श्रुतिभिः स्मृतिभिः शास्त्रैः कविभिः प्रतिपाद्या।
गायन्ति त्वच्चरितं निपुणा वृतवाद्याः
सा का त्वत्तोऽन्यावति नाम्ना पापाद्या॥
जय जगदम्ब समुद्धृतशरणागतलक्षे॥
संश्रितजनकल्मषवनकल्पदहनकीले।
सर्वत्र सदा सादरनतलालनशीले
स्वविमलगुणगणरञ्जितविधिशिवधननीले॥
जय देवि...॥
भक्तमयूराणां ते स्मृतिरम्बुदमाला।
त्वां स्तोतुं त्वत्पुरतो गीरपि खलु बाला
का तत्रान्यकविकथा क्व सुधा क्व च हाला?॥
जय देवि...॥
