Goddess Kali

ब्रह्मप्रोक्ता कालीस्तुतिः

(Brahma Prokta Kali Stuti (Kalika Purana))

From Kalika Purana

Also known as vidyavidyatmikam suddham niralambam nirakulam

Thirty-seven verses from the fifth chapter of the Kalika Purana, spoken by Brahma, and their subject is Yoganidra — the sleep in which Vishnu lies while Madhu and Kaitabha rise, addressed here as a portion of the Goddess and as eternal in her own right. The opening verses hold her between opposites: she is knowledge and ignorance both, pure, unsupported, undisturbed, bearer of the world, and her form is the grossest of things and the finest at once. From her, one verse says, arises the world that goes by the name of pradhana. The later verses turn concrete — she is the thought and the fame of ascetics and is joined with the eight limbs of yoga; she carries sword and spear and discus; her form is terrible.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ ब्रह्मप्रोक्ता कालीस्तुतिः (कालिकापुराणान्तर्गता) ॥
ब्रह्मोवाच -
विद्याविद्यात्मिकां शुद्धां निरालम्बां निराकुलाम् ।
स्तौमि देवीं जगद्धात्रीं स्थूलाणीयःस्वरूपिणीम् ॥ १५॥
यस्या उदेति च जगत्प्रधानाख्यं जगत्परम् ।
यस्यास्तदंशभूतां त्वां स्तौमि निद्रां सनातनीम् ॥ १६॥
त्वं चितिः परमानन्दा परमात्मस्वरूपिणी ।
शक्तिस्त्वं सर्वभूतानां त्वं सर्वेषां च पावनी ॥ १७॥
त्वं सावित्री जगद्धात्री त्वं सन्ध्या त्वं रतिर्धृतिः ।
त्वं हि ज्योतिस्वरूपेण संसारस्य प्रकाशिनी ॥ १८॥
तथा तमःस्वरूपेण छादयन्ती सदा जगत् ।
त्वमेव सृष्टिरूपेण संसारपरिपूरणी ॥ १९॥
स्थितिरूपेण च हरेर्जगतां च हितैषिणी ।
तथैवान्तस्वरूपेण जगतामन्तकारिणी ॥ २०॥
त्वं मेधा त्वं महामाया त्वं स्वधा पितृमोदिनी ।
त्वं स्वाहा त्वं नमस्कारवषट्कारौ तथा स्मृतिः ॥ २१॥
त्वं पुष्टिस्त्वं धृतिर्मैत्री करुणा मुदिता तथा ।
त्वमेव लज्जा त्वं शान्तिस्त्वं कान्तिर्जगदीश्वरी ॥ २२॥
महामाया त्वं च स्वाहा स्वधा च पितृदेवता ।
या सृष्टिशक्तिरस्माकं स्थितिशक्तिश्च या हरेः ॥ २३॥
अन्तश्शक्तिस्तथेशानी सा त्वं शक्तिः सनातनि ॥ २४॥
एका त्वं द्विविधा भूत्वा मोक्षसंसारकारिणी ।
विद्याविद्यास्वरूपेण स्वप्रकाशाप्रकाशतः ॥ २५॥
त्वं लक्ष्मीः सर्वभूतानां त्वं छाया त्वं सरस्वती ।
त्रयीमयी त्रिमात्रा त्वं सर्वभूतस्वरूपिणी ॥ २६॥
उद्गीतिः सामवेदस्य या पितृगणरञ्जनी ।
त्वं वेदिः सर्वयज्ञानां सामिधेनी तथा हविः ॥ २७॥
यदव्यक्तमनिर्देश्यं निष्कलं परमात्मनः ।
रूपं तथैव तन्मात्रं सकलं च जगन्मयम् ॥ २८॥
या मूर्त्तिर्विरता सर्वधरित्री बिभ्रती क्षितिम् ।
सा त्वं विश्वम्भरे लोके शक्तिभूतिप्रदा सदा ॥ २९॥
त्वं लक्ष्मीश्चेतना कान्तिस्त्वं पुष्टिस्त्वं सनातनी ।
त्वं कालरात्रिस्त्वं मुक्तिः शान्तिः प्रज्ञा तथा स्मृतिः ॥ ३०॥
संसारसागरोत्तारतरणिः सुखमोक्षदे ।
प्रसीद सर्वजगतां त्वं गतिस्त्वं मतिः सदा ॥ ३१॥
त्वं नित्या त्वमनित्या च त्वं चराचरमोहिनी ।
त्वं सन्धिनी सर्वयोगसाङ्गोपाङ्गविभाविनी ॥ ३२॥
चिन्ता कीर्तिर्यतीनां त्वं त्वं तदष्टाङ्गसंयुता ।
त्वं खड्गिनी शूलिनी च चक्रिणी घोररूपिणी ॥ ३३॥
त्वमीश्वरी जनानां त्वं सर्वानुग्रहकारिणी ।
विश्वादिस्त्वमनादिस्त्वं विश्वयोनिरयोनिजा ।
अनन्ता सर्वजगतस्त्वमेवैकान्तकारिणी ॥ ३४॥
नितान्तनिर्मला त्वं हि तामसीति च गीयसे ।
त्वं हिंसा त्वमहिंसा च त्वं काली चतुरानना ॥ ३५॥
त्वं परा सर्वजननी दमनी दामिनी तथा ।
त्वय्येव लीयते विश्वं भाति तत्त्वं बिभर्षि च ॥ ३६॥
त्वं सृष्टिहीना त्वं सृष्टिस्त्वमकर्णापि सश्रुतिः ।
तपस्विनी पाणिपादहीना त्वं नितरां ग्रहा ॥ ३७॥
त्वं द्यौस्त्वमापस्त्वं ज्योतिर्वायुस्त्वं च नभो मनः ।
अहङ्कारोऽपि जगतामष्टधा प्रकृतिः कृतिः ॥ ३८॥
जगन्नाभिर्मेरुरूपधारिणी नालिकापरा ।
परापरात्मिका शुद्धा माया मोहातिकारिणी ॥ ३९॥
कारणं कार्यभूतञ्च सत्यं शान्तं शिवाशिवे ।
रूपाणि तव विश्वार्थे रागवृक्षफलानि च ॥ ४०॥
नितान्तह्रस्वा दीर्घा च नितान्ताणुबृहत्तनुः ।
सूक्ष्माप्यखिललोकस्य व्यापिनी त्वं जगन्मयी ॥ ४१॥
मानहीना विमानातिविमानोन्मानसम्भवा ।
यदष्टिव्यष्टिसम्भोगरागादिगलिताशया ।
तत्ते महिम्नि तद्रूपं तव भ्रान्त्यादिकं च यत् ॥ ४२॥
इष्टानिष्टविपाकज्ञा यथेष्टानिष्टकारणम् ।
सर्गादिमध्यान्तमयं निम्नं रूपं तथैव च ॥ ४३॥
विचाराष्टाङ्गयोगेन सम्पाद्यैवं मुहुर्मुहुः ।
यत् स्थिरीक्रियते तत्त्वं तत्ते रूपं सनातनम् ॥ ४४॥
बाह्याबाह्ये सुखं दुःखं ज्ञानाज्ञाने लयालयौ ।
उपतापस्तथा शान्तिर्भूतिस्त्वं जगतः पतेः ॥ ४५॥
यस्याः प्रभावं नो वक्तुं शक्नोति भुवनत्रये ।
तयैव सम्मोहकरी सा त्वं किं स्तूयसे मया ॥ ४६॥
योगनिद्रा महानिद्रा मोहनिद्रा जगन्मयी ।
विष्णुमाया च प्रकृतिः कस्त्वां स्तुत्या विभावयेत् ॥ ४७॥
मम विष्णोः शङ्करस्य या वपुर्वहनात्मिका ।
तस्याः प्रभावं को वक्तुं गुणान् वेत्तुं च कः क्षमः ॥ ४८॥
प्रकाशकरणज्योतिःस्वरूपान्तरगोचरा ।
त्वमेव जङ्गमस्थेयरूपैका बाह्यगोचरा ॥ ४९॥
प्रसीद सर्वजगतां जननि स्त्रीस्वरूपिणि ।
विश्वरूपिणि विश्वेशे प्रसीद त्वं सनातनि ॥ ५०॥
॥ इति कालिकापुराणे पञ्चमाध्यायान्तर्गता ब्रह्मप्रोक्ता कालीस्तुतिः समाप्ता ॥

Explore More