(श्री रामचन्द्र कृतम्)
ईड्यामागमवेदिभिर्मुनिगणैः ध्येयां सदा योगिभिः ।
ध्येयां तुम्बुरुनारदप्रभृतिभिः ब्रह्मादिभिः पूजितां
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ १॥
विद्यां वेदशिरोभिरीड्यमहिमामीशानदेहालयाम् ।
भक्ताभीष्टवरप्रदानचतुरां संसारसंहारिणीं
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ २॥
सेतौ सादरमागताखिलजगत्क्षेमाय सम्प्रस्थिताम् ।
भक्ताघौघवनानलोज्ज्वलशिखां राजीवनेत्रद्वयां
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ ३॥
मातर्लोकजनन्यभीष्टवरदे शैलेन्द्रकन्ये उमे ।
चिन्तातीतपते चिरन्तननुते षड्वक्त्रलीलारते
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ ४॥
भक्ताभीष्टदकल्पकायितभुजे संवीक्षितेशानने ।
कण्ठेन्द्वङ्कितमस्तके त्रिनयने पिताम्बरे श्यामले
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ ५॥
राजत्कर्णविलम्बिकुण्डलमणिश्रेणिप्रभारञ्जिताम् ।
उत्तुङ्गस्तनमध्ययुग्मविलसद्धारां करालालकां
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ ६॥
सर्वव्याकुलतापशोकशमने सांराज्यसौभाग्यदे ।
हत्याघौघविनाशनस्तुतिपदे मृत्युञ्जयार्दाकृते
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ ७॥
वीक्षालब्धविरिञ्चविष्णुविभवामापत्सहायाङ्घ्रिकाम् ।
देवीं दैवतवृन्दवन्दितपदां दैत्येन्द्रसंहारिणीं
वन्दे पर्वतवर्धितां स्मितमुखीं श्रीरामनाथेश्वरीम् ॥ ८॥
बालेन्द्वङ्कितमस्तकेऽरुणरुचे षड्वक्त्रपीतस्तने ।
मां रामं जनकात्मजां च सहजं सुग्रीवमुख्यान्कपीन्
सर्वान् त्राहि नमोऽस्तु ते भगवति श्रीरामनाथेश्वरिम् ॥ ९॥
नमो भवान्यै वरदे नमः शङ्करवल्लभे ॥ १०॥
