अध्याय 2
पराञ्चिखानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्न् ॥1॥
अथ धीरा अमृतत्वं-विँदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥2॥
एतेनैव विजानाति किमत्र परिशिष्यते। एतद्वै तत् ॥3॥
महान्तं-विँभुमात्मान-म्मत्वा धीरो न शोचति ॥4॥
ईशान-म्भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत् ॥5॥
गुहा-म्प्रविश्य तिष्ठन्तं-योँ भूतेभिर्व्यपश्यत। एतद्वै तत् ॥6॥
गुहा-म्प्रविश्य तिष्ठन्तीं-याँ भूतेभिर्व्यजायत। एतद्वै तत् ॥7॥
दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः। एतद्वै तत् ॥8॥
त-न्देवा-स्सर्वे-ऽर्पितास्तदु नात्येति कश्चन। एतद्वै तत् ॥9॥
मृत्यो-स्स मृत्युमाप्नोति य इह नानेव पश्यति ॥10॥
मृत्यो-स्स मृत्यु-ङ्गच्छति य इह नानेव पश्यति ॥11॥
ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत् ॥12॥
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः। एतद्वै तत् ॥13॥
एव-न्धर्मान्पृथ-क्पश्यंस्तानेवानुविधावति ॥14॥
एव-म्मुनेर्विजानत आत्मा भवति गौतम ॥15॥
