Lord Dattatreya

श्री अनघदेव अष्टोत्तरशतनाम स्तोत्रम्

(Sri Anagha Deva Ashtottara Shatanama Stotram)

Also known as shri anagha deva ashtottara shatanama stotram · shree anagha deva ashtottara shatanama stotram · anagha deva ashtottara shatanama stotram

The hundred and eight names of Dattātreya as Anagha, the faultless one, given as verse. Anagha is worshipped with Anaghā, named here in the second line as his Lakṣmī-form, and the pair are the object of the Anagha Aṣṭamī observance. The list is organised around seed-syllables more than around deeds: he is reached by meditation on drāṃ, he keeps the one-syllable mantra and the six-syllable and the eight, he stands inside the twelve-syllable and the sixteen, and then each bīja is given its own effect — hrīṃ for every kind of wealth, kroṃ for drawing what is sought, sauḥ for quieting agitation of mind, aiṃ for speech, klīṃ for the three worlds, śrīṃ for great fortune, glauṃ for sovereignty over the earth. Toward the end it names the plainest of the offerings made to him, jaggery-water and the five cakes and roots and fruit, and asks for the increase of the household.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री अनघदेव अष्टोत्तरशतनाम स्तोत्रम् ॥
॥ स्तोत्रम् ॥
दत्तात्रेयायाऽनघाय त्रिविधाघविदारिणे ।
लक्ष्मीरूपाऽनघेशाय योगाधीशाय ते नमः ॥ १ ॥
द्राम्बीजध्यानगम्याय विज्ञेयाय नमो नमः ।
गर्भादितारणायाऽस्तु दत्तात्रेयाय ते नमः ॥ २ ॥
बीजस्थवटतुल्याय चैकार्णमनुगामिने ।
षडर्णमनुपालाय योगसम्पत्कराय ते ॥ ३ ॥
अष्टार्णमनुगम्याय पूर्णाऽऽनन्दवपुष्मते ।
द्वादशाक्षरमन्त्रस्थायाऽऽत्मसायुज्यदायिने ॥ ४ ॥
षोडशार्णमनुस्थाय सच्चिदानन्दशालिने ।
दत्तात्रेयाय हरये कृष्णायाऽस्तु नमो नमः ॥ ५ ॥
उन्मत्तायाऽऽनन्ददायकाय तेऽस्तु नमो नमः ।
दिगम्बराय मुनये बालायाऽस्तु नमो नमः ॥ ६ ॥
पिशाचाय च ते ज्ञानसागराय च ते नमः ।
आब्रह्मजन्मदोषौघप्रणाशाय नमो नमः ॥ ७ ॥
सर्वोपकारिणे मोक्षदायिने ते नमो नमः ।
ओंरूपिणे भगवते दत्तात्रेयाय ते नमः ॥ ८ ॥
स्मृतिमात्रसुतुष्टाय महाभयनिवारिणे ।
महाज्ञानप्रदायाऽस्तु चिदानन्दाऽऽत्मने नमः ॥ ९ ॥
बालोन्मत्तपिशाचादिवेषाय च नमो नमः ।
नमो महायोगिने चाप्यवधूताय ते नमः ॥ १० ॥
अनसूयाऽऽनन्ददाय चाऽत्रिपुत्राय ते नमः ।
सर्वकामफलानीकप्रदात्रे ते नमो नमः ॥ ११ ॥
प्रणवाक्षरवेद्याय भवबन्धविमोचिने ।
ह्रीम्बीजाक्षरपाराय सर्वैश्वर्यप्रदायिने ॥ १२ ॥
क्रोम्बीजजपतुष्टाय साध्याकर्षणदायिने ।
सौर्बीजप्रीतमनसे मनःसङ्क्षोभहारिणे ॥ १३ ॥
ऐम्बीजपरितुष्टाय वाक्प्रदाय नमो नमः ।
क्लीम्बीजसमुपास्याय त्रिजगद्वश्यकारिणे ॥ १४ ॥
श्रीमुपासनतुष्टाय महासम्पत्प्रदाय च ।
ग्लौमक्षरसुवेद्याय भूसाम्राज्यप्रदायिने ॥ १५ ॥
द्राम्बीजाक्षरवासाय महते चिरजीविने ।
नानाबीजाक्षरोपास्य नानाशक्तियुजे नमः ॥ १६ ॥
समस्तगुणसम्पन्नायाऽन्तःशत्रुविदाहिने ।
भूतग्रहोच्चाटनाय सर्वव्याधिहराय च ॥ १७ ॥
पराभिचारशमनायाऽऽधिव्याधिनिवारिणे ।
दुःखत्रयहरायाऽस्तु दारिद्र्यद्राविणे नमः ॥ १८ ॥
देहदार्ढ्याभिपोषाय चित्तसन्तोषकारिणे ।
सर्वमन्त्रस्वरूपाय सर्वयन्त्रस्वरूपिणे ॥ १९ ॥
सर्वतन्त्राऽऽत्मकायाऽस्तु सर्वपल्लवरूपिणे ।
शिवायोपनिषदवेद्यायाऽस्तु दत्ताय ते नमः ॥ २० ॥
नमो भगवते तेऽस्तु दत्तात्रेयाय ते नमः ।
महागम्भीररूपाय वैकुण्ठवासिने नमः ॥ २१ ॥
शङ्खचक्रगदाशूलधारिणे वेणुनादिने ।
दुष्टसंहारकायाऽथ शिष्टसम्पालकाय च ॥ २२ ॥
नारायणायाऽस्त्रधरायाऽस्तु चिद्रूपिणे नमः ।
प्रज्ञारूपाय चाऽऽनन्दरूपिणे ब्रह्मरूपिणे ॥ २३ ॥
महावाक्यप्रबोधाय तत्त्वायाऽस्तु नमो नमः ।
नमः सकलकर्मौघनिर्मिताय नमो नमः ॥ २४ ॥
नमस्ते सच्चिदानन्दरूपाय च नमो नमः ।
नमः सकललोकौघसञ्चाराय नमो नमः ॥ २५ ॥
नमः सकलदेवौघवशीकृतिकराय च ।
कुटुम्बवृद्धिदायाऽस्तु गुडपानकतोषिणे ॥ २६ ॥
पञ्चकर्जाय सुप्रीतायाऽस्तु कन्दफलादिने ।
नमः सद्गुरवे श्रीमद्दत्तात्रेयाय ते नमः ॥ २७ ॥
॥ फलश्रुति ॥
इत्येवमनघेशस्य दत्तात्रेयस्य सद्गुरोः ।
वेदान्तप्रतिपाद्यस्य नाम्नामष्टोत्तरं शतम् ॥ २८ ॥
॥ इति श्री अनघदेव अष्टोत्तरशतनाम स्तोत्रम् सम्पूर्णम् ॥

Explore More