Goddess Lalita

श्रीत्रिपुरसुन्दरीपुष्पाञ्जलिस्तवः

(Sri Tripurasundari Pushpanjali Stava)

Also known as shri tripurasundari pushpanjali stava · shree tripurasundari pushpanjali stava · tripurasundari pushpanjali stava

One of six stavas in this corpus whose verses begin, in order, with the sixteen syllables of the Shodashi mantra — ka e i la hrim, ha sa ka ha la hrim, sa ka la hrim, shrim — so that the mantra is spelt down the left margin and nowhere stated. What this one does inside that frame is offer flowers, and its refrain closes every verse: this handful, Mother, is strewn at your feet. The register is that of a man with nothing else to bring. Many gods have been worshipped by dull minds, one verse says, and not one of them was ever seen; another admits to having sunk in the ocean of becoming many times over and never reached the shore; a third asks who, however learned and however attended, is able to worship her by the rule. Like the other five, it closes by naming Guha.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्रीत्रिपुरसुन्दरीपुष्पाञ्जलिस्तवः ॥
श्रीगणेशाय नमः ।
कल्याणदात्रि कमनीयतनूलते त्वां
कं चापि कालमनुचिन्त्य हृदाब्जमध्ये ।
कामं प्रहर्षभरितेन मया तवाद्य
पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १॥
एतन्मदीयसुकृत्तं परमं पुराणं
यत्त्वामहं प्रतिदिनं मनसा भजामि ।
साक्षात्कृतेन तव रूपमनेन चाद्य
पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ २॥
ईशादिदेवमहनीयमहानुभावे
दीनं त्विमं भवभयेन परिस्फुरन्तम् ।
दीनार्तिहर्त्रि दयया परिपालयाशु
पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ३॥
लज्जां विहाय बहुधा बहवोऽपि देवाः
सम्पूजिता जडधिया नतु कोऽपि दृष्टः ।
लब्धं तवैव रमणीयवपुर्दृशा मे
पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ४॥
ह्रीं‍कारमन्त्रनिलये बहुशो भवाब्धौ
मग्नः परं तु न कदापि गतोऽस्मि पारम् ।
तत्तारणे निपुणयोस्त्रिपुरे मयाद्य
पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ५॥
हस्तेषु पाशमहनीयसितेक्षुचापे
पुष्पास्त्रमङ्कुशवरं ललितं दधाने ।
हेमाद्रितुङ्गतरश‍ृङ्गनिवासशीले
पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ६॥
सर्वेषु देवि समयेषु गतिस्त्वमेव
नान्यं कदापि मनसा समनुस्मरामि ।
सर्वत्र रूपमतुलं तव पश्यताद्य
पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ७॥
कस्ते पुरेशि विधिवत्तु समर्हणायां
शक्तः समस्तपरिवर्हयुतोऽपि धीमान् ।
हृत्पङ्कजेन भवतीं भजता मयाद्य
पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ८॥
हन्तातिस्थभवपावकशोषितेन
कुत्राप्यलब्धशरणेन सरोजवक्त्रे ।
अन्ते मयात्रभवतीं शरणं गतेन
पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ९॥
लक्ष्यासि देवि बहुजन्मतपोबलेन
लक्ष्मीशधातृपरिपूज्यपदास्तुजाते ।
आलक्ष्य रूपमरुणं तव विस्मितेन
पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १०॥
ह्रीङ्कारमेव शरणं जगतां वदन्ति
ह्रीङ्कारमेव परमं भुवने रहस्यम् ।
ह्रीङ्कारमेव सततं स्मरता मयाद्य
पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ११॥
सर्वस्य देवि भुवनस्य निदानभूता
त्वय्येव सर्वमनघे विलयं गतं स्यात् ।
सञ्चिन्त्य चैतदधुना त्रिपुरे मया ते
पुष्पाञ्जलिश्चरणयोरमम्ब कीर्णः ॥ १२॥
कश्चिद्यदा भवनिहन्त्रि विचिन्तयेत्त्वां
दीनं तदैव हि कटाक्षयसे दृशा त्वम् ।
एवं विचिन्त्य भवतीं स्मरता मयाद्य
युष्पाञ्जलिश्चरणयोरमम्ब कीर्णः ॥ १३॥
लब्ध्वा त्वदीयचरणान्धुजमम्ब
जन्तुर्नावर्तते पुनरपि प्रभवाय लोके ।
वेदोक्तिमेवमसकृत्स्मरता मयाद्य
पुष्पालिश्चरणयोरयमम्ब कीर्णः ॥ १४॥
ह्रीङ्कारमेव जपतां प्रतिवासरं च
ह्रीङ्कारमेव भजतां सकलेष्टसिद्ध्यै ।
ह्रीङ्कारमेव परमं शरणं गतेन
पुष्पाञ्जलिश्चरणयोरयमप्य कीर्णः ॥ १५॥
श्रीङ्कारमन्त्रकनकाब्जनिवासशीले
श्रीरूपधारिणि शिवो श्रितकल्पवल्लि ।
श्रीमद्गुहस्तुतमहाविभवे पुरेशि
पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १६॥
॥ इति श्रीत्रिपुरसुन्दरीपुष्पाञ्जलिस्तवः सम्पूर्णः ॥

Explore More