Lord Hanuman

श्री हनुमत्कवचम्

(Shri Hanumat Kavacham)

From Ramayana/Puranic Tradition

Shri Hanumat Kavacham is a powerful protective prayer dedicated to Lord Hanuman, the mighty devotee of Lord Rama and son of the Wind God. Attributed to the Vedic sage Vashistha, this stotra invokes the divine strength and grace of the Vanara deity. By chanting this Kavacham, a devotee is believed to construct a spiritual armor around themselves, which shields them from negative energies, obstacles, and fear. It is widely recited for its ability to instill courage, provide mental clarity, promote physical strength, and ensure success in all virtuous endeavors by seeking the eternal blessings of Anjaneya.

अस्य श्री हनुमत् कवचस्तोत्रमहामन्त्रस्य वसिष्ठ ऋषिः अनुष्टुप् छन्दः श्री हनुमान् देवता मारुतात्मज इति बीजं अञ्जनासूनुरिति शक्तिः वायुपुत्र इति कीलकं हनुमत्प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
उल्लङ्घ्य सिन्धोस्सलिलं सलीलं
यश्शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम् ॥ 1
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शिरसा नमामि ॥ 2
उद्यदादित्यसङ्काशं उदारभुजविक्रमम् ।
कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ 3
श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् ।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ 4
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ 5
पादौ वायुसुतः पातु रामदूतस्तदङ्गुलीः ।
गुल्फौ हरीश्वरः पातु जङ्घे चार्णवलङ्घनः ॥ 6
जानुनी मारुतिः पातु ऊरू पात्वसुरान्तकः ।
गुह्यं वज्रतनुः पातु जघनं तु जगद्धितः ॥ 7
आञ्जनेयः कटिं पातु नाभिं सौमित्रिजीवनः ।
उदरं पातु हृद्गेही हृदयं च महाबलः ॥ 8
वक्षो वालायुधः पातु स्तनौ चाऽमितविक्रमः ।
पार्श्वौ जितेन्द्रियः पातु बाहू सुग्रीवमन्त्रकृत् ॥ 9
करावक्ष जयी पातु हनुमांश्च तदङ्गुलीः ।
पृष्ठं भविष्यद्र्बह्मा च स्कन्धौ मति मतां वरः ॥ 10
कण्ठं पातु कपिश्रेष्ठो मुखं रावणदर्पहा ।
वक्त्रं च वक्तृप्रवणो नेत्रे देवगणस्तुतः ॥ 11
ब्रह्मास्त्रसन्मानकरो भ्रुवौ मे पातु सर्वदा ।
कामरूपः कपोले मे फालं वज्रनखोऽवतु ॥ 12
शिरो मे पातु सततं जानकीशोकनाशनः ।
श्रीरामभक्तप्रवरः पातु सर्वकलेबरम् ॥ 13
मामह्नि पातु सर्वज्ञः पातु रात्रौ महायशाः ।
विवस्वदन्तेवासी च सन्ध्ययोः पातु सर्वदा ॥ 14
ब्रह्मादिदेवतादत्तवरः पातु निरन्तरम् ।
य इदं कवचं नित्यं पठेच्च शृणुयान्नरः ॥ 15
दीर्घमायुरवाप्नोति बलं दृष्टिं च विन्दति ।
पादाक्रान्ता भविष्यन्ति पठतस्तस्य शत्रवः ।
स्थिरां सुकीर्तिमारोग्यं लभते शाश्वतं सुखम् ॥ 16
इति निगदितवाक्यवृत्त तुभ्यं
सकलमपि स्वयमाञ्जनेय वृत्तम् ।
अपि निजजनरक्षणैकदीक्षो
वशग तदीय महामनुप्रभावः ॥ 17
इति श्री हनुमत् कवचम् ॥

Explore More