राधाकृष्णं सदा वन्दे वृन्दावनविहारिणम् ।
मधुरतासुधासिन्धुं दीनबन्धुं दयाकरम् ॥ १॥
सौरिकूलसुकुञ्जेषु विहरन्तं हृदा भजे ।
वकुल-कदली कुञ्जे राधाकृष्ण-विराजितम् ॥ २॥
सखीवृन्दै-र्मुदाराध्यं पुष्पमाला सुशोभितम् ।
स्मरामि राधिकाकृष्णं भक्तवाञ्छाप्रदायकम् ॥ ३॥
सुरवृन्दैः सदा सेव्यं राधाकृष्णं नमाम्यहम् ।
अनन्यरसिकैर्ध्येयं जगद्बीजं व्रजाधिपम् ॥ ४॥
श्रुतिमन्त्रैः समाराध्यं गीयमानं सुधीजनैः ।
राधाकृष्णं प्रभाते च प्रणमामि कृपास्पदम् ॥ ५॥
सुभगं राधिकाकृष्णं किशोरवयसंयुतम् ।
असीमकरुणागारं नमामि जगदीश्वरम् ॥ ६॥
जम्बू-रसालकुञ्जेषु राधाकृष्ण सुशोभितम् ।
मुनीन्द्रादि गिरागीतं प्रणमामि पुनः पुनः ॥ ७॥
भक्तैश्च भावनालभ्यं गुणज्ञैः परिकीर्तितम् ।
राधाकृष्णं रसाधारं वन्दे प्रणतिपूर्वकम् ॥ ८॥
राधाकृष्णाष्टकं स्तोत्रं युग्माऽङ्घ्रि भक्तिसम्प्रदम् ।
राधासर्वेश्वराद्येन शरणान्तेन निर्मितम् ॥ ९॥
॥ इति श्रीराधाकृष्णाष्टकस्तोत्रं सम्पूर्णम् ॥