Brahman (The Supreme Reality)

9 - भृगुवल्ली - कृष्ण यजुर्वेद तैत्तिरीय आरण्यक पाठः - भृगुर्वै वारुणिः

(Bhrigu Valli)

From Taittiriya Aranyaka, Krishna Yajurveda

Bhrigu Valli is the ninth section of the Taittiriya Aranyaka, forming an essential part of the Upanishadic wisdom within the Krishna Yajurveda. It narrates the profound dialogue between the sage Bhrigu and his father, Varuna, regarding the nature of Brahman. Through rigorous penance and internal inquiry, Bhrigu gradually realizes that matter, life, mind, intellect, and finally bliss constitute the layers of the Divine. Chanting this sacred text is considered the path to Atma-Jnana or self-realization, helping the practitioner transcend material limitations to experience the eternal, blissful consciousness that resides at the core of all existence.

कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके नवमः प्रपाठकः - भृगुवल्ली
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
भृगु वल्ली
स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
अनुवाकं 15
भृगु॒र्वै वा॑रु॒णिः । वरु॑ण॒-म्पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ ॥ तस्मा॑ ए॒त-त्प्रो॑वाच । अन्न॑-म्प्रा॒ण-ञ्चक्षु॒-श्श्रोत्र॒-म्मनो॒ वाच॒मिति॑ ॥
तग्ं हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
येन॒ जाता॑नि॒ जीव॑न्ति । य-त्प्रय॑न्त्य॒भि सं​विँ॑शन्ति ।
त-द्विजि॑ज्ञासस्व । त-द्ब्रह्मेति॑ ॥
स तपो॑-ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 35 ॥
अन्न॒-म्ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति । अन्न॒-म्प्रय॑न्त्य॒भि-सं​विँ॑श॒न्तीति॑ ॥ त-द्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व ।
तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 36 ॥
प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति ।
प्रा॒ण-म्प्रय॑न्त्य॒भि-सं​विँ॑श॒न्तीति॑ ॥ त-द्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑ण॒-म्पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 37 ॥
मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि॒ जीव॑न्ति । मनः॒ प्रय॑न्त्य॒भि-सं​विँ॑श॒न्तीति॑ ॥ त-द्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व ।
तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 38 ॥
वि॒ज्ञान॒-म्ब्रह्मेति॒ व्य॑जानात् ।
वि॒ज्ञाना॒-द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति । वि॒ज्ञान॒-म्प्रय॑न्त्य॒भि-सं​विँ॑श॒न्तीति॑ ॥
त-द्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 39 ॥
आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नन्दा॒-द्ध्ये॑व-खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति । आ॒न॒न्द-म्प्रय॑न्त्य॒भि-सं​विँ॑श॒न्तीति॑ ॥ सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒-न्प्रति॑ष्ठिता ॥ य ए॒वं-वेँद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति ।
म॒हा-न्भ॑वति प्र॒जया॑ प॒शुभि॑-र्ब्रह्मवर्च॒सेन॑ ।
म॒हान् की॒र्त्या ॥ 40 ॥
अन्न॒-न्न नि॑न्द्यात् । त-द्व्र॒तम् ॥ प्रा॒णो वा अन्न᳚म् । शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑र॒-म्प्रति॑ष्ठितम् । शरी॑रे प्रा॒णः प्रति॑ष्ठितः ।
तदे॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितम् ॥
स य ए॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति । अन्न॑वा-नन्ना॒दो भ॑वति ।
म॒हा-न्भ॑वति प्र॒जया॑ प॒शुभि॑-र्ब्रह्मवर्च॒सेन॑ ।
म॒हान् की॒र्त्या ॥ 41 ॥
अन्न॒-न्न परि॑चक्षीत । त-द्व्र॒तम् । आपो॒ वा अन्न᳚म् । ज्योति॑रन्ना॒दम् । अ॒फ्सु ज्योतिः॒ प्रति॑ष्ठितम् । ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः ।
तदे॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितम् ॥
स य ए॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति । अन्न॑वा-नन्ना॒दो भ॑वति । म॒हा-न्भ॑वति प्र॒जया॑ प॒शुभि॑-र्ब्रह्मवर्च॒सेन॑ ।
म॒हान् कीर्त्या ॥ 42 ॥
अन्न॑-म्ब॒हु कु॑र्वीत । त-द्व्र॒तम् ॥ पृ॒थि॒वी वा अन्न᳚म् । आ॒का॒शो᳚-ऽन्ना॒दः । पृ॒थि॒व्या-मा॑का॒शः प्रति॑ष्ठितः । आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता ।
तदे॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितम् ॥
स य ए॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हा-न्भ॑वति प्र॒जया॑ प॒शुभि॑-र्ब्रह्मवर्च॒सेन॑ ।
म॒हान् की॒र्त्या ॥ 43 ॥
न कञ्चन वसतौ प्रत्या॑चक्षी॒त । त-द्व्र॒तम् ॥
तस्माद्यया कया च विधया बह्व॑न्न-म्प्रा॒प्नुयात् ॥
अराद्ध्यस्मा अन्नमि॑त्याच॒क्षते ॥ एतद्वै मुखतो᳚-ऽन्नग्ं रा॒द्धम् ।
मुखतो-ऽस्मा अ॑न्नग्ं रा॒द्ध्यते । एतद्वै मद्ध्यतो᳚-ऽन्नग्ं रा॒द्धम् ।
मद्ध्यतो-ऽस्मा अ॑न्नग्ं रा॒द्ध्यते ।
एदद्वा अन्ततो᳚-ऽन्नग्ं रा॒द्धम् ।
अन्ततो-ऽस्मा अ॑न्नग्ं रा॒द्ध्यते । ॥ 44-ऽ ॥
य ए॑वं-वेँ॒द ॥ क्षेम इ॑ति वा॒चि । योगक्षेम
इति प्रा॑णापा॒नयोः । कर्मे॑ति ह॒स्तयोः । गति-रि॑ति पा॒दयोः । विमुक्ति-रि॑ति पा॒यौ । इति मानुषी᳚-स्समा॒ज्ञाः ॥ अथ दै॒वीः । तृप्ति-रि॑ति वृ॒ष्टौ । बल-मि॑ति वि॒द्युति । ॥ 44.ब् ॥ यश इ॑ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु । प्रजाति-रमृत-मानन्द इ॑त्युप॒स्थे । सर्व मि॑त्याका॒शे ॥ त-त्प्रतिष्ठे-त्यु॑पासी॒त । प्रतिष्ठा॑वा-न्भ॒वति । तन्मह इत्यु॑पासी॒त । म॑हा-न्भ॒वति । तन्मन इत्यु॑पासी॒त । मान॑वा-न्भ॒वति । ॥ 44.च् ॥ तन्नम इत्यु॑पासी॒त । नम्यन्ते᳚-ऽस्मै का॒माः । तद्ब्रह्मे-त्यु॑पासी॒त । ब्रह्म॑वा-न्भ॒वति । त-द्ब्रह्मणः परिमर इत्यु॑पासी॒त । पर्येण-म्म्रियन्ते द्विषन्तः॑ सप॒त्नाः । परि ये᳚-ऽप्रिया᳚ भ्रातृ॒व्याः ॥ स यश्चा॑य-म्पु॒रुषे । यश्चासा॑-वादि॒त्ये । स एकः॑ । ॥ 44.द् ॥ स य॑ एवं॒-विँत् । अस्माल्-लो॑का-त्प्रे॒त्य । एतमन्नमय-मात्मान-मुप॑सङ्क्र॒म्य । एत-म्प्राणमय-मात्मान-मुप॑सङ्क्र॒म्य । एत-म्मनोमय-मात्मान-मुप॑सङ्क्र॒म्य । एतं-विँज्ञानमय-मात्मान-मुप॑सङ्क्र॒म्य । एत मानन्दमय मात्मान मुप॑सङ्क्र॒म्य । इमान् ँलोकान् कामान्नी काम-रूप्य॑नुस॒ञ्चरन्न् । एत-थ्साम गा॑यन्ना॒स्ते ॥ हा(3) वु॒ हा(3) वु॒ हा(3) वु॑ । ॥ 44ऎ ॥ अ॒ह-मन्न-म॒ह-मन्न-म॒हमन्नम् । अ॒हमन्ना॒दो(2)-ऽहमन्ना॒दो(2) ऽहमन्ना॒दः । अ॒हग्ग्​ श्लोक॒कृ-द॒हग्ग्​ श्लोक॒कृ-द॒हग्ग्​ श्लोक॒कृत् । अ॒हमस्मि प्रथमजा ऋता(3) स्य॒ । पूर्व-न्देवेभ्यो अमृतस्य ना(3) भा॒ इ॒ । यो मा ददाति स इदेव मा(3)वाः॒ । अ॒ह-मन्न॒-मन्न॑-म॒दन्त॒-मा(3) द्मि॒ । अ॒हं-विँश्व॒-म्भुव॑न॒-मभ्य॑भ॒वाम् । सुव॒र्न ज्योतीः᳚ ॥ य ए॒वं-वेँद॑ ॥ इत्यु॑प॒निष॑त् ॥ 44.f ॥ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ (भृगु॒स्त्रयो॑द॒शा - न्न॑म् - प्रा॒णो - मनो॑ - वि॒ज्ञान॒-न्द्वाद॑श द्वादशा - न॒न्दो दशा - न्न॒-न्न नि॑न्द्या॒ - दन्न॒-न्न परि॑चक्षी॒ता -न्न॑-म्ब॒हुकु॑र्वि॒ तैका॑दशैकादश॒ - न कञ्च नैक॑षष्टि॒र्दश॑ ) (अ. 15) ॥ इति भृगुवल्ली समाप्ता ॥ (श-न्नः॒ - शीक्षाग्ं - स॒ह नौ॒ - य ॑007आ;छन्द॑सा॒म् - भूः - स यः - पृ॑थि॒ - व्योमि - त्यृत-ञ्चा॒ - हम् - ँवेदमनुच्य - श-न्नः॑ - स॒ह ना॑ववतु - ब्रह्म॒वि-द्- भृगुः॒ पञ्च॑दश) (श-न्नो॒ - मह॒ इत्या॑दि॒त्यो - नो इ॑तरा॒ण्य - स॑न्ने॒वा - न्न॒-न्न नि॑न्द्या॒च्चतु॑श्चत्वारिग्ंशत् ) (शन्न॒ - इत्यु॑प॒निष॑त् ) ॥ हरिः॑ ओम् ॥ ॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके नवमः प्रपाठक-स्समाप्तः ॥

Explore More