षट्पदारवमनोहरे कनकभूधरे ललितमण्डपे ।
अत्युदारमणिपीठमध्यविनिवासिनीमखिलमोहिनीं
भक्तियोगसुलभां भजे भुवनमातरं त्रिपुरसुन्दरीम् ॥ १ ॥
द्देहकान्तिभरधोरणीमिलनलोहितीकृतदिगन्तराम् ।
वागधीतविभवां विपद्यभयदायिनीमखिलमोहिनीं
आगमार्थमणिदीपिकामनिशमाश्रये त्रिपुरसुन्दरिम् ॥ २ ॥
वृन्दसुन्दरसुधांशुखण्डसुभगीकृतातिगुरुकैशिकाम् ।
नीलकुञ्चितघनालकां निटिलभुषणायतविलोचनां
नीलकण्ठसुकृतोन्नतिं सततमाश्रये त्रिपुरसुन्दरीम् ॥ ३ ॥
इक्षुकार्मुकशरासनोपमितचिल्लिकायुगमतल्लिकाम् ।
लक्षये मनसि सन्ततं सकलदुष्कृतक्षयविधायिनीं
उक्षवाहनतपोविभूतिमहदक्षरां त्रिपुरसुन्दरीम् ॥ ४ ॥
स्निग्धमुग्धविशदत्रिवर्णविमलालसालसविलोचनाम् ।
सुन्दराधरमणिप्रभामिलितमन्दहासनवचन्द्रिकां
चन्द्रशेखरकुटुम्बिनीमनिशमाश्रये त्रिपुरसुन्दरीम् ॥ ५ ॥
बिम्बितानुपमकुण्डलस्तबकमण्डिताननसरोरुहाम् ।
स्वर्णपङ्कजदलान्तरुल्लसितकर्णिकासदृशनासिकां
कर्णवैरिसखसोदरीमनिशमाश्रये त्रिपुरसुन्दरीम् ॥ ६ ॥
न्नर्मपेशलवचोविलासपरिभूतनिर्मलसुधारसाम् ।
कम्रवक्त्रपवनाग्रहप्रचलदुन्मिषद्भ्रमरमण्डलां
तुर्महे मनसि शर्मदामनिशमम्बिकां त्रिपुरसुन्दरीम् ॥ ७ ॥
कण्ठकाण्डकमनीयतापहृतकम्बुराजरुचिडम्बराम् ।
किञ्चिदानतमनोहरां सयुगचुम्बिचारुमणिकर्णिकां
पञ्चबाणपरिपन्थिपुण्यलहरीं भजे त्रिपुरसुन्दरीम् ॥ ८ ॥
तप्तहेमरचिताभिरामकटकाङ्गुलीयवलयादिकाम् ।
वृत्तनिस्तुलनिरन्तरालकठिनोन्नतस्तनतृणीभव-
न्मत्तहस्तिवरमस्तकां मनसि चिन्तये त्रिपुरसुन्दरीम् ॥ ९ ॥
चारुहारनिकराभिरामकुचभारतान्ततनुमध्यमाम् ।
रोमराजिललितोदरीमधिकनिम्ननाभिमवलोकये
कामराजपरदेवतामनिशमाश्रये त्रिपुरसुन्दरीम् ॥ १० ॥
चारुकान्तिपरिरम्भसुन्दरसुसूक्ष्मचीनवसनाञ्चिताम् ।
मारवीररसचातुरीधृतधुरीणतुङ्गजघनस्थलां
धारये मनसि सन्ततं त्रिदशवन्दितां त्रिपुरसुन्दरीम् ॥ ११ ॥
स्पर्धिमुग्धमधुरोरुदण्डयुगमन्दितेन्दुधरलोचनाम् ।
वृत्तजानुयुगवल्गुभावजितचित्तसम्भवसमुद्गकां
नित्यमेव परिशीलये मनसि मुक्तिदां त्रिपुरसुन्दरीम् ॥ १२ ॥
जङ्घया तुलितकेतकीमुकुलसङ्घया भृतमुदञ्चिताम् ।
अम्बुजोदरविडम्बिचारुपदपल्लवां हृदयदर्पणे
बिम्बितामिव विलोकये सततमम्बिकां त्रिपुरसुन्दरीम् ॥ १३ ॥
कल्पकोटिशतसञ्चितेन सुकृतेन कैश्चन नरोत्तमैः ।
कल्पशाखिगणकल्प्यमानकनकाभिषेकसुभगाकृतिं
कल्पयामि हृदि चित्पयोजनवषट्पदीं त्रिपुरसुन्दरीम् ॥ १४ ॥
त्यम्बुजासनकुटुम्बिनीति विविधोपगीतमहिमोदयाम् ।
सेवकाभिमतकामधेनुमखिलागमावगमवैभवां
भावयामि हृदि भाविताखिलचराचरां त्रिपुरसुन्दरीम् ॥ १५ ॥
कीर्तयन्निह नरोत्तमो विजितवित्तपो विपुलसम्पदाम् ।
प्रार्थ्यमानपरिरम्भकेलिरबलाजनैरपगतैषणो
गात्रमात्रपतनावधावमृतमक्षरं पदमवाप्नुयात् ॥ १६ ॥
