Goddess Ganga

गङ्गाष्टकं

(Gangashtakam)

Adi Shankaracharya

Gangashtakam is a sublime eight-verse hymn composed by Adi Shankaracharya in praise of the holy River Ganga. The stotra exalts the river as a divine entity capable of purifying the soul and severing the cycle of worldly attachments. By contemplating the surging waves and the sacred nature of the river, devotees seek liberation from sins and spiritual elevation. Chanting this powerful prayer is believed to grant inner peace, wash away internal impurities, and provide a direct path to divine grace, ultimately helping the practitioner attain proximity to the eternal truth represented by the celestial mother Ganga.

भगवति तव तीरे नीरमात्राशनोऽहम्
विगतविषयतृष्णः कृष्णमाराधयामि ।
सकल कलुषभङ्गे स्वर्गसोपानसङ्गे
तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ 1 ॥
भगवति भवलीला मौलिमाले तवाम्भः
कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ।
अमरनगरनारी चामर ग्राहिणीनां
विगत कलिकलङ्कातङ्कमङ्के लुठन्ति ॥ 2 ॥
ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती ।
क्षोणीपृष्ठे लुठन्ती दुरितचयचमूर्निर्भरं भर्त्सयन्ती
पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु ॥ 3 ॥
मज्जन्मातङ्ग कुम्भच्युत मदमदिरामोदमत्तालिजालं
स्नानैः सिद्धाङ्गनानां कुचयुग विलसत्कुङ्कुमासङ्गपिङ्गम् ।
सायं प्रातर्मुनीनां कुशकुसुमचयैश्छिन्नतीरस्थनीरं
पायान्नो गाङ्गमम्भः करिकलभ कराक्रान्त रङ्गस्तरङ्गम् ॥ 4 ॥
आदावादि पितामहस्य नियम व्यापार पात्रे जलं
पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् ।
भूयः शम्भुजटाविभूषण मणिर्जह्नोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥ 5 ॥
शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणी समुत्सारिणी ।
शेषाङ्गैरनुकारिणी हरशिरोवल्लीदलाकारिणी
काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥ 6 ॥
कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीताम्बरपुरवासं वितरसि ।
त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां
तदा मातः शान्तक्रतवपदलाभोऽप्यतिलघुः ॥ 7 ॥
गङ्गे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये
पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे ।
प्रायश्चितं यदि स्यात्तव जलकणिका ब्रह्महत्यादि पापे
कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गङ्गे प्रसीद ॥ 8 ॥
मातर्जाह्नवी शम्भुसङ्गमिलिते मौलौ निधायाञ्जलिं
त्वत्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्वयम् ।
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ 9 ॥
गङ्गाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 10 ॥

Explore More