Brahman

मुण्डक उपनिषद् - तृतीय मुण्डक, प्रथम काण्डः

(Mundaka Upanishad - Third Mundaka, First Khanda)

From Atharva Veda

This profound segment of the Mundaka Upanishad, attributed to the Vedic sages, explores the philosophical nature of the individual soul and the Supreme Divine through the iconic metaphor of two birds perched upon the same tree. It serves as a foundational text in Vedanta, illustrating the transition from worldly suffering to spiritual liberation. By contemplating these verses, the seeker learns to transcend the cycle of sorrow and delusion. Reciting and internalizing this wisdom is believed to grant the practitioner deep metaphysical clarity, intellectual detachment, and ultimate realization of the eternal, non-dual Self.

॥ तृतीय मुण्डके प्रथमः खण्डः ॥
द्वा सुपर्णा सयुजा सखाया समानं-वृँक्ष-म्परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ 1॥
समाने वृक्षे पुरुषो निमग्नो-ऽनीशया शोचति मुह्यमानः ।
जुष्टं-यँदा पश्यत्यन्यमीशमस्य
महिमानमिति वीतशोकः ॥ 2॥
यदा पश्यः पश्यते रुक्मवर्णं
कर्तारमीश-म्पुरुष-म्ब्रह्मयोनिम् ।
तदा विद्वा-न्पुण्यपापे विधूय
निरञ्जनः परमं साम्यमुपैति ॥ 3॥
प्राणो ह्येष य-स्सर्वभूतैर्विभाति
विजानन् विद्वा-न्भवते नातिवादी ।
आत्मक्रीड आत्मरतिः क्रियावा-
नेष ब्रह्मविदां-वँरिष्ठः ॥ 4॥
सत्येन लभ्यस्तपसा ह्येष आत्मा
सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।
अन्तस्शरीरे ज्योतिर्मयो हि शुभ्रो
य-म्पश्यन्ति यतयः, क्षीणदोषाः ॥ 5॥
सत्यमेव जयते नानृतं
सत्येन पन्था विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामा
यत्र त-थ्सत्यस्य परम-न्निधानम् ॥ 6॥
बृहच्च तद् दिव्यमचिन्त्यरूपं
सूक्ष्माच्च त-थ्सूक्ष्मतरं-विँभाति ।
दूरा-थ्सुदूरे तदिहान्तिके च
पश्यत्स्विहैव निहित-ङ्गुहायाम् ॥ 7॥
न चक्षुषा गृह्यते नापि वाचा
नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्व-
स्ततस्तु त-म्पश्यते निष्कलं
ध्यायमानः ॥ 8॥
एषो-ऽणुरात्मा चेतसा वेदितव्यो
यस्मि-न्प्राणः पञ्चधा सं​विँवेश ।
प्राणैश्चित्तं सर्वमोत-म्प्रजानां
यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ 9॥
यं-यंँ लोक-म्मनसा सं​विँभाति
विशुद्धसत्त्वः कामयते यांश्च कामान् ।
त-न्तं-लोँक-ञ्जयते तांश्च कामां-
स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ 10॥
॥ इति मुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥

Explore More