Goddess Durga

श्रीकुब्जिकातन्त्रे दुर्गाकवचं

(Durga Devi Kavacham)

The Durga Devi Kavacham is a sacred protective hymn dedicated to Goddess Durga, where "kavacham" literally means "armour." This powerful prayer serves as spiritual protection for devotees, with the opening verse establishing its purpose: "Listen, O Goddess, I shall recite this kavacham which grants all accomplishments. By reciting or teaching it, a person is freed from all troubles." The text is a means of spiritual empowerment and divine intervention against life's difficulties. Structurally, the kavacham follows the traditional format of protective mantras by systematically invoking Goddess Durga's protection for different parts of the body and various aspects of life.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

Reading depth
Lyrics
ईश्वर उवाच।
श‍ृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ १ ॥
अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् ।
स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥ २ ॥
इदं गुह्यतमं देवि कवचं तव कथ्यते ।
गोपनीयं प्रयत्नेन सावधानवधारय ॥ ३ ॥
उमादेवी शिरः पातु ललाटे शूलधारिणी ।
चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ॥ ४ ॥
सुगन्धा नासिके पातु वदनं सर्वधारिणी । सर्वसाधिनी
जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा ॥ ५ ॥
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ।
कण्ठं पातु महावाणी जगन्माता स्तनद्वयम् ॥ ६ ॥
हृदयं ललितादेवी उदरं सिंहवाहिनी ।
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ॥ ७ ॥
महाबला च जङ्घे द्वे पादौ भूतलवासिनी ।
एवं स्थिताऽसि देवि त्वं त्रैलोक्ये रक्षणात्मिका ।
रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तुते ॥ ८ ॥
इत्येतत्कवचं देवि महाविद्या फलप्रद ।
यः पठेत्प्रातरुत्थाय स हि तीर्थफलं लभेत् ॥ ९ ॥
यो न्यसेत् कवचं देहे तस्य विघ्नं न क्वचित् ।
भूतप्रेतपिशाचेभ्यो भयं तस्य न विद्यते ॥ १० ॥
इति श्रीकुब्जिकातन्त्रे दुर्गाकवचं सम्पूर्णम् ॥

Explore More