॥ श्रीयोगनायिका अथवा राजराजेश्वरी सहस्रनामावलिः ॥
राकारादिरकारान्ताद्याक्षरघटितम् ।
ॐ श्रीराजराजेश्वर्यै नमः ।
राज्ञां गुरुवराराध्यायै ।
राज्ञां कविकुलाख्यातायै ।
राज्ञां सभालङ्कृताङ्ग्यै ।
ॐ श्रीराजत्तिल्ववनाधिपायै नमः ।
राजवेश्मप्रवेशितनिजाश्रितायै ।
राजशापविनिर्मुक्तायै नमः ।
राजद्रुमूलसंराजद्विघ्नेशवरदायिन्यै ।
राजशौर्यप्रदायिन्यै नमः ।
ॐ श्रीराजाभ्यन्तःसमाराध्यायै नमः ।
राजमाषप्रियार्चितपदाम्बुजायै ।
रूपलावण्याम्बुधिचन्द्रिकायै ।
रेणुकेयाख्यकल्पोक्तयजनप्रीतमानसायै ।
रोमावलिसुलावण्यमध्यभागसुशोभितायै ।
रोचनागरुकस्तूरीचन्दनश्रीविलेपितायै ।
रोहिणीशकृतोत्तंसायै नमः ।
ॐ श्रीरोहिणीपितृवन्दितायै नमः ।
रौप्यसिंहासनारूढचाक्षुष्मन्मन्त्रविग्रहायै ।
रौद्रमन्त्राभिषिक्ताङ्ग्यै ।
रौच्यपत्रपुष्पकृतार्चनायै ।
रङ्गवल्ल्याद्यलङ्कृतायै ।
रञ्जकश्रीसभामध्यगायकान्तरवासिन्यै ।
लकारत्रययुक्तश्रीविद्यामन्त्रकदम्बकायै ।
ॐ श्रीलकुचान्नकृतादरायै नमः ।
लाक्षागृहे कौन्तेयसेवितायै ।
लिपिव्यष्टिसमष्टिज्ञायै ।
लिपिन्यस्तत्रिणेत्रभृते ।
लेह्यचोष्यपेयखाद्यभक्ष्यभोज्यादिमप्रियायै नमः ।
ॐ श्रीलेपितश्रीचन्दनाङ्ग्यै नमः ।
लोभकामक्रोधमोहमदमात्सर्यवारितायै ।
लोहजप्रतिमायन्त्रवासिन्यै ।
लोलडोलास्थितशम्भुविहारिण्यै ।
वलयीकृतमाहेशकरसौवर्णकन्धरायै ।
वल्कलान्तर्हितरम्यस्तनद्वय्यै ।
वसुदलप्रान्तवृत्तकट्याश्रितादरायै ।
वलयाकारवैडूर्यवरकङ्कणभूषणायै ।
वात्स्यायनसुतन्त्रोक्तायै ।
वाद्यवृन्दारम्भनटोत्सुकायै ।
वामाङ्घ्रिधृतनूपुरशोभितायै ।
ॐ श्रीवाच्यवाचकवाक्यार्थायै नमः ।
वासुकीकण्ठभूषाढ्यवामदेवप्रियाङ्गनायै ।
विटङ्कत्यागराजेन्द्रपीठसंस्थायै ।
विश्वनाथवामोरुसंस्थितायै ।
ॐ श्रीविश्वरूपाख्यायै नमः ।
विरिञ्चिविष्णुवनिताधृतचामरसेवितायै ।
वीजितश्रीचामरधृल्लक्ष्मीवाणीनिषेवितायै ।
वेणुवीणामृदङ्गादिवाद्यघोषविशारदायै ।
वौषट्श्रौषट्स्वरूपिण्यै ।
शनकैः पदविन्यस्तप्रदक्षिणनतिप्रियायै ।
शातकुम्भाभिषिक्ताङ्ग्यै ।
ॐ श्रीशारदाम्बिकायै नमः ।
शास्त्रतत्त्वार्थनिलयायै ।
शाकलादिमऋक्शाखामन्त्रकीर्तितवैभवायै ।
शिवसङ्कल्पमन्त्रेड्यायै ।
शिवमार्गविदां श्रेष्ठायै ।
शिल्पिशालाकृतावासायै नमः ।
शिंशपावृक्षफलवद्भिन्नानेकारिमस्तकायै ।
शिरःस्थितेन्दुचक्राङ्कायै ।
शिञ्जन्नूपुरभूषात्तकृतमन्मथभेरिकायै ।
ॐ श्रीशिष्याचरितशैलेशायै नमः ।
शिवगङ्गासरस्तीरप्रत्यङ्मन्दिरवासिन्यै ।
शिवाक्षरारम्भपञ्चदशाक्षरमनुप्रियायै ।
ॐ श्रीशिवागमरहस्योक्त्या शिवोऽहम्भावितान्तरायै नमः ।
शुका(क्रा)राधितचक्रगायै ।
ॐ श्रीशुच्यन्तरङ्गायै नमः ।
ॐ श्रीशोणशैलकृतावासायै नमः ।
शोचिष्केशतेजःप्रदायिन्यै ।
श्रीकण्ठस्वकुटुम्बिन्यै ।
श्रीसंज्ञायुतताम्बूलायै ।
श्रीबेरबद्धमालाढ्यायै नमः ।
श्रोत्रे श्रीचक्रभूषितायै ।
ॐ श्रीषडाननप्रीतायै नमः ।
षट्शास्त्रपारसन्दर्शायै ।
षट्त्रिंशत्तत्त्वसम्भूतायै ।
सृष्टिस्थितिसंहारतिरोधानानुग्रहात्मिकायै ।
ॐ श्रीसौभाग्यवर्धिन्यै नमः ।
हकारद्वयसन्दिग्धमध्यकूटमनुप्रभायै ।
हास्यभस्मीकृतत्रिपुरसुन्दर्यै ।
ह्रीङ्कारत्रयसम्पूर्णायै ।
हुङ्कारहतकिल्बिषायै नमः ।
ॐ श्रीहूं पृच्छा(ष्टा)नेकविज्ञप्त्यै नमः ।
हृह्लृमन्त्रवर्णस्वरूपिण्यै ।
हंसमन्त्रतत्त्वार्थादिमबोधिन्यै ।
हस्तपद्मालिङ्गिताम्रनाथायै ।
आदिभूसदनाकारजानुद्वयविराजितायै ।
ॐ श्रीइन्दुकलाधरायै नमः ।
एत्यक्षरद्वितीयाङ्ककादिविद्यास्वरूपिण्यै नमः ।
औषधायितसाहस्रनाममन्त्रकदम्बकायै ।
ॐ श्रीखण्डपरशुसमाश्लिष्टकलेवरायै नमः ।
गव्य(गवय)शृङ्गाभिषिक्ताङ्ग्यै ।
गार्हपत्याग्निसम्पूज्यायै ।
गुग्गुलो(लू)पेतधूपाढ्यायै ।
गृहश्रेणीकृतोत्सवायै नमः ।
ॐ श्रीगृ-गॢ-शब्दसुविज्ञात्र्यै नमः ।
गह्वराकारदहरान्तःस्थितायै ।
घनसारादिनीराजनसमप्रभायै ।
घृ-घॄ-घॢ-स्वरसम्पन्नायै ।
ॐ श्रीघौषाक्तखड्गास्त्रायै नमः ।
चीनपट्टांशुकालेपकटिदेशसमन्वितायै ।
चुलुकीकृतवाराशिमुनिसेवितपादुकायै ।
चुम्बितस्कन्दविघ्नेशपरमेशप्रियंवदायै ।
ॐ श्रीचूर्णकुन्तलायै नमः ।
छान्दसानां स्वयंव्यक्तायै ।
ॐ श्रीझर्झरघोषिण्यै नमः ।
झिण्टीसुमपरप्रेमिणे / प्रीतायै ।
तत्त्वपुस्तोल्लसत्पाण्यै ।
तार्तीयभूपुरात्मस्वपादुकायै ।
तिलकायितसर्वेशनिटिलेक्षणशोभनायै ।
तिथिस्तिल्लवनान्तःस्थायै नमः ।
तृणीकृतारातिसेनासङ्घमहाभटायै ।
तर्जन्यङ्गुष्ठसंलग्नमुद्राञ्चितकराब्जिकायै ।
थां थीं थों थैं कृतलास्यसमर्थकायै नमः ।
ॐ श्रीदशाश्वरथसंरूढायै नमः ।
दीव्यद्ब्रह्माण्डमेखलायै ।
ॐ श्रीदूर्वाप्रियप्रसुवे नमः ।
दोर्द्वन्द्वातीतमानसायै ।
दण्डिनीमन्त्रिणीमुख्यायै ।
ॐ श्रीनृत्तसाक्षिण्यै नमः ।
नौकारूढेशवामोरुवीक्षितस्थिरसुन्दर्यै ।
पातञ्जलाख्यकल्पोक्तशिवावरणसंयुतायै ।
पिञ्छा(ञ्जा)विलेपसुमुखायै ।
पुण्डरीकपुरीमध्यवर्तिन्यै नमः ।
ॐ श्रीपुष्टिवर्धिन्यै नमः ।
बकपुष्पकृतोत्तंसायै नमः ।
बिन्दुचक्रशिवाङ्कस्थायै ।
बैन्दवाकारवैरिञ्चसुषिरान्तरायै ।
ॐ श्रीबौद्धदर्शनायै नमः ।
मैथिलीशकृतार्चनपदाम्बुजायै ।
मौलिगेन्दुकलाधरकिरीटभाजे ।
रक्षोघ्नजपसन्तुष्टायै नमः ।
ॐ श्रीरक्ताङ्गापाङ्गलोचनायै नमः ।
॥ इति श्रीयोगनायिका अथवा श्रीराजराजेश्वरी सहस्रनामावलिः समाप्ता ॥