Lord Ganesha

त्रैलोक्यमोहन गणपति कवचम्

(Trailokyamohana Ganapati Kavacam)

Also known as trailokya mohana ganapati kavacham · atha trailokyamohana ganapati kavacam

An armour for Ganapati with Shiva for its seer, and it belongs to the family of texts in this corpus named for the bewitching or the conquest of the three worlds — the others are for Bhairavi, Chinnamasta, Bala, Kali and Shodashi, so this is the one Ganesha entry in a set that is otherwise entirely of goddesses. Its viniyoga is short and gives the seed as glaum, which is the Ganapati bija proper, with svaha for the power, the Gayatri for the metre, and the whole fourfold aim of life for its purpose. The opening verse before the apparatus is the plainest thing in it and states why the text exists at all: salutation to that Ganesha, destroyer of every obstacle, who is worshipped even by the gods at the beginning of all their undertakings.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

Reading depth
Lyrics
अथ त्रैलोक्यमोहन गणपति कवचम्
नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने ।
कार्यारम्भेषु सर्वेषु पूज्यते यः सुरैरपि ॥ १ ॥
विनियोगः ।
श्रीमन्महागणपतेः कवचस्य ऋषिः शिवः ।
गणपतिर्देवता च गायत्री छन्दः एव च ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
शक्तिः स्वाहा ग्लैं बीजं विनियोगस्य कीर्तितः ॥
न्यासः ।
(अपने शरीर के अंगों को स्पर्श करें)
ओं श्रीं ह्रीं क्लीं अङ्गुष्ठाभ्यां नमः ।
ग्लौं गं गणपतये तर्जनीभ्यां नमः ।
वरवरद मध्यमाभ्यां नमः ।
सर्वजनं मे अनामिकाभ्यां नमः ।
वशमानय कनिष्ठिकाभ्यां नमः ।
स्वाहा करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः ॥
ध्यानम् ।
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा-
-दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् ।
बीजापूरगदाधनुस्त्रिशिखयुक् चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे ।
कवचम् ।
ओं ब्रह्मबीजं शिरः पातु केवलं मुक्तिदायकम् ।
श्रीं बीजमक्षिणी पातु सर्वसिद्धिसमर्पकम् ॥ २ ॥
हृल्लेखा श्रोत्रयोः पातु सर्वशत्रुविनाशिनी ।
कामबीजं कपोलौ च सर्वदुष्टनिवारणम् ॥ ३ ॥
ग्लौं गं च गणपतये वाचं पातु विनायकः ।
वरबीजं तथा जिह्वां वरदं हस्तयोस्तथा ॥ ४ ॥
सर्वजनं मे च बाहुद्वयं कण्ठं गणेश्वरः ।
वशं मे पातु हृदयं पातु सिद्धीश्वरस्तथा ॥ ५ ॥
नाभिं आनय मे पातु सर्वसिद्धिविनायकः ।
जङ्घयोर्गुल्फयोः स्वाहा सर्वाङ्गं विघ्ननायकः ॥ ६ ॥
गणपतिस्त्वग्रतः पातु गणेशः पृष्ठतस्तथा ।
दक्षिणे सिद्धिदः पातु वामे विश्वार्तिहारकः ॥ ७ ॥
दुर्जयो रक्षतु प्राच्यामाग्नेय्यां गणपस्तथा ।
दक्षिणस्यां गिरिजजो नैरृत्यां शम्भुनन्दनः ॥ ८ ॥
प्रतीच्यां स्थाणुजः पातु वायव्यामाखुवाहनः ।
कौबेर्यामीश्वरः पातु ईशान्यामीश्वरात्मजः ॥ ९ ॥
अधो गणपतिः पातु ऊर्धं पातु विनायकः ।
एताभ्यो दशदिग्भ्यस्तु पातु नित्यं गणेश्वरः ॥ १० ॥
फलश्रुतिः ।
इतीदं कथितं देवि ब्रह्मविद्याकलेवरम् ।
त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥ ११ ॥
इति श्रीमहागणपति त्रैलोक्यमोहनकवचं सम्पूर्णम् ।

Explore More