श्रीसद्गुरुमवधूत मुनिमानसहंस॥
सुखघनमाक्रमामल वरणीयसार॥
निर्धूताखिलबन्धन तत्त्वमसिध्येय।
अत्र्यनसूयादत्तो बोद्धुं निजतत्त्वमसि॥१॥
रेजे त्वयि अद्वयब्रह्मैवाहं तत्त्वं नित्यम्॥
त्रिभिरपि निजमुखकमलैः सच्चित्सुखमित्थं।
ब्रह्मैवाहं तत्त्वं बोधयसि स्वीयम्॥२॥
सच्चित्सुखब्रह्मैवं विमलात्मैवाहमिति॥
ज्ञानविरक्त्युपरतय इतिसाधनत्रितयं।
निजपदसम्प्राप्त्यर्थं बोधयसि स्वार्थम्॥३॥
धवलां धेनुस्वरूपां संरक्षस्याद्याम्॥
नो शुनकान् वेदांश्च संरक्षसि नित्यं।
वेदवेदस्तुतपरमात्मा दत्तस्तवं सत्यम्॥४॥
जीवेशौ वापि नैवं पिण्डं ब्रह्माण्डम्॥
एकं समरसभूतं ब्रह्मानन्दघनं।
पञ्चारात्रिका सहजा निर्गुण आत्मपदे॥५॥
