॥ ॐ श्री गणेशाय नमः ॥
ॐ
1. मङ्गलाचरणम्, ध्यानम्
वन्दे सिद्धिप्रदं देवं गणेशं प्रियपालकम् ।
विश्वगर्भं च विघ्नेशं अनादिं मङ्गलं विभूम् ॥
अथ ध्यानम्
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारु चन्द्रवतंसम् ।
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ॥ 1॥
1. मङ्गलाचरणम्, ध्यानम्
वन्दे सिद्धिप्रदं देवं गणेशं प्रियपालकम् ।
विश्वगर्भं च विघ्नेशं अनादिं मङ्गलं विभूम् ॥
अथ ध्यानम्
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारु चन्द्रवतंसम् ।
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ॥ 1॥
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृतिं वसानम् ।
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ 2॥
2. प्रथमोऽध्यायः - गणपति मन्त्राः, शिव सङ्कल्प सूक्तम्
हरिः॑ ॐ
ग॒णानां॑ त्वा ग॒णप॑तिग्ं हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिग्ं हवामहे
नि॒धीनां॑ त्वा॑ निधि॒पति॑ग्ं हवामहे वसो मम ।
आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ॥ 1॥
गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्प॒ङ्क्त्या स॒ह ।
बृ॒ह॒त्युष्णिहा॑ क॒कुप्सू॒चीभिः॑ शम्यन्तु त्वा ॥ 2॥
द्विप॑दा॒याश्चतु॑ष्पदा॒स्त्रिप॑दा॒याश्च॒षट्प॑दाः ।
विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दा-स्सू॒चीभिः॑ शम्यन्तु त्वा ॥ 3॥
स॒हस्तो॑मा-स्स॒हच्छ॑न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑य-स्स॒प्त दै॑व्याः ।
पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो न र॒श्मीन् ॥ 4॥
यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ ।
दू॒र॒ङ्ग॒म-ञ्ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ 1॥
येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑ ।
यद॑पू॒र्वं-यँ॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ 2॥
यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ ।
यस्मा॒न्न-ऽऋ॒ते कि-ञ्च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ 3॥
येने॒द-म्भू॒त-म्भुव॑न-म्भवि॒ष्यत्परि॑गृहीतम॒मृते॑न॒ सर्व॑म् ।
येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ 4॥
यस्मि॒न्नृच॒-स्साम॒ यजू॑ग्ंषि॒ यस्मि॒-न्प्रति॑ष्ठिता रथना॒भावि॑वा॒राः ।
यस्मि॑ग्ंश्चि॒त्तग्ं सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ 5॥
सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॒न्नेनी॒यते॒-ऽभीशु॑भिर्वा॒जिन॑ इव ।
हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒र-ञ्जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ 6॥
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ 2॥
2. प्रथमोऽध्यायः - गणपति मन्त्राः, शिव सङ्कल्प सूक्तम्
हरिः॑ ॐ
ग॒णानां॑ त्वा ग॒णप॑तिग्ं हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिग्ं हवामहे
नि॒धीनां॑ त्वा॑ निधि॒पति॑ग्ं हवामहे वसो मम ।
आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ॥ 1॥
गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्प॒ङ्क्त्या स॒ह ।
बृ॒ह॒त्युष्णिहा॑ क॒कुप्सू॒चीभिः॑ शम्यन्तु त्वा ॥ 2॥
द्विप॑दा॒याश्चतु॑ष्पदा॒स्त्रिप॑दा॒याश्च॒षट्प॑दाः ।
विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दा-स्सू॒चीभिः॑ शम्यन्तु त्वा ॥ 3॥
स॒हस्तो॑मा-स्स॒हच्छ॑न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑य-स्स॒प्त दै॑व्याः ।
पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो न र॒श्मीन् ॥ 4॥
यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ ।
दू॒र॒ङ्ग॒म-ञ्ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ 1॥
येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑ ।
यद॑पू॒र्वं-यँ॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ 2॥
यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ ।
यस्मा॒न्न-ऽऋ॒ते कि-ञ्च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ 3॥
येने॒द-म्भू॒त-म्भुव॑न-म्भवि॒ष्यत्परि॑गृहीतम॒मृते॑न॒ सर्व॑म् ।
येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ 4॥
यस्मि॒न्नृच॒-स्साम॒ यजू॑ग्ंषि॒ यस्मि॒-न्प्रति॑ष्ठिता रथना॒भावि॑वा॒राः ।
यस्मि॑ग्ंश्चि॒त्तग्ं सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ 5॥
सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॒न्नेनी॒यते॒-ऽभीशु॑भिर्वा॒जिन॑ इव ।
हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒र-ञ्जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ 6॥
इति रुद्रे प्रथमो-ऽध्यायः ॥ 1॥
3. द्वितीयोऽध्यायः - पुरुष सूक्तम्
हरिः॑ ॐ
स॒हस्र॑शीर्षा॒ पुरु॑ष-स्सहस्रा॒क्ष-स्स॒हस्र॑पात् ।
स भूमि॑ग्ं स॒र्वतः॑ स्पृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥ 1॥
पुरु॑ष ए॒वेदग्ं सर्वं॒ यद्भू॒तं-यँच्च॑ भा॒व्य॒म् ।
उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥ 2॥
ए॒तावा॑नस्य महि॒मातो॒ ज्याया.ण्॑श्च॒ पूरु॑षः ।
पादो॑-ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥ 3॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो॑-ऽस्ये॒हाभ॑व॒त्पुनः॑ ।
ततो॒ विष्व॒ङ् व्य॒क्रामत्साशनानश॒ने अ॒भि ॥ 4॥
ततो॑ वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ 5॥
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒-स्सम्भृ॑त-म्पृषदा॒ज्यम् ।
प॒शू.ण्स्ता.ण्श्च॑क्रे वाय॒व्या॒नार॒ण्या ग्रा॒म्याश्च॒ ये ॥ 6॥
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋच॒-स्सामा॑नि जज्ञिरे ।
छन्दा॑ग्ंसि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥ 7॥
तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥ 8॥
तं-यँ॒ज्ञ-म्ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑ष-ञ्जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥ 9॥
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन्न् ।
मुखं॒ किम॑स्यासी॒-त्कि-म्बा॒हू किमू॒रू पादा॑ उच्येते ॥ 10॥
ब्रा॒ह्म॒णो॒-ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॒ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वै॑श्यः प॒द्भ्याग्ं शू॒द्रो अ॑जायत ॥ 11॥
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत ।
श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ॥ 12॥
नाभ्या॑ आसीद॒न्तरि॑क्षग्ं शी॒र्ष्णो द्यौ॒-स्सम॑वर्तत ।
प॒द्भ्या-म्भूमि॒र्दिश॒-श्श्रोत्रा॒त्तथा॑ लो॒का.ण2 ॥ अ॑कल्पयन्न् ॥ 13॥
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो॒-ऽस्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्म-श्श॒रद्ध॒विः ॥ 14॥
स॒प्तास्या॑सन्परि॒धय॒स्त्रिस्स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञ-न्त॑न्वा॒ना अब॑ध्न॒-न्पुरु॑ष-म्प॒शुम् ॥ 15॥
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्या-स्सन्ति॑ दे॒वाः ॥ 16॥
अ॒द्भ्य-स्सम्भृ॑तः पृथिव्यै॒ रसा॑च्च वि॒श्वक॑र्मण॒-स्सम॑वर्त॒ताग्रे॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति॒ तन्मर्त्य॑स्य देव॒त्वमा॒जान॒मग्रे॑ ॥ 17॥
वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त् ।
तमे॒व वि॑दि॒त्वा-ऽति॑ मृ॒त्युमे॑ति॒ नान्यः पन्था॑ विद्य॒ते-ऽय॑नाय ॥ 18॥
प्र॒जाप॑तिश्च॒रति॒ गर्भे॑ अ॒न्तरजा॑यमानो बहु॒धा वि जा॑यते ।
तस्य॒ योनिं॒ परि॑पश्यन्ति॒ धीरा॒स्तस्मि॑न्ह तस्थु॒र्भुव॑नानि॒ विश्वा॑ ॥ 19॥
यो दे॒वेभ्य॑ आ॒तप॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥ 20॥
रु॒च-म्ब्रा॒ह्म्य-ञ्ज॒नय॑न्तो दे॒वा अग्रे॒ तद॑ब्रुवन्न् ।
यस्त्वै॒व-म्ब्रा॑ह्म॒णो वि॒द्यात्तस्य॑ दे॒वा अ॑स॒न्वशे॑ ॥ 21॥
श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्या॑वहोरा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम॒श्विनौ॒ व्यात्त॑म् ।
इ॒ष्णन्नि॑षाणा॒मु-म्म॑ इषाण सर्वलो॒क-म्म॑ इषाण ॥ 22॥
इति रुद्रे द्वितीयो-ऽध्यायः ॥ 2॥
4. तृतीयोऽध्यायः - अप्रतिरथ सूक्तम्
हरि॑ ॐ
आ॒शु-श्शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः, क्षोभ॑णश्चर्षणी॒नाम् ।
स॒ङ्क्रन्द॑नो-ऽनिमि॒ष ए॑कवी॒र-श्श॒तग्ं सेना॑ अजयत्सा॒कमिन्द्रः॑ ॥ 1॥
स॒ङ्क्रन्द॑नेना-ऽनिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ ।
तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥ 2॥
स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सग्ंस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ ।
स॒ग्ंसृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्युग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥ 3॥
बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हामित्रा॑.ण2 अप॒बाध॑मानः ।
प्र॒भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥ 4॥
ब॒ल॒वि॒ज्ञा॒य-स्स्थवि॑रः॒ प्रवी॑र॒-स्सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः ।
अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जै॑त्रमिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् ॥ 5॥
गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।
इ॒मग्ं स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्र॑ग्ं सखायो॒ अनु॒ सग्ंर॑भध्वम् ॥ 6॥
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो-ऽद॒यो वी॒र-श्श॒तम॑न्यु॒रिन्द्रः॑ ।
दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्यो-ऽस्माक॒ग्ं सेना॑ अवतु॒ प्र यु॒त्सु ॥ 7॥
इन्द्र॑ आसा-न्ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ ।
दे॒व॒से॒नाना॑मभिभञ्जती॒ना-ञ्जय॑न्तीना-म्म॒रुतो॑ य॒न्त्वग्र॑म् ॥ 8॥
इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुता॒ग्ं शर्ध॑ उ॒ग्रम् ।
म॒हाम॑नसा-म्भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥ 9॥
उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑ना-म्माम॒कानां॒ मना॑ग्ंसि ।
उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां-यँन्तु॒ घोषाः॑ ॥ 10॥
अ॒स्माक॒मिन्द्र॒-स्समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।
अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मा.ण2 उ॑ देवा अवता॒ हवे॑षु ॥ 11॥
अ॒मीषां॑ चि॒त्त-म्प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि ।
अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥ 12॥
अव॑सृष्टा॒ परा॑पत॒ शर॑व्ये॒ ब्रह्म॑सग्ंशिते ।
गच्छा॒मित्रा॒न्प्रप॑द्यस्व॒ मामीषाङ्कञ्चनोच्छि॑षः ॥ 13॥
प्रेता॒ जय॑ता नर॒ इन्द्रो॑ व॒-श्शर्म॑ यच्छतु ।
उ॒ग्रा वः॑ सन्तु बा॒हवो॑-ऽनाधृ॒ष्या यथास॑थ ॥ 14॥
असौ॒ या सेना॑ मरुतः॒ परे॑षाम॒भ्यैति॑ न॒ ओज॑सा॒ स्पर्ध॑माना ।
ता-ङ्गू॑हत॒ तम॒सा-ऽप॑व्रतेन॒ यथा॒मी अ॒न्यो अ॒न्य-न्न जा॒नन्न् ॥ 15॥
यत्र॑ बा॒णा-स्स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
तन्न॒ इन्द्रो॒ बृह॒स्पति॒रदि॑ति॒-श्शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥ 16॥
मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒-ऽमृते॒नानु॑वस्ताम् ।
उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥ 17॥
इति रुद्रे तृतीयो-ऽध्यायः ॥ 3॥
5. चतुर्थोऽध्यायः - सौर सूक्तम्, मैत्र सूक्तम्
हरिः॑ ॐ
वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्य-म्मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् ।
वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥ 1॥
उदु॒ त्य-ञ्जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥ 2॥
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जना.ङ्2 ॥ अनु॑ ।
त्वं-वँ॑रुण॒ पश्य॑सि ॥ 3॥
दैव्या॑वध्वर्यू॒ आग॑त॒ग्ं रथे॑न॒ सूर्य॑त्वचा . मध्वा॑ य॒ज्ञग्ं सम॑ञ्जाथे ।
त-म्प्र॒त्नथा॒-ऽयं-वेँ॒नश्चि॒त्र-न्दे॒वाना॑म् ॥ 4॥
त-म्प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑ति-म्बर्हि॒षद॑ग्ंस्व॒र्विद॑म् ।
प्र॒ती॒ची॒नं-वृँ॒जनं॑ दोहसे॒ धुनि॑मा॒शु-ञ्जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ॥ 5॥
अ॒यं-वेँ॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।
इ॒मम॒पाग्ंस॑ङ्ग॒मे सूर्य॑स्य॒ शिशु॒न्न विप्रा॑ म॒तिभी॑ रिहन्ति ॥ 6॥
चि॒त्र-न्दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षग्ं सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ 7॥
आ न॒ इडा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑र-स्सवि॒ता दे॒व ए॑तु ।
अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥ 8॥
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य ।
सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥ 9॥
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।
विश्व॒मा भा॑सि रोच॒नम् ॥ 10॥
तत्सूर्य॑स्य देव॒त्व-न्तन्म॑हि॒त्व-म्म॒ध्या कर्तो॒र्वित॑त॒ग्ं स-ञ्ज॑भार ।
य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥ 11॥
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒प-ङ्कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रित॒-स्स-म्भ॑रन्ति ॥ 12॥
बण्म॒हा.ण2 ॥ अ॑सि सूर्य॒ बडा॑दित्य म॒हा.ण2 ॥ अ॑सि ।
म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒-ऽद्धा दे॑व म॒हा.ण2 ॥ अ॑सि ॥ 13॥
बट् सू॑र्य॒ श्रव॑सा म॒हा.ण2 ॥ अ॑सि . स॒त्रा दे॑व म॒हा.ण2 ॥ अ॑सि ।
म॒ह्ना दे॒वाना॑मसु॒र्यः॒ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥ 14॥
श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत ।
वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒ग-न्न दी॑धिम ॥ 15॥
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरग्ंह॑सः पिपृ॒ता निर॑व॒द्यात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒-स्सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ 16॥
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥ 17॥
इति रुद्रे चतुर्थो-ऽध्यायः ॥ 4॥
6. पञ्चमोऽध्यायः - रुद्र सूक्तम् (नील सूक्तम्)
हरिः॑ ॐ
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ ।
बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥ 1॥
या ते॑ रुद्र शि॒वा त॒नूरघो॒रा-ऽपा॑पकाशिनी ।
तया॑ नस्त॒न्वा शन्त॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ॥ 2॥
यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे ।
शि॒वा-ङ्गि॑रित्र॒ ता-ङ्कु॑रु॒ मा हि॑ग्ंसीः॒ पुरु॑षं॒ जग॑त् ॥ 3॥
शि॒वेन॒ वच॑सा त्वा गिरि॒शा-ऽच्छा॑वदामसि ।
यथा॑ न॒-स्सर्व॒मिज्जग॑दय॒क्ष्मग्ं सु॒मना॒ अस॑त् ॥ 4॥
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अही॑ग्ंश्च॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॒-ऽध॒राचीः॒ परा॑सुव ॥ 5॥
असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रु-स्सु॑म॒ङ्गलः॑ ।
ये चै॑नग्ं रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ता-स्स॑हस्र॒शो-ऽवै॑षा॒ग्ं हेड॑ ईमहे ॥ 6॥
असौ॒ यो॑-ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।
उ॒तैनं॑ गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्य-स्स दृ॒ष्टो मृ॑डयाति नः ॥ 7॥
नमो॑-ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒-ऽह-न्तेभ्यो॑-ऽकरं॒ नमः॑ ॥ 8॥
प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ॥ 9॥
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वा.ण2 ॥ उ॒त ।
अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ॥ 10॥
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
तया॒स्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑भुज ॥ 11॥
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ ।
अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ॥ 12॥
अ॒व॒तत्य॒ धनु॒ष्ट्वग्ं सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥ 13॥
नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥ 14॥
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒क-म्मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत॑ मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॒ रुद्र रीरिषः ॥ 15॥
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
मा नो॑ वी॒रा-न्रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्त॒-स्सद॒मित्त्वा॑ हवामहे ॥ 16॥
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॒ दि॒शा-ञ्च॒ पत॑ये॒ नमो॒
नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒ना-म्पत॑ये॒ नमो॒
नमः॑ श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒ना-म्पत॑ये॒ नमो॒
नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमः॑ ॥ 17॥
नमो॑ बभ्लु॒शाय॑ व्या॒धिने-ऽन्ना॑नां॒ पत॑ये॒ नमो॒
नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒
नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒
नमः॑ सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नमः॑ ॥ 18॥
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒
नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒
नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒
नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒ना-म्पत॑ये॒ नमः॑ ॥ 19॥
नमः॑ कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒
नम॒-स्सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒
नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒
नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमः॑ ॥ 20॥
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒ना-म्पत॑ये॒ नमो॒
नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒
नमः॑ सृका॒यिभ्यो॒ जिघा॑ग्ंसद्भ्यो मुष्ण॒ता-म्पत॑ये॒ नमो॒
नमो॑-ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नमः॑ ॥ 21॥
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒
नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒
नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒
नम॑ आ॒यच्छ॒द्भ्यो-ऽस्य॑द्भ्यश्च वो॒ नमः॑ ॥ 22॥
नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒
नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒
नम॒-श्शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒
नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमः॑ ॥ 23॥
नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒
नमो-ऽश्वे॒भ्यो-ऽश्व॑पतिभ्यश्च वो॒ नमो॒
नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒
नम॒ उग॑णाभ्यस्तृग्ंह॒तीभ्य॑श्च वो॒ नमः॑ ॥ 24॥
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒
नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒
नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒
नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमः॑ ॥ 25॥
नम॒-स्सेना॑भ्य-स्सेना॒निभ्य॑श्च वो॒ नमो॒
नमो॑ र॒थिभ्यो॑ अर॒थेभ्य॑श्च वो॒ नमो॒
नमः॑ क्ष॒त्तृभ्यः॑ सङ्ग्रही॒तृभ्य॑श्च वो॒ नमो॒
नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नमः॑ ॥ 26॥
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒
नमः॒ कुला॑लेभ्यः क॒र्मारे॑भ्यश्च वो॒ नमो॒
नमो॑ निषा॒देभ्यः॑ पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒
नमः॑ श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नमः॑ ॥ 27॥
नम॒-श्श्वभ्य॒-श्श्वप॑तिभ्यश्च वो॒ नमो॒
नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒
नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒
नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ॥ 28॥
नमः॑ कप॒र्दिने॑ च॒ व्यु॒प्तकेशाय च॒
नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒
नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒
नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ॥ 29॥
नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒
नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒
नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒
नमो-ऽग्र्या॑य च प्रथ॒माय॑ च ॥ 30॥
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒
नम॒-श्शीघ्र्या॑य च॒ शीभ्या॑य च॒
नम॒ ऊर्म्या॑य चावस्व॒न्या॒य च॒
नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ॥ 31॥
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒
नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒
नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒
नमो॑ जघ॒न्या॒य च बु॒ध्न्या॒य च ॥ 32॥
नम॒-स्सोभ्या॑य च प्रतिस॒र्या॒य च॒
नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒
नम॒-श्श्लोक्या॑य चावसा॒न्या॒य च॒
नम॑ उर्व॒र्या॒य च॒ खल्या॑य च ॥ 33॥
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒
नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒
नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒
नम॒-श्शूरा॑य चावभे॒दिने॑ च ॥ 34॥
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒
नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒
नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒
नमो॑ दुन्दु॒भ्या॒य चाहन॒न्या॒य च ॥ 35॥
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒
नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒
नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒
नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च ॥ 36॥
नम॒-स्स्रुत्या॑य च॒ पथ्या॑य च॒
नमः॒ काट्या॑य च॒ नीप्या॑य च॒
नमः॒ कुल्या॑य च सर॒स्या॒य च॒
नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ॥ 37॥
नमः॒ कूप्या॑य चाव॒ट्या॑य च॒
नमो॒ वीध्र्या॑य चात॒प्या॒य च॒
नमो॒ मेघ्या॑य च विद्यु॒त्या॒य च॒
नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ॥ 38॥
नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒
नमो॑ वास्त॒व्या॒य च वास्तु॒पाय॑ च॒
नम॒-स्सोमा॑य च रु॒द्राय॑ च॒
नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ॥ 39॥
नमः॑ श॒ङ्गवे॑ च पशु॒पत॑ये च॒
नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒
नमो॑-ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒
नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒
नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ॥ 40॥
नमः॑ शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒
नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒
नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥ 41॥
नमः॒ पार्या॑य चावा॒र्या॒य च॒
नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒
नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒
नम॒-श्शष्प्या॑य च॒ फेन्या॑य च ॥ 42॥
नमः॑ सिक॒त्या॒य च प्रवा॒ह्या॒य च॒
नमः॑ किग्ंशि॒लाय॑ च क्षय॒णाय॑ च॒
नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒
नम॑ इरि॒ण्या॒य च प्रप॒थ्या॒य च ॥ 43॥
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒
नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒
नमो॑ हृद॒य्या॒य च निवे॒ष्प्या॒य च॒
नमः॒ काट्या॑य च गह्वरे॒ष्ठाय॑ च ॥ 44॥
नम॒-श्शुष्क्या॑य च हरि॒त्या॒य च॒
नमः॑ पाग्ंस॒व्या॒य च रज॒स्या॒य च॒
नमो॒ लोप्या॑य चोल॒प्या॒य च॒
नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ॥ 45॥
नमः॑ प॒र्णाय॑ च पर्णश॒दाय॑ च॒
नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒
नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒
नमः॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒
नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ग्ं हृद॑येभ्यो॒ नमो॑
विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्यः॑ ॥ 46॥
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्रं॒ नील॑लोहित ।
आ॒सा-म्प्र॒जाना॑मे॒षा-म्प॑शू॒ना-म्मा भे॒र्मा रोङ्भो च॑ नः॒ किञ्च॒नाम॑मत् ॥ 47॥
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्ट-ङ्ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ॥ 48॥
या ते॑ रुद्र शि॒वा त॒नू-श्शि॒वा वि॒श्वाहा॑ भेष॒जी ।
शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ॥ 49॥
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ॥ 50॥
मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑ध-न्नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ॥ 51॥
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः ।
यास्ते॑ स॒हस्र॑ग्ं हे॒तयो॒-ऽन्यम॒स्मन्निव॑पन्तु॒ ताः ॥ 52॥
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तयः॑ ।
तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥ 53॥
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् ।
तेषा॑ग्ं सहस्रयोज॒ने-ऽव॒ धन्वा॑नि तन्मसि ॥ 54॥
अ॒स्मिन्म॑ह॒त्य॒र्ण॒वे-ऽन्तरि॑क्षे भ॒वा अधि॑ ।
तेषा॑ग्ं सहस्रयोज॒ने-ऽव॒ धन्वा॑नि तन्मसि ॥ 55॥
नील॑ग्रीवा-श्शिति॒कण्ठा॒ दिव॑ग्ं रु॒द्रा उप॑श्रिताः ।
तेषा॑ग्ं सहस्रयोज॒ने-ऽव॒ धन्वा॑नि तन्मसि ॥ 56॥
नील॑ग्रीवा-श्शिति॒कण्ठाः॑ श॒र्वा अ॒धः, क्ष॑माच॒राः ।
तेषा॑ग्ं सहस्रयोज॒ने-ऽव॒ धन्वा॑नि तन्मसि ॥ 57॥
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः ।
तेषा॑ग्ं सहस्रयोज॒ने-ऽव॒ धन्वा॑नि तन्मसि ॥ 58॥
ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ ।
तेषा॑ग्ं सहस्रयोज॒ने-ऽव॒ धन्वा॑नि तन्मसि ॥ 59॥
ये प॒था-म्प॑थि॒रक्ष॑य ऐलबृ॒दा आ॑यु॒र्युधः॑ ।
तेषा॑ग्ं सहस्रयोज॒ने-ऽव॒ धन्वा॑नि तन्मसि ॥ 60॥
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिणः॑ ।
तेषा॑ग्ं सहस्रयोज॒ने-ऽव॒ धन्वा॑नि तन्मसि ॥ 61॥
ये-ऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् ।
तेषा॑ग्ं सहस्रयोज॒ने-ऽव॒ धन्वा॑नि तन्मसि ॥ 62॥
य ए॒ताव॑न्तश्च॒ भूया॑ग्ंसश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषा॑ग्ं सहस्रयोज॒ने-ऽव॒ धन्वा॑नि तन्मसि ॥ 63॥
नमो॑-ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वस्तेभ्यो॒
दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒
नमो॑ अस्तु॒ ते नो॑-ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं
द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥ 64॥
नमो॑-ऽस्तु रु॒द्रेभ्यो॒ ये-ऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वस्तेभ्यो॒
दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒
नमो॑ अस्तु॒ ते नो॑-ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं
द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥ 65॥
नमो॑-ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां-येँषा॒मन्न॒मिष॑वस्तेभ्यो॒
दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒
नमो॑ अस्तु॒ ते नो॑-ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं
द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥ 66॥
इति रुद्रे पञ्चमो-ऽध्यायः ॥ 5॥
7. षष्ठोऽध्यायः - महच्छिर, सोम स्तवन, त्र्यम्बक यजनम्
हरिः॑ ॐ
व॒यग्ंसो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः ।
प्र॒जाव॑न्त-स्सचेमहि ॥ 1॥
ए॒ष ते॑ रुद्र भा॒ग-स्स॒ह स्वस्रा-ऽम्बि॑कया॒ त-ञ्जु॑षस्व॒ स्वाहै॒ष ते॑ रुद्र भा॒ग आ॒खुस्ते॑ प॒शुः ॥ 2॥
अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒व-न्त्र्य॑म्बकम् ।
यथा॑ नो॒ वस्य॑स॒स्कर॒द्यथा॑ न॒-श्श्रेय॑स॒स्कर॒द्यथा॑ नो व्यवसा॒यया॑त् ॥ 3॥
भे॒ष॒जम॑सि भेष॒ज-ङ्गवे-ऽश्वा॑य॒ पुरु॑षाय भेष॒जम् ।
सु॒ख-म्मे॒षाय॑ मेष्यै ॥ 4॥
त्र्य॑म्बकं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मा-ऽमृता॑त् ।
त्र्य॑म्बकं-यँजामहे सुग॒न्धि-म्प॑ति॒वेद॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुतः॑ ॥ 5॥
ए॒तत्ते॑ रुद्राव॒स-न्तेन॑ प॒रो मूज॑व॒तो-ऽती॑हि ।
अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ अहि॑ग्ंसन्न-श्शि॒वो-ऽती॑हि ॥ 6॥
त्र्या॑यु॒ष-ञ्ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् ।
यद्दे॒वेषु॑ त्र्यायु॒ष-न्तन्नो॑ अस्तु त्र्यायु॒षम् ॥ 7॥
शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसीः ।
निव॑र्तयाम्यायु॑षे॒-ऽन्नाद्या॑य॒ प्रजन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ 8॥
इति रुद्रे षष्ठो-ऽध्यायः ॥ 6॥
8. सप्तमोऽध्यायः - जटाऽध्यायः
हरिः॑ ॐ
उ॒ग्रश्च॑ भी॒मश्च॒ ध्वा॒न्तश्च॒ धुनि॑श्च ।
सा॒स॒ह्वांश्चा॑भियु॒ग्वा च॑ वि॒क्षिप॒-स्स्वाहा॑ ॥ 1॥
अ॒ग्निग्ं हृद॑येना॒शनि॑ग्ं हृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं-यँ॒क्ना ।
श॒र्व-म्मत॑स्नाभ्या॒मीशा॑न-म्म॒न्युना॑ महादे॒वम॑न्तः पर्श॒व्येनो॒ग्रं
दे॒वं-वँ॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒ शिङ्गी॑नि को॒श्याभ्या॑म् ॥ 2॥
उ॒ग्रं-ल्लोँहि॑तेन मि॒त्रग्ं सौ॑व्रत्येन रु॒द्र-न्दौर्व्र॑त्ये॒नेन्द्रं॑ प्रक्री॒डेन॑ म॒रुतो॒ बले॑न सा॒ध्यान्प्र॒मुदा॑ ।
भ॒वस्य॒ कण्ठ्य॑ग्ं रु॒द्रस्या॑न्तः पा॒र्श्व्य-म्म॑हादे॒वस्य॒ यकृ॑च्छ॒र्वस्य॑ वनि॒ष्ठुः प॑शु॒पतेः॑ पुरी॒तत् ॥ 3॥
लोम॑भ्य॒-स्स्वाहा॒ लोम॑भ्य॒-स्स्वाहा॑ त्व॒चे स्वाहा॑ त्व॒चे स्वाहा॒
लोहि॑ताय॒ स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ मेदो॑भ्य॒-स्स्वाहा॒ मेदो॑भ्य॒-स्स्वाहा॑ ।
मा॒ग्ंसेभ्य॒-स्स्वाहा॑ मा॒ग्ंसेभ्य॒-स्स्वाहा॒ स्नाव॑भ्य॒-स्स्वाहा॒ स्नाव॑भ्य॒-स्स्वाहा॒
अस्थभ्य॒-स्स्वाहा॒ अस्थभ्य॒-स्स्वाहा॑ म॒ज्जभ्य॒-स्स्वाहा॑ म॒ज्जभ्य॒-स्स्वाहा॑ ।
रेत॑से॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑ ॥ 4॥
आ॒या॒साय॒ स्वाहा॑ प्राया॒साय॒ स्वाहा॑ संयाँ॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ ।
शु॒चे स्वाहा॒ शोच॑ते॒ स्वाहा॒ शोच॑मानाय॒ स्वाहा॒ शोका॑य॒ स्वाहा॑ ॥ 5॥
तप॑से॒ स्वाहा॒ तप्य॑ते॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ त॒प्ताय॒ स्वाहा॑ घ॒र्माय॒ स्वाहा॑ ।
निष्कृ॑त्यै॒ स्वाहा॒ प्राय॑श्चित्त्यै॒ स्वाहा॑ भेष॒जाय॒ स्वाहा॑ ॥ 6॥
य॒माय॒ स्वाहान्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॒ ब्रह्म॑णे॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ ।
विश्वे॑भ्यो दे॒वेभ्य॒-स्स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ग्ं स्वाहा॑ ॥ 7॥
इति रुद्रे सप्तमो-ऽध्यायः ॥ 7॥
9. अष्टमोऽध्यायः - चमक प्रश्नः
(चमकप्रश्नः ।)
हरिः॑ ॐ
वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे
धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे
श्र॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ स्व॒श्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 1॥
प्रा॒णश्च॑ मे-ऽपा॒नश्च॑ मे व्या॒नश्च॒ मे-ऽसु॑श्च मे
चि॒त्त-ञ्च॑ म॒ आधी॑त-ञ्च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒
चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 2॥
ओज॑श्च मे॒ सह॑श्च म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒
शर्म॑ च मे॒ वर्म॑ च॒ मे-ऽङ्गा॑नि च॒ मे-ऽस्थी॑नि च मे॒
परू॑ग्ंषि च मे॒ शरी॑राणि च म॒ आयु॑श्च मे ज॒रा च॑ मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 3॥
ज्यै॑ष्ठ्य-ञ्च म आधि॑पत्य-ञ्च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मे-ऽम॑श्च॒ मे-ऽम्भ॑श्च मे
जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे
वर्षि॒मा च॑ मे द्राघि॒मा च॑ मे वृ॒द्ध-ञ्च॑ मे॒ वृद्धि॑श्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 4॥
स॒त्य-ञ्च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒
विश्वं॑ च मे॒ मह॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे
जा॒त-ञ्च॑ मे जनि॒ष्यमा॑ण-ञ्च मे सू॒क्त-ञ्च॑ मे सुकृ॒त-ञ्च॑ मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 5॥
ऋ॒त-ञ्च॑ मे-ऽमृतं॑ च मे-ऽय॒क्ष्म-ञ्च॒ मे-ऽना॑मयच्च मे
जी॒वातु॑श्च मे दीर्घायु॒त्व-ञ्च॑ मे-ऽनमि॒त्र-ञ्च॒ मे-ऽभ॑य-ञ्च मे
सु॒ख-ञ्च॑ मे॒ शय॑न-ञ्च मे सू॒षाश्च॑ मे सु॒दिनं॑ च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 6॥
य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒
विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒
सूश्च॑ मे प्र॒सूशच॒॑ मे॒ सीरं॑ च मे॒ लय॑श्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 7॥
श-ञ्च॑ मे॒ मय॑श्च मे प्रि॒य-ञ्च॑ मे-ऽनुका॒मश्च॑ मे॒
काम॑श्च मे सौमन॒सश्च॑ मे॒ भग॑श्च मे॒ द्रवि॑ण-ञ्च मे
भ॒द्र-ञ्च॑ मे॒ श्रेय॑श्च मे॒ वसी॑यश्च मे॒ यश॑श्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 8॥
ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे
घृ॒त-ञ्च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे
कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्य-ञ्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 9॥
र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्ट-ञ्च॑ मे॒ पुष्टि॑श्च मे
वि॒भु च॑ मे प्र॒भु च॑ मे पू॒र्ण-ञ्च॑ मे पू॒र्णत॑र-ञ्च मे॒
कुय॑व-ञ्च॒ मे-ऽक्षि॑त-ञ्च॒ मे-ऽन्नं॑ च॒ मे-ऽक्षु॑च्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 10॥
वि॒त्त-ञ्च॑ मे॒ वेद्यं॑ च मे भू॒त-ञ्च॑ मे भवि॒ष्यच्च॑ मे
सु॒ग-ञ्च॑ मे सुप॒थ्यं॒ च म ऋ॒द्ध-ञ्च॑ म॒ ऋद्धि॑श्च मे
क्लृ॒प्त-ञ्च॑ मे॒ क्लृप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 11॥
व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे
मु॒द्राश्च॑ मे॒ खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मे-ऽण॑वश्च मे
श्या॒माका॑श्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 12॥
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒
सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्य-ञ्च॒ मे-ऽय॑श्च मे
श्या॒म-ञ्च॑ मे लो॒ह-ञ्च॑ मे॒ सीसं॑ च मे॒ त्रपु॑ च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 13॥
अ॒ग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे
कृष्टप॒च्याश्च॑ मे-ऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ मे
वि॒त्त-ञ्च॑ मे॒ वित्ति॑श्च मे भू॒त-ञ्च॑ मे॒ भूति॑श्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 14॥
वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒
शक्ति॑श्च॒ मे-ऽर्थ॑श्च म॒ एम॑श्च म इ॒त्या च॑ मे॒ गति॑श्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 15॥
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे
सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे
पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 16॥
मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे
धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ इन्द्र॑श्च मे
म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 17॥
पृ॒थि॒वी च॑ म॒ इन्द्र॑श्च॒ मे-ऽन्तरि॑क्ष-ञ्च म॒ इन्द्र॑श्च मे॒
द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ समा॑श्च म॒ इन्द्र॑श्च मे॒
नक्ष॑त्राणि च म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 18॥
अ॒ग्ंशुश्च॑ मे र॒श्मिश्च॒ मे-ऽदा॑भ्यश्च॒ मे-ऽधि॑पतिश्च म उपा॒ग्ंशुश्च॑ मे-ऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे
मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 19॥
आ॒ग्र॒या॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे
वैश्वान॒रश्च॑ म ऐन्द्रा॒ग्नश्च॑ मे
म॒हावै॑श्वदेश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे
सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 20॥
स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या॒नि च मे द्रोणकल॒शश्च॑ मे॒
ग्रावा॑णश्च मे-ऽधि॒षव॑णे च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च मे॒
वेदि॑श्च मे ब॒र्हिश्च॑ मे-ऽवभृ॒तश्च॑ मे स्वगाका॒रश्च॑ मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 21॥
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒-ऽर्कश्च॑ मे॒ सूर्य॑श्च मे
प्रा॒णश्च॑ मे-ऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मे-ऽदि॑तिश्च मे॒
दिति॑श्च मे॒ द्यौश्च॑ मे॒-ऽङ्गुल॑य॒: शक्व॑रयो॒ दिश॑श्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 22॥
व्र॒त-ञ्च॑ म ऋ॒तव॑श्च मे॒ तप॑श्च मे संवँत्स॒रश्च॑ मे
अहोरा॒त्रे ऊ॑र्वष्ठी॒वे बृ॑हद्रथन्त॒रे च॑ मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 23॥
एका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे
स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒ नव॑ च म॒ एका॑दश च म॒ एका॑दश च मे॒
त्रयो॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे स॒प्तद॑श च मे॒
नव॑दश च मे॒ नव॑दश च म॒ एक॑विग्ंशतिश्च म॒ एक॑विग्ंशतिश्च मे॒ त्रयो॑विग्ंशतिश्च मे॒ त्रयो॑विग्ंशतिश्च मे॒
पञ्च॑विग्ंशतिश्च मे॒ पञ्च॑विग्ंशतिश्च मे स॒प्तवि॑ग्ंशतिश्च मे प्तवि॑ग्ंशतिश्च मे॒
नव॑विग्ंशतिश्च मे॒ नव॑विग्ंशतिश्च म॒ एक॑त्रिग्ंशच्च म॒ एक॑त्रिग्ंशच्च मे॒ त्रय॑स्त्रिग्ंशच्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 24॥
चत॑स्रश्च मे॒-ऽष्टौ च॑ मे॒-ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒
षोड॑श च मे॒ षोड॑श च मे विग्ंश॒तिश्च॑ मे विग्ंशतिश्च॑ मे॒
चतु॑र्विग्ंशतिश्च मे॒ चतु॑र्विग्ंश॒तिश्च॑ मे॒-ऽष्टावि॑ग्ंशतिश्च मे॒-ऽष्टावि॑ग्ंशतिश्च मे॒
द्वात्रि॑ग्ंशच्च मे॒ द्वात्रि॑ग्ंशच्च मे॒ षट्त्रि॑ग्ंशच्च मे॒ षट्त्रि॑ग्ंशच्च मे
चत्वारि॒ग्ंशच्च॑ मे चत्वारि॒ग्ंशच्च॑ मे॒ चतु॑श्चत्वारिग्ंशच्च मे॒ चतु॑श्चत्वारिग्ंशच्च मे॒-ऽष्टाच॑त्वारिग्ंशच्च मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 25॥
त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे
पञ्चा॒विश्च॑ मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे
तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 26॥
प॒ष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे
वे॒हच्च॑ मे-ऽन॒ड्वांश्च॑ मे धे॒नुश्च॑ मे
य॒ज्ञेन॑ कल्पन्ताम् ॥ 27॥
वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑-ऽपि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑-ऽह॒र्पत॑ये॒ स्वाहाह्ने॑
मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनग्ंशि॒नाय॒ स्वाहा॑ विन॒शिन॑ आन्त्याय॒नाय॒ स्वाहान्त्या॑य
भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ ।
इ॒य-न्ते॒ राण्मि॒त्राय॑ य॒न्ता-ऽसि॒ यम॑न ऊ॒र्जे त्वा॒ वृष्ट्यै॑ त्वा प्र॒जानां॒ त्वाधि॑पत्याय ॥ 28॥
आयु॑र्य॒ज्ञेन॑ कल्पता-म्प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ग्ंश्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒
वाग्य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पता-म्ब्र॒ह्मा य॒ज्ञेन॑ कल्पतां॒
ज्योति॑र्य॒ज्ञेन॑ कल्पतां॒ स्व॒र्य॒ज्ञेन॑ कल्पता-म्पृ॒ष्ठं-यँ॒ज्ञेन॑ कल्पतां-यँ॒ज्ञो य॒ज्ञेन॑ कल्पताम् ।
स्तोम॑श्च यजु॑श्च॒ ऋक्च॒ साम॑ च बृ॒हच्च॑ रथन्त॒र-ञ्च॑ ।
स्व॑र्देवा अगन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ वेट् स्वाहा॑ ॥ 29॥
इति रुद्रे-ऽष्टमो-ऽध्यायः ॥ 8॥
10. शान्त्यध्यायः
हरिः॑ ॐ
ऋचं॒ वाचं॒ प्रप॑द्ये॒ मनो॒ यजुः॒ प्रप॑द्ये॒ साम॑ प्रा॒ण-म्प्रप॑द्ये॒ चक्षु॒-श्श्रोत्रं॒ प्रप॑द्ये ।
वागोजः॑ स॒हौजो॒ मयि॑ प्राणापा॒नौ ॥ 1॥
यन्मे॑ छि॒द्र-ञ्चक्षु॑षो॒ हृद॑यस्य॒ मन॑सो॒ वाति॑तृण्णं॒ बृह॒स्पति॑र्मे॒ तद्द॑धातु ।
श-न्नो॑ भवतु॒ भुव॑नस्य॒ यस्पतिः॑ ॥ 2॥
भूर्भुव॒-स्स्वः॒ तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ 3॥
कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒-स्सखा॑ ।
कया॒ शचि॑ष्ठया वृ॒ता ॥ 4॥
कस्त्वा॑ स॒त्यो मदा॑नां॒ मग्ंहि॑ष्ठो मत्स॒दन्ध॑सः ।
दृ॒ढा चि॑दा॒रुजे॒ वसु॑ ॥ 5॥
अ॒भी षु ण॒-स्सखी॑नामवि॒ता ज॑रितॄ॒णाम् ।
श॒त-म्भ॑वास्यू॒तिभिः॑ ॥ 6॥
कया॒ त्व-न्न ऊ॒त्याभि प्रम॑न्दसे वृषन्न् ।
कया॑ स्तो॒तृभ्य॒ आभ॑र ॥ 7॥
इन्द्रो॒ विश्व॑स्य राजति ।
श-न्नो॑ अस्तु द्वि॒पदे॒ श-ञ्चतु॑ष्पदे ॥ 8॥
श-न्नो॑ मि॒त्र: शं-वँरु॑ण॒-श्श-न्नो॑ भवत्वर्य॒मा ।
श-न्न॒ इन्द्रो॒ बृह॒स्पति॒-श्श-न्नो॒ विष्णु॑रुरुक्र॒मः ॥ 9॥
श-न्नो॒ वातः॑ पवता॒ग्ं श-न्न॑स्तपतु॒ सूर्यः॑ ।
श-न्नः॒ कनि॑क्रदद्दे॒वः प॒र्जन्यो॑ अ॒भिव॑र्षतु ॥ 10॥
अहा॑नि॒ श-म्भव॑न्तु न॒-श्शग्ं रात्रीः॒ प्रति॑धीयताम् ।
श-न्न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भि॒-श्श-न्न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या ।
श-न्न॑ इन्द्रापू॒षणा॒ वाज॑सातौ॒ शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं-योः ँ॥ 11॥
श-न्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
शं-योँर॒भिस्र॑वन्तु नः ॥ 12॥
स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒-श्शर्म॑ स॒प्रथाः॑ ॥ 13॥
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥ 14॥
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒तरः॑ ॥ 15॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥ 16॥
द्यौ: शान्ति॑र॒न्तरि॑क्ष॒ग्ं शान्तिः॑ पृथि॒वी शान्ति॒राप॒-श्शान्ति॒रोष॑धय॒-श्शान्तिः॑ ।
वन॒स्पत॑य॒-श्शान्ति॒र्विश्वे॑ दे॒वा-श्शान्ति॒र्ब्रह्म॒ शान्ति॒-स्सर्व॒ग्ं शान्तिः॒
शान्ति॑रे॒व शान्ति॒-स्सा मा॒ शान्ति॑रेधि ॥ 17॥
दृते॒ दृग्ंह॑ मा मि॒त्रस्य॑ मा॒ चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षन्ताम् ।
मि॒त्रस्या॒ह-ञ्चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षे ।
मि॒त्रस्य॒ चक्षु॑षा॒ समी॑क्षामहे ॥ 18॥
दृते॒ दृग्ंह॑ मा मि॒त्रस्य॑ मा॒ चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षन्ताम् ।
ज्योक्ते॑ स॒न्दृशि॑ जीव्यासं॒ ज्योक्ते॑ स॒न्दृशि॑ जीव्यासम् ॥ 19॥
नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ ।
अ॒न्या.ण्स्ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्य॑ग्ं शि॒वो भ॑व ॥ 20॥
नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे॑ ।
नम॑स्ते भगवन्नस्तु॒ यत॒-स्स्वः॒ स॒मीह॑से ॥ 21॥
यतो॑ यत-स्स॒मीह॑से॒ ततो॑ नो॒ अभ॑य-ङ्कुरु ।
श-न्नः॑ कुरु प्र॒जाभ्यो-ऽभ॑य-न्नः प॒शुभ्यः॑ ॥ 22॥
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धय-स्सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒यो॒-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्मः ॥ 23॥
तच्चक्षु॑र्दे॒वहि॑त-म्पु॒रस्ता॑च्छु॒क्रमुच्च॑रत् ।
पश्ये॑म श॒रदः॑ श॒त-ञ्जीवे॑म श॒रदः॑ श॒तग्ं शृणु॑याम श॒रदः॑ श॒तं
प्रब्र॑वाम श॒रदः॑ श॒तमदी॑ना-स्स्याम श॒रदः॑ श॒त-म्भूय॑श्च श॒रदः॑ श॒तात् ॥ 24॥
इति रुद्रे शान्त्यध्यायः ॥ 9॥
11. स्वस्ति प्रार्थना मन्त्राः
हरिः॑ ॐ
ॐ
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ 1॥
ॐ
पयः॑ पृथि॒व्या-म्पय॒ ओष॑धीषु॒ पयो॑ दि॒व्यन्तरि॑क्षे॒ पयो॑ धाः ।
पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्य॑म् ॥ 2॥
ॐ
विष्णो॑ र॒राट॑मसि॒ विष्णो॒-श्श्नप्त्रे॑ स्थो विष्णो॒-स्स्यूर॑सि॒ विष्णो॑र्ध्रु॒वो॒-ऽसि ।
वै॒ष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ 3॥
ॐ
अ॒ग्निर्दे॒वता॒ वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑
रु॒द्रा दे॒वता॑दि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑दे॒वा देवता॒
बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ ॥ 4॥
ॐ
स॒द्योजा॒त-म्प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ ।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् ।
भ॒वोद्भ॑वाय॒ नमः॑ ॥ 5॥
वा॒म॒दे॒वाय॒ नमो॑ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒
काला॑य नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒
बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑
म॒नोन्म॑नाय॒ नमः॒ ॥ 6॥
अ॒घोरे॑भ्यो-ऽथ॒ घोरे॑भ्यो॒ घोर॒घोर॑तरेभ्यः ।
स॒र्वेभ्य-स्सर्व॒ श॑र्वेभ्यो॒ नम॑स्ते-ऽस्तु रु॒द्ररू॑पेभ्यः ॥ 7॥
(स॒र्वतः॑ शर्व॒ सर्वे॑भ्यो॒)
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया॑त् ॥ 8॥
ईशानस्सर्व॑विद्या॒ना॒मीश्वर-स्सर्व॑भूता॒नां॒ ।
ब्रह्माधि॑पति॒र्ब्रह्म॒णो-ऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑-ऽस्तु सदाशि॒वोम् ॥ 9॥
ॐ
शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसीः ।
निव॑र्तयाम्यायु॑षे॒-ऽन्नाद्या॑य॒ प्रजन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ 10॥
ॐ
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परासुव ।
यद्भ॒द्र-न्तन्न॒ आसुव ॥ 11॥
ॐ
द्यौ-श्शान्ति॑र॒न्तरि॑क्ष॒ग्ं शान्तिः॑ पृथि॒वी शान्ति॒राप॒-श्शान्ति॒रोष॑धय॒-श्शान्तिः॑ ।
वन॒स्पत॑य॒-श्शान्ति॒र्विश्वे॑दे॒वा-श्शान्ति॒र्ब्रह्म॒ शान्ति॒-स्सर्व॒ग्ं शान्ति॒-श्शान्ति॑रे॒व शान्ति॒-स्सा मा॒ शान्ति॑रेधि ॥ 12॥
ॐ
सर्वेषां-वाँ एष वेदानाग्ंरसो यत्सामः ।
सर्वेषामेवैनमेतद् वेदानाग्ं रसेनाभिषिञ्चति ॥ 13॥
ॐ
शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
अनेन श्री रुद्राभिषेककर्मणा श्री भवानीशङ्कर महारुद्राः प्रीयता-न्न मम ।
इति श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी समाप्ता ।
॥ ॐ साम्ब सदाशिवार्पणमस्तु ॥

