ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥ 1 ॥
नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥ 2 ॥
तत्प्राणेश महाप्राज्ञ संशयं छिन्धि मे प्रभो ॥ 3 ॥
धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे ।
रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥ 4 ॥
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ 5 ॥
इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥ 6 ॥
ददाति स्मरणादेव महामोक्षप्रदायकम् ॥ 7 ॥
योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥ 8 ॥
श्रीरङ्गादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥ 9 ॥
निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥ 10 ॥
बृन्दावनविहाराय गोपालं रूपमुद्वहन् ॥ 11 ॥
अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥ 12 ॥
धरणीरूपिणी माता यशोदा नन्दगेहिनी ॥ 13 ॥
ब्रह्मणाऽभ्यर्थितो देवो देवैरपि सुरेश्वरः ॥ 14 ॥
श्रिया सार्धं वचः कृत्वा ततो जातो महीतले ॥ 15 ॥
एतज्ज्योतिरहं वन्द्यं चिन्तयामि सनातनम् ॥ 16 ॥
जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥ 17 ॥
एतैर्दोषैर्विलिप्येत तेजोभेदान्महीश्वरि ॥ 18 ॥
तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥ 19 ॥
ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥ 20 ॥
श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥ 21 ॥
कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥ 22 ॥
ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥ 23 ॥
ॐ ऐं क्लीं बीजं, श्रीं ह्रीं शक्तिः, श्री बृन्दावननिवासः कीलकं, श्रीराधाप्रियं परं ब्रह्मेति मन्त्रः, धर्मादि चतुर्विध पुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।
ॐ नारद ऋषये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
श्रीगोपालदेवतायै नमः हृदये ।
क्लीं कीलकाय नमः नाभौ ।
ह्रीं शक्तये नमः गुह्ये ।
श्रीं कीलकाय नमः फालयोः ।
ॐ क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा
ॐ क्लां अङ्गुष्ठाभ्यां नमः ।
ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ क्लूं मध्यमाभ्यां नमः ।
ॐ क्लैं अनामिकाभ्यां नमः ।
ॐ क्लौं कनिष्ठिकाभ्यां नमः ।
ॐ क्लः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः ।
ॐ क्लां हृदयाय नमः ।
ॐ क्लीं शिरसे स्वाहा ।
ॐ क्लूं शिखायै वषट् ।
ॐ क्लैं कवचाय हुम् ।
ॐ क्लौं नेत्रत्रयाय वौषट् ।
ॐ क्लः अस्त्राय फट् ।
मूलमन्त्रन्यासः ।
क्लीं अङ्गुष्ठाभ्यां नमः ।
कृष्णाय तर्जनीभ्यां नमः ।
गोविन्दाय मध्यमाभ्यां नमः ।
गोपीजन अनामिकाभ्यां नमः ।
वल्लभाय कनिष्ठिकाभ्यां नमः ।
स्वाहा करतलकरपृष्ठाभ्यां नमः ।
क्लीं हृदयाय नमः ।
कृष्णाय शिरसे स्वाहा ।
गोविन्दाय शिखायै वषट् ।
गोपीजन कवचाय हुम् ।
वल्लभाय नेत्रत्रयाय वौषट् ।
स्वाहा अस्त्राय फट् ।
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ 1 ॥
नासाग्रे वरमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ 2 ॥
श्रीगोपालो महीपालो वेदवेदाङ्गपारगः ॥ 1 ॥
गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः ॥ 2 ॥
जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥ 3 ॥
नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥ 4 ॥
कमलामुखलोलाक्षः पुण्डरीकः शुभावहः ॥ 5 ॥
गोविन्दो गोपतिर्गोत्रः कालिन्दीप्रेमपूरकः ॥ 6 ॥
नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः ॥ 7 ॥
आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥ 8 ॥
कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥ 9 ॥
रामो नीलाम्बरो देही हली द्विविदमर्दनः ॥ 10 ॥
शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥ 11 ॥
नरो नारायणो धीरो धरापतिरुदारधीः ॥ 12 ॥
बृन्दापतिः कुलं ग्रामी धाम ब्रह्मसनातनः ॥ 13 ॥
रामायणशरीरश्च रामो रामः श्रियःपतिः ॥ 14 ॥
राधाराधयिताराधी राधाचित्तप्रमोदकः ॥ 15 ॥
राधावशीकरो राधाहृदयाम्भोजषट्पदः ॥ 16 ॥
राधासञ्जातसम्प्रीतो राधाकामफलप्रदः ॥ 17 ॥
चन्द्रापतिश्चन्द्रपतिश्चण्डकोदण्डभञ्जनः ॥ 18 ॥
आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥ 19 ॥
कोलाहलो हलो हाली हली हलधरप्रियः ॥ 20 ॥
विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥ 21 ॥
नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥ 22 ॥
गोपदो विजयी विद्वान् शिपिविष्टः सनातनः ॥ 23 ॥
दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥ 24 ॥
द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥ 25 ॥
विभुः शरासनो धन्वी गणेशो गणनायकः ॥ 26 ॥
वामनो वामनीभूतो वमनो वमनारुहः ॥ 27 ॥
उलूखली महामानो दामबद्धाह्वयी शमी ॥ 28 ॥
केशिहा मधुहा मोही वृषासुरविघातकः ॥ 29 ॥
कुब्जाविनोदी भगवान् कंसमृत्युर्महामुखी ॥ 30 ॥
कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥ 31 ॥
ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥ 32 ॥
कमलाव्रतधारी च कमलाभः पुरन्दरः ॥ 33 ॥
ताटकारिः सुरत्राता मारीचक्षोभकारकः ॥ 34 ॥
लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥ 35 ॥
खरदूषणसंहारी साकेतपुरवासवान् ॥ 36 ॥
माधवो मधुहा माध्वी माध्वीको माधवी विभुः ॥ 37 ॥
वंशीवटविहारी च गोवर्धनवनाश्रयः ॥ 38 ॥
तृणावर्तकृपाकारी वृषभानुसुतापतिः ॥ 39 ॥
गोपीरञ्जनदैवज्ञः लीलाकमलपूजितः ॥ 40 ॥
रञ्जको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥ 41 ॥
नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥ 42 ॥
ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥ 43 ॥
गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रहिः ॥ 44 ॥
यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥ 45 ॥
यमुनावरदाता च काश्यपस्य वरप्रदः ॥ 46 ॥
पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥ 47 ॥
रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥ 48 ॥
अङ्कुशो भूसुरो भावो भामको भ्रामको हरिः ॥ 49 ॥
प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥ 50 ॥
तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥ 51 ॥
रविस्तमोहा वह्निश्च बाडबो बडबानलः ॥ 52 ॥
गोपीनाथो महीनाथो बृन्दानाथोऽवरोधकः ॥ 53 ॥
गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥ 54 ॥
राजसस्तामसस्सत्त्वी सर्वाङ्गी सर्वलोचनः ॥ 55 ॥
बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥ 56 ॥
रवरावो रवो रावो वलो वालो वलाहकः ॥ 57 ॥
पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥ 58 ॥
वृषो वृषाकपिः कालः कालीदमनकारकः ॥ 59 ॥
कोमलो वारुणी राजा जलजो जलधारकः ॥ 60 ॥
खड्गधारी कृपाकारी राधारमणसुन्दरः ॥ 61 ॥
कामः श्यामः सुखश्रीदः श्रीपतिः श्रीनिधिः कृतिः ॥ 62 ॥
गोपालचित्तहर्ता च कर्ता संसारतारकः ॥ 63 ॥
साधुर्मधुर्विधुर्धाता त्राताऽक्रूरपरायणः ॥ 64 ॥
वनं वनी वनाध्यक्षो महावन्द्यो महामुनिः ॥ 65 ॥
गोवर्धनो वर्धनीयो वर्धनी वर्धनप्रियः ॥ 66 ॥
वर्धितो वर्धको वृद्धो बृन्दारकजनप्रियः ॥ 67 ॥
रुक्मिणीहरणप्रेमा प्रेमी चन्द्रावलीपतिः ॥ 68 ॥
गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥ 69 ॥
श्वःश्रेयसं शिवं भद्रं भावुकं भवुकं शुभम् ॥ 70 ॥
ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥ 71 ॥
कृष्णः कामी सदा कृष्णः समस्तप्रियकारकः ॥ 72 ॥
मीली हिली गिली गोली गोलो गोलालयो गुली ॥ 73 ॥
म्लेच्छहा कालहर्ता च यशोदा यश एव च ॥ 74 ॥
हंसो नारायणो नीलो लीनो भक्तिपरायणः ॥ 75 ॥
सिंहभानुर्महाभानु-र्वीरभानुर्महोदधिः ॥ 76 ॥
गोकुलानन्दकारी च प्रतिज्ञापरिपालकः ॥ 77 ॥
पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥ 78 ॥
द्यौर्दिवो दिवसो दिव्यो भव्यो भागी भयापहः ॥ 79 ॥
विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥ 80 ॥
यमो यमारिर्यमनो यमी यामविघातकः ॥ 81 ॥
ललिता चन्द्रिकामाला माली मालाम्बुजाश्रयः ॥ 82 ॥
मणिर्दिनमणिश्चैव केदारो बदरीश्रयः ॥ 83 ॥
अमरारिनिहन्ता च सुधासिन्धुविधूदयः ॥ 84 ॥
श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥ 85 ॥
वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥ 86 ॥
चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥ 87 ॥
अनन्तो निर्गुणो नित्यो निर्विकल्पो निरञ्जनः ॥ 88 ॥
पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥ 89 ॥
विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥ 90 ॥
शिवः सङ्कर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥ 91 ॥
निर्वाणनायको नित्यो नीलजीमूतसन्निभः ॥ 92 ॥
हृषीकेशः पीतवासा वसुदेवप्रियात्मजः ॥ 93 ॥
पुराणः पुरुषश्रेष्ठः शङ्खपाणिः सुविक्रमः ॥ 94 ॥
गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥ 95 ॥
तृणावर्तान्तको भीमसाहसो बहुविक्रमः ॥ 96 ॥
धेनुकासुरसंहारी पूतनारिर्नृकेसरी ॥ 97 ॥
अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्धनः ॥ 98 ॥
अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवसंस्तुतः ॥ 99 ॥
धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥ 100 ॥
कोटिमन्मथसौन्दर्यो जगन्मोहनविग्रहः ॥ 101 ॥
फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदनः ॥ 102 ॥
मुरलीनिनदाह्लादो दिव्यमालाम्बरावृतः ॥ 103 ॥
कम्बुग्रीवो विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥ 104 ॥
कलङ्करहितः शुद्धो दुष्टशत्रुनिबर्हणः ॥ 105 ॥
मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥ 106 ॥
विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥ 107 ॥
समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥ 108 ॥
गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥ 109 ॥
सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥ 110 ॥
आदितेयप्रियो दैत्यभीकरो यदुशेखरः ॥ 111 ॥
पुण्यश्लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः ॥ 112 ॥
मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥ 113 ॥
सर्वसौभाग्यसम्पन्नो द्वारकापट्टणस्थितः ॥ 114 ॥
सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥ 115 ॥
गोवर्धनधरो नाथः सर्वजीवदयापरः ॥ 116 ॥
सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥ 117 ॥
महानुभावः कैवल्यदायको लोकनायकः ॥ 118 ॥
असमानः समस्तात्मा शरणागतवत्सलः ॥ 119 ॥
गम्भीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः ॥ 120 ॥
सत्यव्रतः सत्यरतः सत्यधर्मपरायणः ॥ 121 ॥
कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥ 122 ॥
दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥ 123 ॥
कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ॥ 124 ॥
प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥ 125 ॥
गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ॥ 126 ॥
अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः ॥ 127 ॥
योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥ 128 ॥
सुषुम्नामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥ 129 ॥
सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥ 130 ॥
ब्रह्मण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥ 131 ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ 132 ॥
समस्तस्सर्वभावज्ञो गोपिकाप्राणवल्लभः ॥ 133 ॥
व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥ 134 ॥
कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥ 135 ॥
वेणुनादरतः श्रेष्ठो देवानां हितकारकः ॥ 136 ॥
गोपालकामिनीजारश्चोरजारशिखामणिः ॥ 137 ॥
अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥ 138 ॥
विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥ 139 ॥
भक्तदारिद्र्यशमनो भक्तानां प्रीतिदायकः ॥ 140 ॥
भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तकः ॥ 141 ॥
ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा ॥ 2 ॥
मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥ 3 ॥
महादारिद्र्ययुक्तो वै वैष्णवो विष्णुभक्तिमान् ॥ 4 ॥
पीताम्बरधरो धीमान् सुगन्धी पुष्पचन्दनैः ॥ 5 ॥
राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥ 6 ॥
चैत्रे कृष्णे च शुक्ले च कुहूसङ्क्रान्तिवासरे ॥ 7 ॥
तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥ 8 ॥
ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥ 9 ॥
महानिशायां सततं वैष्णवो यः पठेत्सदा ॥ 10 ॥
त्रैलोक्ये तु महादेवि सुन्दर्यः काममोहिताः ॥ 11 ॥
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ 12 ॥
राजानो वशतां यान्ति किं पुनः क्षुद्रमानुषाः ॥ 13 ॥
धारणात् सर्वमाप्नोति वैष्णवो नात्र संशयः ॥ 14 ॥
कदम्बपादपतले श्रीगोपालस्य सन्निधौ ॥ 15 ॥
कृष्णेनोक्तं राधिकायै तया प्रोक्तं पुरा शिवे ॥ 16 ॥
मया तव वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥ 17 ॥
शठाय पापिने चैव लम्पटाय विशेषतः ॥ 18 ॥
देयं शान्ताय शिष्याय विष्णुभक्तिरताय च ॥ 19 ॥
अश्वमेधसहस्रस्य फलं पाठे भवेद्ध्रुवम् ॥ 20 ॥
यद्यद्वाञ्छति चित्तेन तत्तत्प्राप्नोति वैष्णवः ॥ 21 ॥
आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥ 22 ॥
शतावृत्त सहस्रं च यः पठेद्वैष्णवो जनः ॥ 23 ॥
यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥ 24 ॥
सर्पादिभूतयक्षाद्या नश्यन्ते नात्र संशयः ॥ 25 ॥
यद्गृहे च सहस्रं च नाम्नां तिष्ठति पूजितम् ॥ 26 ॥
