सदा सम्पूज्यते भक्तैर्भगवान् भक्तिभावनः ॥ १ ॥
क्वासनं विश्वसंस्थस्य पाद्यं पूतात्मनः कुतः ॥ २ ॥
निर्मलस्य कुतः स्नानं क्व निरावरणेम्बरम् ॥ ३ ॥
निस्तृषः सुमनोभिः किं किमक्लेद्यस्य धूपतः ॥ ४ ॥
किं देयं परितृप्तस्य विराजः क्व प्रदक्षिणाः ॥ ५ ॥
अन्तर्बहिः प्रपूर्णस्य कथमुद्वासनं भवेत् ॥ ६ ॥
सेव्यसेवकभावेन भक्तैर्लीलानृविग्रहः ॥ ७ ॥
प्रकल्प्याश्मादावर्चन्ति प्रार्चयेऽर्चां मनोमयीम् ॥ ८ ॥
भक्तवत्सल सामीप्यं कुरु मे मानसार्चने ॥ ९ ॥
सिद्धासनस्थं ध्यायेऽभीवरप्रदकरं हरिम् ॥ १० ॥
श्रद्धाभक्त्येश्वरागच्छ ध्यातधाम्नाञ्जसा विभो ॥ ११ ॥
रम्यं सिंहासनं दत्त तत्रोपविश यन्त्रिते ॥ १२ ॥
गृहाण कल्पितं तेन दत्ताङ्घ्री क्षालयामि ते ॥ १३ ॥
साम्ब्वर्घ्यं स्वर्णपात्रेण कल्पितं दत्त गृह्यताम् ॥ १४ ॥
तुभ्यमाचम्यतां दत्त मधुपर्कं गृहाण च ॥ १५ ॥
पञ्चामृतैश्च गाङ्गाद्भिः स्नानं ते कल्पयाम्यहम् ॥ १६ ॥
काषायपरिधानं तद्गृहाणैणेयचर्म च ॥ १७ ॥
गृहाण दैवतमये श्रीदत्त नवतन्तुके ॥ १८ ॥
रत्नाक्षताः कल्पितास्त्वामलङ्कुर्वेऽथ दत्त तैः ॥ १९ ॥
मनसा कल्पितैर्नानाविधैर्दत्तार्चयाम्यहम् ॥ २० ॥
युक्तोऽग्नियोजितो धूपो हृदा स्वीकुरु दत्त तम् ॥ २१ ॥
दीपं दत्त सकर्पूरं गृहाण स्वप्रकाशक ॥ २२ ॥
कल्पितं हैमपात्रे ते भुङ्क्ष्व दत्ताम्ब्वदः पिब ॥ २३ ॥
ताम्बूलं दक्षिणां हैमीं कल्पितानि फलानि च ॥ २४ ॥
परितस्त्वत्कथोद्घातैः कुर्वे दत्त प्रदक्षिणाः ॥ २५ ॥
कल्प्यन्ते मनसा गीतवाद्यनृत्योपचारकाः ॥ २६ ॥
कृतेयं मनसा पूजा श्रीमंस्तुष्टो भवानया ॥ २७ ॥
रम्ये व्यायतभक्त्यामतूलिकाढ्ये सुवीजिते ॥ २८ ॥
