Lord Surya

महा सौर मन्त्रम्

(Maha Saura Mantram)

From Rig Veda

Also known as udu tyanjatavedasandevamva hanti ketavah

The Maha Saura Mantram consists of sacred verses from the Rig Veda dedicated to Lord Surya, the supreme source of light, energy, and consciousness. These ancient hymns serve as a profound invocation to the Sun God to dispel darkness and ignorance, fostering intellectual clarity and spiritual illumination. By chanting these verses with devotion, practitioners seek to align themselves with the cosmic solar rhythm, promoting physical vitality, mental fortitude, and divine grace. It is considered an exceptionally potent practice for attaining overall wellness, dispelling negative influences, and gaining the blessings of the life-giving solar force.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

Reading depth
Lyrics
#of 65

(1-50-1)

उदु॒ त्य-ञ्जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥ 1
अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ ।
सूरा॑य वि॒श्वच॑क्षसे ॥ 2
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जना॒ङ् अनु॑ ।
भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥ 3
त॒रणि॑र्वि॒श्वद॑र्​शतो ज्योति॒ष्कृद॑सि सूर्य ।
विश्व॒मा भा॑सि रोच॒नम् ॥ 4
प्र॒त्यङ् दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् ।
प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥ 5
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जना॒ँ अनु॑ ।
त्वं-वँ॑रुण॒ पश्य॑सि ॥ 6
वि द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभिः॑ ।
पश्य॒ञ्जन्मा॑नि सूर्य ॥ 7
स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य ।
शो॒चिष्के॑शं-विँचक्षण ॥ 8
अयु॑क्त स॒प्त शु॒न्ध्युव॒-स्सूरो॒ रथ॑स्य न॒प्त्यः॑ ।
ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥ 9
उद्व॒य-न्तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् ।
दे॒व-न्दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ 10
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव॑म् ।
हृ॒द्रो॒ग-म्मम॑ सूर्य हरि॒माणं॑ च नाशय ॥ 11
शुके॑षु मे हरि॒माणं॑ रोप॒णाका॑सु दध्मसि ।
अथो॑ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ॥ 12
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह ।
द्वि॒षन्तं॒ मह्यं॑ र॒न्धय॒न्मो अ॒ह-न्द्वि॑ष॒ते र॑धम् ॥ 13
(1-115-01)
चि॒त्र-न्दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ 14
सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् ।
यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥ 15
भ॒द्रा अश्वा॑ ह॒रित॒-स्सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः ।
न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥ 16
तत्सूर्य॑स्य देव॒त्व-न्तन्म॑हि॒त्व-म्म॒ध्या कर्तो॒र्वित॑तं॒ स-ञ्ज॑भार ।
य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥ 17
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒प-ङ्कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रित॒-स्स-म्भ॑रन्ति ॥ 18
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒-स्सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ 19
(1-164-46)
इन्द्रं॑ मि॒त्रं-वँरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्य-स्स सु॑प॒र्णो ग॒रुत्मा॑न् ।
एकं॒ सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं-यँ॒म-म्मा॑त॒रिश्वा॑नमाहुः ॥ 20
कृ॒ष्ण-न्नि॒यानं॒ हर॑य-स्सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति ।
त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥ 21
(4-040-05)
हं॒स-श्शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ॥ 22
(5-040-05)
यत्त्वा॑ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
अक्षे॑त्रवि॒द्यथा॑ मु॒ग्धो भुव॑नान्यदीधयुः ॥ 23
(7-060-01)
यद॒द्य सू॑र्य॒ ब्रवो-ऽना॑गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यम् ।
व॒य-न्दे॑व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो॑ अर्यमन्गृ॒णन्तः॑ ॥ 24
(7-062-01)
उत्सूर्यो॑ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् ।
स॒मो दि॒वा द॑दृशे॒ रोच॑मानः॒ क्रत्वा॑ कृ॒त-स्सुकृ॑तः क॒र्तृभि॑र्भूत् ॥ 25
स सू॑र्य॒ प्रति॑ पु॒रो न॒ उद्गा॑ ए॒भि-स्स्तोमे॑भिरेत॒शेभि॒रेवैः॑ ।
प्र नो॑ मि॒त्राय॒ वरु॑णाय वो॒चो-ऽना॑गसो अर्य॒म्णे अ॒ग्नये॑ च ॥ 26
वि नः॑ स॒हस्रं॑ शु॒रुधो॑ रदन्त्वृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
यच्छ॑न्तु च॒न्द्रा उ॑प॒म-न्नो॑ अ॒र्कमा नः॒ कामं॑ पूपुरन्तु॒ स्तवा॑नाः ॥ 27
(7-063-01)
उद्वे॑ति सु॒भगो॑ वि॒श्वच॑क्षा॒-स्साधा॑रण॒-स्सूर्यो॒ मानु॑षाणाम् ।
चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे॑व॒ य-स्स॒मवि॑व्य॒क्तमां॑सि ॥ 28
उद्वे॑ति प्रसवी॒ता जना॑ना-म्म॒हान्के॒तुर॑र्ण॒व-स्सूर्य॑स्य ।
स॒मा॒न-ञ्च॒क्र-म्प॑र्या॒विवृ॑त्स॒न्यदे॑त॒शो वह॑ति धू॒र्​षु यु॒क्तः ॥ 29
वि॒भ्राज॑मान उ॒षसा॑मु॒पस्था॑द्रे॒भैरुदे॑त्यनुम॒द्यमा॑नः ।
ए॒ष मे॑ दे॒व-स्स॑वि॒ता च॑च्छन्द॒ य-स्स॑मा॒न-न्न प्र॑मि॒नाति॒ धाम॑ ॥ 30
दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति दू॒रे अ॑र्थस्त॒रणि॒र्भ्राज॑मानः ।
नू॒न-ञ्जना॒-स्सूर्ये॑ण॒ प्रसू॑ता॒ अय॒न्नर्था॑नि कृ॒णव॒न्नपां॑सि ॥ 31
यत्रा॑ च॒क्रुर॒मृता॑ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे॑ति॒ पाथः॑ ॥ 32
(7-066-14)
उदु॒ त्यद्द॑र्​श॒तं-वँपु॑र्दि॒व ए॑ति प्रतिह्व॒रे ।
यदी॑मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒ अर॑म् ॥ 33
शी॒र्​ष्ण-श्शी॑र्​ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं॑ स॒मया॒ विश्व॒मा रजः॑ ।
स॒प्त स्वसा॑र-स्सुवि॒ताय॒ सूर्यं॒ वह॑न्ति ह॒रितो॒ रथे॑ ॥ 34
तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् ।
पश्ये॑म श॒रदः॑ श॒त-ञ्जीवे॑म श॒रदः॑ श॒तम् ॥ 35
(8-101-11)
बण्म॒हाँ अ॑सि सूर्य॒ बला॑दित्य म॒हाँ अ॑सि ।
म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒-ऽद्धा दे॑व म॒हाँ अ॑सि ॥ 36
बट् सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि ।
म॒ह्ना दे॒वाना॑मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥ 37
(10-037-01)
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत ।
दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शंसत ॥ 38
सा मा॑ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा॑ च॒ यत्र॑ त॒तन॒न्नहा॑नि च ।
विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्यः॑ ॥ 39
न ते॒ अदे॑वः प्र॒दिवो॒ नि वा॑सते॒ यदे॑त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ ।
प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ॥ 40
येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्​षि॑ भा॒नुना॑ ।
तेना॒स्मद्विश्वा॒मनि॑रा॒मना॑हुति॒मपामी॑वा॒मप॑ दु॒ष्वप्न्यं॑ सुव ॥ 41
विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे॑लयन्नु॒च्चर॑सि स्व॒धा अनु॑ ।
यद॒द्य त्वा॑ सूर्योप॒ब्रवा॑महै॒ त-न्नो॑ दे॒वा अनु॑ मंसीरत॒ क्रतु॑म् ॥ 42
त-न्नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इन्द्रः॑ शृण्वन्तु म॒रुतो॒ हवं॒ वचः॑ ।
मा शूने॑ भूम॒ सूर्य॑स्य स॒न्दृशि॑ भ॒द्र-ञ्जीव॑न्तो जर॒णाम॑शीमहि ॥ 43
वि॒श्वाहा॑ त्वा सु॒मन॑स-स्सु॒चक्ष॑सः प्र॒जाव॑न्तो अनमी॒वा अना॑गसः ।
उ॒द्यन्तं॑ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥ 44
महि॒ ज्योति॒र्बिभ्र॑त-न्त्वा विचक्षण॒ भास्व॑न्तं॒ चक्षु॑षे चक्षुषे॒ मयः॑ ।
आ॒रोह॑न्त-म्बृह॒तः पाज॑स॒स्परि॑ व॒य-ञ्जी॒वाः प्रति॑ पश्येम सूर्य ॥ 45
यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते॑ अ॒क्तुभिः॑ ।
अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥ 46
श-न्नो॑ भव॒ चक्ष॑सा॒ श-न्नो॒ अह्ना॒ श-म्भा॒नुना॒ शं हि॒मा श-ङ्घृ॒णेन॑ ।
यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्सू॑र्य॒ द्रवि॑ण-न्धेहि चि॒त्रम् ॥ 47
अ॒स्माकं॑ देवा उ॒भया॑य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे ।
अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं-योँर॑र॒पो द॑धातन ॥ 48
यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेल॑नम् ।
अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑ वसवो॒ नि धे॑तन ॥ 49
(10-158-01)
सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् ।
अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ॥ 50
जोषा॑ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्​ह॑ति ।
पा॒हि नो॑ दि॒द्युतः॒ पत॑न्त्याः ॥ 51
चक्षु॑र्नो दे॒व-स्स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः ।
चक्षु॑र्धा॒ता द॑धातु नः ॥ 52
चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्यः॑ ।
स-ञ्चे॒दं-विँ च॑ पश्येम ॥ 53
सु॒स॒न्दृशं॑ त्वा व॒य-म्प्रति॑ पश्येम सूर्य ।
वि प॑श्येम नृ॒चक्ष॑सः ॥ 54
(10-170-01)
वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्य-म्मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् ।
वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥ 55
वि॒भ्राड्बृ॒हत्सुभृ॑तं-वाँज॒सात॑मं॒ धर्म॑न्दि॒वो ध॒रुणे॑ स॒त्यमर्पि॑तम् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हन्त॑मं॒ ज्योति॑र्जज्ञे असुर॒हा स॑पत्न॒हा ॥ 56
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं-विँ॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् ।
वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो॑ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तम् ॥ 57
वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व॒1॑रग॑च्छो रोच॒न-न्दि॒वः ।
येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता ॥ 58
(10-189-02)
आय-ङ्गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः ।
पि॒तरं॑ च प्र॒यन्त्स्वः॑ ॥ 59
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती ।
व्य॑ख्यन्महि॒षो दिव॑म् ॥ 60
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ धीयते ।
प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥ 61
(10-190-01)
ऋ॒त-ञ्च॑ स॒त्य-ञ्चा॒भी॑द्धा॒त्तप॒सो-ऽध्य॑जायत ।
ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥ 62
स॒मु॒द्राद॑र्ण॒वादधि॑ सं​वँत्स॒रो अ॑जायत ।
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥ 63
सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिवं॑ च पृथि॒वी-ञ्चा॒न्तरि॑क्ष॒मथो॒ स्वः॑ ॥ 64
(10-036-14)
स॒वि॒ता प॒श्चाता॑त्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒रात्ता॑त्सवि॒ताध॒रात्ता॑त् ।
स॒वि॒ता नः॑ सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासता-न्दी॒र्घमायुः॑ ॥ 65
इति महासौरमन्त्रः ।

Explore More