Lord Subrahmanya / Murugan

श्रीसुब्रह्मण्यपञ्चरत्नम्

(Shri Subrahmanya Pancharatnam)

Traditional

Shri Subrahmanya Pancharatnam is a sacred hymn consisting of five verses (Pancharatnam) dedicated to Lord Subrahmanya (Kartikeya). It extols His divine qualities, His birth, and His power to grant auspiciousness and spiritual wisdom.

श्रीसुब्रह्मण्य पञ्चरत्नम्

विमलनिजपदाब्जं वेदवेदान्तवेद्यं
ममकुलगुरुदेहं वाद्यगानप्रमोहम्
रमणसुगुणजालं रङ्गराढ्भासितनेयम् ।
कमलजनुतपादं कार्तिकेयं भजामि ॥ १॥
शिवशरवणजातं शैवयोगप्रभावं
भवहितगुरुनाथं भक्तवृन्दप्रमोदम् ।
नवरसमृदुपादं नादह्रींकाररूपं
कवनमधुरसारं कार्तिकेयं भजामि ॥ २॥
पाकारातिसुतामुखाब्जमधुरं बालेन्दुमौलीश्वरं
लोकानुग्रहकारणं शिवसुतं लोकेशतत्वप्रदम् ।
राकाचन्द्रसमानचारुवदनमम्भोरुहवल्लीश्वरं
ह्रींकारप्रणवस्वरूपलहरीं श्रीकार्तिकेयं भजे ॥ ३॥
महादेवजातं शरवणभवं मन्त्रशरभं
महत्तत्वानन्दं परमलहरीमन्दमधुरम् ।
महादेवातीतं सुखगणयुतं मन्त्रवरदं
गुहं वल्लीनाथं मम हृदि भजे गृद्धगिरिशम् ॥ ४॥
नित्याकारान्निखिलवरद निर्मलं ब्रह्मतत्वं
नित्यन्देवैर्विनुत चरण निर्विकल्पादियोगम् ।
नित्याढ्यान्तं निगमविदित निर्गुणन्देवनित्यं
वन्दे मम गुरुवरनिर्मलं कार्तिकेयम् ॥ ५॥

॥ इति श्रीसुब्रह्मण्यपञ्चरत्नं सम्पूर्णम् ॥

Explore More