दम्भोलितुल्यायतबाहुवृन्दम् ।
फालोज्ज्वलन्नेत्रहुताशनेन
भस्मीकृतारिं भज वीरभद्रम् ॥ १ ॥
कपालमालं(ला)कमनीयहारम् ।
कन्दर्पदर्पापहसर्पहारं
भस्माङ्गलेपं भज वीरभद्रम् ॥ २ ॥
भस्मीकृताशेषपुरप्रतापम् ।
उन्निद्रपद्मायतनेत्रपद्मं
श्रीवीरभद्रं भज वीरभद्रम् ॥ ३ ॥
कण्ठान्तरस्थापितकालकूटम् ।
भागीरथीचुम्बितमौलिभागं
फालाग्निनेत्रं भज वीरभद्रम् ॥ ४ ॥
नीलाञ्जनाभं निहतारिलोकम् ।
पाटीरवाटं वटमूलवासं
भद्राक्षमालं भज वीरभद्रम् ॥ ५ ॥
बालेन्दुजूटं फणिराजभूषम् ।
सहस्रबाहुं सनकादिवन्द्यं
चक्राभिरामं भज वीरभद्रम् ॥ ६ ॥
कुञ्जामराम्भोजमणीन्द्रहारम् ।
कञ्जातसञ्जातविराजमानं
विकासिनेत्रं भज वीरभद्रम् ॥ ७ ॥
वीरेश्वरं निर्विषयान्तरङ्गम् ।
निरीहमेकं निगमान्तमृग्यं
निर्वाणहेतुं भज वीरभद्रम् ॥ ८ ॥
प्रभातकाले पितृसूतिकाले ।
सुखी भवेत्सम्पदवान् सुभोगी
सुरूपवान् सुस्थिरबुद्धियुक्तः ॥ ९ ॥
