ श्रियं॑-वाँ॒सय॑ मे कु॒ले ॥ श्री.12 ॥
यत्पुरु॑षं॒-व्यँ॑दधुः । क॒ति॒धा व्य॑कल्पयन्न् ।
मुख॒-ङ्किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ॥ पु.12 ॥
आ॒र्द्रा-म्पु॒ष्करि॑णी-म्पु॒ष्टि॒-म्पि॒ङ्ग॒ला-म्प॑द्ममा॒लिनीम्।
च॒न्द्रां हि॒रण्म॑यीं-लँ॒क्ष्मी-ञ्जात॑वेदो म॒ आव॑ह ॥ श्री.13 ॥
ब्रा॒ह्म॒णो᳚-ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायत ॥ पु.13 ॥
आ॒र्द्रां-यँः॒ करि॑णीं-यँ॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं-लँ॒क्ष्मी॒-ञ्जात॑वेदो म॒ आवह ॥ श्री.14 ॥
च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒-स्सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ॥ पु.14 ॥

यस्यां॒ हि॑रण्य॒-म्प्रभू॑त॒-ङ्गावो॑ दा॒स्यो-ऽश्वा᳚न्वि॒न्देय॒-म्पुरु॑षान॒हम् ॥ श्री.15 ॥
नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्​ष्णो द्यौ-स्सम॑वर्तत ।
प॒द्भ्या-म्भूमि॒र्दिश॒-श्श्रोत्रा᳚त् । तथा॑ लो॒काग्ं अ॑कल्पयन्न् ॥ पु.15 ॥
कृष्णपक्षे

Explore More