Goddess Lakshmi

अष्टलक्ष्मी ध्यान श्लोकाः

(Astalaksmi Dhyana Slokah)

Also known as ashtalakshmi dhyana shlokah · ashtalakshmi dhyana shlokas · eight lakshmi meditation verses

Eight meditation verses, one for each of the eight Lakshmis, and nothing else — no praise, no fruit, only what the worshipper is to hold in mind before each of them. The first is Adilakshmi: two arms and two eyes, the gestures of fearlessness and of the boon, wearing a garland of flowers, seated on a lotus, framed by an arch of blossoms and ringed with a halo of light. The second has the matted crown and the firm seat, the gesture of fearlessness and a bangled hand, and a full pot in the other two, wearing a bodice and a sacred thread and pearls, attended on both sides by women holding lamp and fly whisk. The last is the Gajalakshmi form, four-armed, two lotuses in her hands, bathed from golden pots. Read together they are a specification an image-maker could work from.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री गणेशाय नमः ॥
॥ श्री अष्टलक्ष्मी ध्यान श्लोकाः ॥

१. श्री आदि लक्ष्मीः (The Primal Source)

द्विभुजां च द्विनेत्रां च साऽभयां वरदान्विताम् ।
पुष्पमालाधरां देवीं अम्बुजासन संस्थिताम् ॥
पुष्पतोरणसम्युक्तां प्रभामण्डलमण्डिताम् ।
सर्वलक्षणसम्युक्तां सर्वाभरणभूषिताम् ॥
पीताम्बरधरां देवीं मकुटीचारुबन्धनाम् ।
सौन्दर्यनिलयां शक्तिं आदिलक्ष्मीमहं भजे ॥

२. श्री सन्तान लक्ष्मीः (The Bestower of Progeny)

जटामकुटसम्युक्तां स्थिरासन समन्विताम् ।
अभयं कटकं चैव पूर्णकुम्भं करद्वये ॥
कञ्चुकं सन्नवीतं च मौक्तिकं चाऽपि धारिणीम् ।
दीप चामर हस्ताभिः सेवितां पार्श्वयोर्द्वयोः ॥
बालसेनानि सङ्काशां करुणापूरिताननाम् ।
महाराज्ञीं च सन्तानलक्ष्मीमिष्टार्थसिद्धये ॥

३. श्री गज लक्ष्मीः (The Giver of Royal Power)

चतुर्भुजां महालक्ष्मीं गजयुग्मसुपूजिताम् ।
पद्मपत्राभनयनां वराभयकरोज्ज्वलाम् ॥
ऊर्ध्वं करद्वये चाब्जं दधतीं शुक्लवस्त्रकम् ।
पद्मासने सुखासीनां गजलक्ष्मीमहं भजे ॥

४. श्री धन लक्ष्मीः (The Goddess of Wealth)

किरीटमुकुटोपेतां स्वर्णवर्ण समन्विताम् ।
सर्वाभरणसम्युक्तां सुखासन समन्विताम् ॥
परिपूर्णं च कुम्भं च दक्षिणेन करेण तु ।
चक्रं बाणं च ताम्बूलं तदा वामकरेण तु ॥
शङ्खं पद्मं च चापं च कुण्डिकामपि धारिणीम् ।
सकञ्चुकस्तनीं ध्यायेद्धनलक्ष्मीं मनोहराम् ॥

५. श्री धान्य लक्ष्मीः (The Goddess of Grain/Nourishment)

वरदाऽभयसम्युक्तां किरीटमकुटोज्ज्वलाम् ।
अम्बुजं चेक्षुशालिं च कदम्बफलद्रोणिकाम् ॥
पङ्कजं चाष्टहस्तेषु दधानां शुक्लरूपिणीम् ।
कृपामूर्तिं जटाजूटां सुखासन समन्विताम् ॥
सर्वालङ्कारसम्युक्तां सर्वाभरणभूषिताम् ।
मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥

६. श्री विजय लक्ष्मीः (The Goddess of Victory)

अष्टबाहुयुतां देवीं सिंहासनवरस्थिताम् ।
सुखासनां सुकेशीं च किरीटमकुटोज्ज्वलाम् ॥
श्यामाङ्गीं कोमलाकारां सर्वाभरणभूषिताम् ।
खड्गं पाशं तदा चक्रमभयं सव्यहस्तके ॥
खेटकं चाङ्कुशं शङ्खं वरदं वामहस्तके ।
राजरूपधरां शक्तिं प्रभासौन्दर्यशोभिताम् ॥
हंसारूढां स्मरेद्देवीं विजयां विजयप्रदे ॥

७. श्री धैर्य लक्ष्मीः (The Goddess of Courage)

अष्टबाहुयुतां लक्ष्मीं सिंहासनवरस्थिताम् ।
तप्तकाञ्चनसङ्काशां किरीटमकुटोज्ज्वलाम् ॥
स्वर्णकञ्चुकसम्युक्तां सन्नवीततरां शुभाम् ।
अभयं वरदं चैव भुजयोः सव्यवामयोः ॥
चक्रं शूलं च बाणं च शङ्खं चापं कपालकम् ।
दधतीं धैर्यलक्ष्मीं च नवतालात्मिकां भजे ॥

८. श्री ऐश्वर्य लक्ष्मीः (The Goddess of Prosperity)

चतुर्भुजां द्विनेत्रां च वराभयकरान्विताम् ।
अब्जद्वयकराम्भोजां अम्बुजासनसंस्थिताम् ॥
ससुवर्णघटोराभ्यां प्लाव्यमानां महाश्रियम् ।
सर्वाभरणशोभाढ्यां शुभ्रवस्त्रोत्तरीयकाम् ॥
चामरग्रहनारीभिः सेवितां पार्श्वयोर्द्वयोः ।
आपादलम्बिवसनां करण्डमकुटां भजे ॥
॥ ॐ महालक्ष्म्यै नमः ॥

Explore More