Lord Shiva

निर्वाण दशकं

(Nirvana Dashakam)

Adi Shankaracharya

Nirvana Dashakam is a profound Vedantic composition by Adi Shankaracharya, focusing on the nature of the supreme Self. Through ten powerful verses, the seeker systematically negates the physical elements, senses, and worldly identities to reveal the absolute, non-dual consciousness. By meditating on the refrain stating that only the blissful Shiva remains, the devotee dissolves the illusions of the ego and the body. Chanting this stotra is believed to bestow deep spiritual wisdom, mental clarity, and the ultimate liberation from the cycle of samsara, leading the practitioner toward a state of eternal, peaceful existence in the divine.

न भूमिर्न तोयं न तेजो न वायुः
न खं नेन्द्रियं वा न तेषां समूहः
अनेकान्तिकत्वात्सुषुप्त्येकसिद्धः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 1 ॥
न वर्णा न वर्णाश्रमाचारधर्मा
न मे धारणाध्यानयोगादयोपि
अनात्माश्रयाहं ममाध्यासहाना-
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 2 ॥
न माता पिता वा न देवा न लोका
न वेदा न यज्ञा न तीर्थ ब्रुवन्ति
सुषुप्तौ निरस्तातिशून्यात्मकत्वा-
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 3 ॥
न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं
न जैनं न मीमांसकादेर्मतं वा
विशिष्टानुभूत्या विशुद्धात्मकत्वा-
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 4 ॥
न चोर्ध्वं न चाधो न चान्तर्न बाह्यं
न मध्यं न तिर्यन्न पूर्वाऽपरा दिक्
वियद्व्यापकत्वादखण्डैकरूपः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 5 ॥
न शुक्लं न कृष्णं न रक्तं न पीतं
न कुब्जं न पीनं न ह्रस्वं न दीर्घं
अरूपं तथा ज्योतिराकारकत्वा-
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 6 ॥
न शास्ता न शास्त्रं न शिष्यो न शिक्षा
न च त्वं न चाहं न चायं प्रपञ्चः
स्वरूपावबोधी विकल्पासहिष्णुः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 7 ॥
न जाग्रन्न मे स्वप्नको वा सुषुप्तिः
न विश्वो न वा तैजसः पाज्ञको वा
अविद्यात्मकत्वात्त्रयाणं तुरीयः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 8 ॥
अपि व्यापकत्वाद्धितत्वप्रयोगा-
त्स्वतः सिद्धभावादनन्याश्रयत्वात्
जगत्तुच्छमेतत्समस्तं तदन्य-
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ 9 ॥
न चैकं तदन्यद्द्वितीयं कुतः स्यात्
न केवलत्वं न चाकेवलत्वं
न शून्यं न चाशून्यमद्वैतकत्वा-
कथं सर्ववेदान्तसिद्धिं ब्रवीमि ॥ 10 ॥

Explore More