Lord Parashurama

श्री परशुराम अष्टकम्

(Shri Parashurama Ashtakam)

Also known as sri parashurama ashtakam · shree parashurama ashtakam · parashurama ashtakam

Eight verses to Parashurama, each ending on the same line — Renuka's son, Jamadagni's, I worship him — so that he is named by both parents every time rather than by his deeds. The portrait is a compound of opposites and the hymn does not resolve them. His body is white and his eyes are always red with anger; he is protector of the devoted, merciful, an ocean of mercy; the ornament of the brahmin line, carrying a bow, wearing the sacred thread, and holding in his hand an axe of great sharpness. The second verse is gentler still, calling him pleasant-formed and delightful and saluted by the gods, steadfast from birth in the vow of chastity, and lord among the yogins of yoga — and then closes the same verse by naming him the destroyer of enemies.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री परशुराम अष्टकम् ॥
शुभ्रदेहं सदा क्रोधरक्तेक्षणं
भक्तपालं कृपालुं कृपावारिधिम् ।
विप्रवंशावतंसं धनुर्धारिणं
भव्ययज्ञोपवीतं कलाकारिणम् ।
यस्य हस्ते कुठारं महातीक्ष्णकं
रेणुकानन्दनं जामदग्न्यं भजे ॥ १ ॥
सौम्यरुपं मनोज्ञं सुरैर्वन्दितं
जन्मतः ब्रह्मचारिव्रते सुस्थिरम् ।
पूर्णतेजस्विनं योगयोगीश्वरं
पापसन्तापरोगादिसंहारिणम् ।
दिव्यभव्यात्मकं शत्रुसंहारकं
रेणुकानन्दनं जामदग्न्यं भजे ॥ २ ॥
ऋद्धिसिद्धिप्रदाता विधाता भुवो
ज्ञानविज्ञानदाता प्रदाता सुखम् ।
विश्वधाता सुत्राताऽखिलं विष्टपं
तत्त्वज्ञाता सदा पातु माम् निर्बलम् ।
पूज्यमानं निशानाथभासं विभुं
रेणुकानन्दनं जामदग्न्यं भजे ॥ ३ ॥
दुःख दारिद्र्यदावाग्नये तोयदं
बुद्धिजाड्यं विनाशाय चैतन्यदम् ।
वित्तमैश्वर्यदानाय वित्तेश्वरं
सर्वशक्तिप्रदानाय लक्ष्मीपतिम् ।
मङ्गलं ज्ञानगम्यं जगत्पालकं
रेणुकानन्दनं जामदग्न्यं भजे ॥ ४ ॥
यश्च हन्ता सहस्रार्जुनं हैहयं
त्रैगुणं सप्तकृत्वा महाक्रोधनैः ।
दुष्टशून्या धरा येन सत्यं कृता
दिव्यदेहं दयादानदेवं भजे ।
घोररूपं महातेजसं वीरकं
रेणुकानन्दनं जामदग्न्यं भजे ॥ ५ ॥
मारयित्वा महादुष्ट भूपालकान्
येन शोणेन कुण्डेकृतं तर्पणम् ।
येन शोणीकृता शोणनाम्नी नदी
स्वस्य देशस्य मूढा हताः द्रोहिणः ।
स्वस्य राष्ट्रस्य शुद्धिःकृता शोभना
रेणुकानन्दनं जामदग्न्यं भजे ॥ ६ ॥
दीनत्राता प्रभो पाहि माम् पालक!
रक्ष संसाररक्षाविधौ दक्षक! ।
देहि संमोहनी भाविनी पावनी
स्वीय पादारविन्दस्य सेवा परा ।
पूर्णमारुण्यरूपं परं मञ्जुलं
रेणुकानन्दनं जामदग्न्यं भजे ॥ ७ ॥
ये जयोद्घोषकाः पादसम्पूजकाः
सत्वरं वाञ्छितं ते लभन्ते नराः ।
देहगेहादिसौख्यं परं प्राप्य वै
दिव्यलोकं तथान्ते प्रियं यान्ति ते ।
भक्तसंरक्षकं विश्वसम्पालकं
रेणुकानन्दनं जामदग्न्यं भजे ॥ ८ ॥
॥ इति श्री परशुराम अष्टकम् सम्पूर्णम् ॥

Explore More