Goddess Kumari

कुमारीकवचं (त्रैलोक्यमङ्गल कुमारी कवच)

(Kumari Kavacham (Rudrayamala Tantra))

From Rudrayamala Tantra

Also known as kumari kavacham · trailokya mangala kumari kavacham · rudrayamala kumari kavacham

An armour of the Kumari, from the ninth chapter of the Rudrayamala's Uttara Tantra, in the section on the worship and placement of the Kumari — the young girl worshipped as the goddess herself. It names itself at the outset, the auspicious Kumari armour called the auspiciousness of the three worlds, destroyer of great sins, and then gives the roll of those who are said to have gained by it: by reading it and by carrying it, people became greatly accomplished and full of light — Indra the lord of the gods, and Brihaspati the teacher of the gods. Forty-five verses follow, setting her syllables over the body and closing the quarters, and the colophon places the whole within a chapter on the determination of the divine disposition.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ कुमारीकवचं रुद्रयामलोत्तरतन्त्रान्तर्गतम् ॥
आनन्दभैरव उवाच--
अथातः सम्प्रवक्ष्यामि कुमारीकवचं शुभम् ।
त्रैलोक्यं मङ्गलं नाम महापातकनाशकम् ॥ १॥
पठनाद्धारणाल्लोका महासिद्धाः प्रभाकराः ।
शक्रो देवाधिपः श्रीमान् देवगुरुर्बृहस्पतिः ॥ २॥
महातेजोमयो वह्निर्धर्मराजो भयानकः ।
वरुणो देवपूज्यो हि जलानामधिपः स्वयम् ॥ ३॥
सर्वहर्त्ता महावायुः कुबेरः कुञ्जरेश्वरः ।
धराधिपः प्रियः शम्भोः सर्वे देवा दिगीश्वरः ॥ ४॥
न मेरुः प्रभुरेकायाः सर्वेशो निर्मलो द्वयोः ।
एतत्कवचपाठेन सर्वे भूपा धनाधिपाः ॥ ५॥
॥ त्रैलोक्यमङ्गलकुमारीकवचम् ॥
प्रणवो मे शिरः पातु माया सन्दायिका सती ।
ललाटोद्र्ध्वं महामाया पातु मे श्रीसरस्वती ॥ ६॥
कामाक्षा वटुकेशानी त्रिमूत्तिर्भालमेव मे ।
चामुण्डा बीजरूपा च वदनं कालिका मम ॥ ७॥
पातु मां सूर्यगा नित्यं तथा नेत्रद्वयं मम ।
कर्णयुग्मं कामबीजं स्वरूपोमातपस्विनी ॥ ८॥
रसनाग्रं तथा पातु वाग्देवी मालिनी मम ।
डामरस्था कामरूपा दन्ताग्रं कुञ्जिका मम ॥ ९॥
देवी प्रणवरूपाऽसौ पातु नित्यं शिवा मम ।
ओष्ठाधरं शक्तिबीजात्मिका स्वाहास्वरूपिणी ॥ १०॥
पायान्मे कालसन्दष्टा पञ्चवायुस्वरूपिणी ।
गलदेशं महारौद्री पातु मे चापराजिता ॥ ११॥
क्षौं बीजं मे तथा कण्ठं रुद्राणी स्वाहयान्विता ।
हृदयं भैरवी विद्या पातु षोडश सुस्वरा ॥ १२॥
द्वौ बाहू पातु सर्वत्र महालक्ष्मीः प्रधानिका ।
सर्वमन्त्रस्वरूपं मे चोदरं पीठनायिका ॥ १३॥
पार्श्वयुग्मं तथा पातु कुमारी वाग्भवात्मिका ।
कैशोरी कटिदेशं मे मायाबीजस्वरूपिणी ॥ १४॥
जङ्घायुग्मं जयन्ती मे योगिनी कुल्लुकायुता ।
सर्वाङ्गमम्बिकादेवी पातु मन्त्रार्थगामिनी ॥ १५॥
केशाग्रं कमलादेवी नासाग्रं विन्ध्यवासिनी ।
चिबुकं चण्डिका देवी कुमारी पातु मे सदा ॥ १६॥
हृदयं ललिता देवी पृष्ठं पर्वतवासिनी ।
त्रिशक्तिः षोडशी देवी लिङ्गं गुह्यं सदावतु ॥ १७॥
श्मशाने चाम्बिका देवी गङ्गागर्भे च वैष्णवी ।
शून्यागारे पञ्चमुद्रा मन्त्रयन्त्रप्रकाशिनी ॥ १८॥
चतुष्पथे तथा पातु मामेव वज्रधारिणी ।
शवासनगता चण्डा मुण्डमालाविभूषिता ॥ १९॥
पातु माने कलिङ्गे च वैखरी शक्तिरूपिणी ।
वने पातु महाबाला महारण्ये रणप्रिया ॥ २०॥
महाजले तडागे च शत्रुमध्ये सरस्वती ।
महाकाशपथे पृथ्वी पातु मां शीतला सदा ॥ २१॥
रणमध्ये राजलक्ष्मीः कुमारी कुलकामिनी ।
अर्द्धनारीश्वरा पातु मम पादतलं मही ॥ २२॥
नवलक्षमहाविद्या कुमारी रूपधारिणी ।
कोटिसूर्यप्रतीकाशा चन्द्रकोटिसुशीतला ॥ २३॥
पातु मां वरदा वाणी वटुकेश्वरकामिनी
इति ते कथितं नाथ कवचं परमाद्भुतम् ॥ २४॥
कुमार्याः कुलदायिन्याः पञ्चतत्त्वार्थपारग
यो जपेत् पञ्चतत्त्वेन स्तोत्रेण कवचेन च ॥ २५॥
आकाशगामिनी सिद्धिर्भवेत्तस्य न संशयः ॥ २६॥
वज्रदेही भवेत् क्षिप्रं कवचस्य प्रपाठतः ।
सर्वसिद्धीश्वरो योगी ज्ञानी भवति यः पठेत् ॥ २७॥
विवादे व्यवहारे च सङ्ग्रामे कुलमण्डले ।
महापथे श्मशाने च योगसिद्धो भवेत् स च ॥ २८॥
पठित्वा जयमाप्नोति सत्यं सत्यं कुलेश्वर
वशीकरणकवचं सर्वत्र जयदं शुभम् ॥ २९॥
पुण्यव्रती पठेन्नित्यं यतिश्रीमान्भवेद् ध्रुवम्
सिद्धविद्या कुमारी च ददाति सिद्धिमुत्तमाम् ॥ ३०॥
पठेद्यः श‍ृणुयाद्वापि स भवेत्कल्पपादपः ।
भक्तिं मुक्तिं तुष्टिं पुष्टिं राजलक्ष्मीं सुसम्पदाम् ॥ ३१॥
प्राप्नोति साधकश्रेष्ठो धारयित्वा जपेद्यदि ।
असाध्यं साधयेद्विद्वान् पठित्वा कवचं शुभम् ॥ ३२॥
धनिनाञ्च महासौख्यधर्मार्थकाममोक्षदम् ।
यो वशी दिवसे नित्यं कुमारीं पूजयेन्निशि ॥ ३३॥
उपचारविशेषेण त्रैलोक्यं वशमानयेत् ।
पललेनासवेनापि मत्स्येन मुद्रया सह ॥ ३४॥
नानाभक्ष्येण भोज्येन गन्धद्रव्येण साधकः ।
माल्येन स्वर्णरजतालङ्कारेण सुचैलकैः ॥ ३५॥
पूजयित्वा जपित्वा च तर्पयित्वा वराननाम् ।
यज्ञदानतपस्याभिः प्रयोगेण महेश्वर ॥ ३६॥
स्तुत्वा कुमारीकवचं यः पठेदेकभावतः ।
तस्य सिद्धिर्भवेत् क्षिप्रं राजराजेश्वरो भवेत् ॥ ३७॥
वाञ्छार्थफलमाप्नोति यद्यन्मनसि वर्तते ।
भूर्जपत्रे लिखित्वा स कवचं धारयेद् हृदि ॥ ३८॥
शनिमङ्गलवारे च नवम्यामष्टमीदिने ।
चतुर्दश्यां पौर्णमास्यां कृष्णपक्षे विशेषतः ॥ ३९॥
लिखित्वा धारयेद् विद्वान् उत्तराभिमुखो भवन् ।
महापातकयुक्तो हि मुक्तः स्यात् सर्वपातकैः ॥ ४०॥
योषिद्वामभुजे धृत्वा सर्वकल्याणमालभेत् ।
बहुपुत्रान्विता कान्ता सर्वसम्पत्तिसंयुता ॥ ४१॥
तथाश्रीपुरुषश्रेष्ठो दक्षिणे धारयेद् भुजे ।
एहिके दिव्यदेहः स्यात् पञ्चाननसमप्रभः ॥ ४२॥
शिवलोके परे याति वायुवेगी निरामयः ।
सूर्यमण्डलमाभेद्य परं लोकमवाप्नुयात् ॥ ४३॥
लोकानामतिसौख्यदं भयहरं श्रीपादभक्तिप्रद ।
मोक्षार्थं कवचं शुभं प्रपठतामानन्दसिन्धूद्भवम् ।
पार्थानां कलिकालघोरकलुषध्वंसैकहेतुं जय ।
ये नाम प्रपठन्ति धर्ममतुलं मोक्षं व्रजन्ति क्षणात् ॥ ४४॥
॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युपचर्याविन्यासे सिद्धमन्त्रप्रकरणे दिव्यभावनिर्णये नवमपटले कुमारीकवचं सम्पूर्णम् ॥

Explore More