(तै. सं. 1.4.6)
स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः परम॒च्छदो॒ वर॒ आ वि॑वेश ॥ 1
तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्र॑ सप्त॒र्षीन्प॒र एक॑मा॒हुः ॥ 2
यो दे॒वाना॑-न्नाम॒धा एक॑ ए॒व तग्ं स॑म्प्र॒श्नम्भुव॑ना यन्त्य॒न्या ॥ 3
अ॒सूर्ता॒ सूर्ता॒ रज॑सो वि॒माने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥ 4
नी॒हा॒रेण॒ प्रावृ॑ता जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥ 5
कग्ं स्वि॒द्गर्भ॑-म्प्रथ॒म-न्द॑ध्र॒ आपो॒ यत्र॑ दे॒वा-स्स॒मग॑च्छन्त॒ विश्वे ॥ 6
अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒-यँस्मि॑न्नि॒दं-विँश्व॒म्भुवन॒मधि॑ श्रि॒तम् ॥ 7
तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीनाम॒पा-ङ्गर्भं॒-व्यँ॑दधात्पुरु॒त्रा ॥ 8
य॒देदन्ता॒ अद॑दृग्ंहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ 9
सम्बा॒हुभ्या॒-न्नम॑ति॒ सम्पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ ॥ 10
यदी॒ भूमि॑-ञ्ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥ 11
मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्॑ ॥ 12
शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधाव-स्स्व॒यं-यँ॑जस्व त॒नुव॑-ञ्जुषा॒णः ॥ 13
स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥ 14
मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माक॑म्म॒घवा॑ सू॒रिर॑स्तु ॥ 15
तस्मै॒ विश॒-स्सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॑ह॒व्यो॑ यथास॑त् ॥ 16
न॒दीना॒ग्ं सर्वा॑साम्पि॒त्रे जु॑हु॒ता
वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्यग्ं ह॒विः ।
