बालेन्दुद्युतिपादपल्लवयुतां ब्रह्माण्डसञ्चारिणीम् ।
चारुश्रीकलशातपत्रकमहासौभाग्यरेखाङ्घ्रिकां
श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ १॥
कूर्माकारपदोपरिस्थलरुचिं घोरान्धकारापहाम् ।
जंघानिर्मितमान्मथेयशरधिं जम्बूफलश्रीमयीं
श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ २॥
रम्भारम्भकराधरोरु युगलां रत्नासनस्थायिनीम् ।
श्रीचक्राङ्कितचक्रविभ्रमकटीं सिन्दूरवर्णोज्ज्वलां
श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ३॥
सौन्दर्योधकपूर्णनाभिसरसीं शातोल्लसन्मध्यमाम् ।
वक्शोजद्वयशातकुम्भकलशां वश्यादि मन्त्रात्मिकां
श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ४॥
शोभाजालमृणालबाहुडमरु स्थूलाब्जचक्राङ्किताम् ।
सद्बिम्बाधररक्तकुन्दवदनां स्वारस्य सम्भाषिणीं
श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ५॥
मुक्तालङ्कृतकर्णभूषणयुगां मुग्धप्रतापान्विताम् ।
आदर्शामलगण्डमण्डलधरामानन्दपूर्णान्तरां
श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ६॥
सीमन्तायुतनद्दमौक्तकसरां शृङ्गाररङ्गत्कचाम् ।
गाङ्गेयाचितरत्नकङ्कणझणत्काराग्रहस्तद्वयां
श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ७॥
सर्वज्ञां सजलाभ्रविभ्रमतनुं भक्तप्रियामम्बिकाम् ।
मौलिस्थापितचन्द्रशेखरवरां माल्यार्पिताङ्गां शिवां
श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ८॥
ग्रैवेयाकृतहारनूपुरधरां कञ्जातप्राय्तेक्षणाम् ।
गङ्गातुङ्गतरङ्गभासवदनां गन्धर्वगानप्रियां
श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ९॥
चैन्द्रश्रीकरमप्रमेयमतुलं हर्षप्रदं बुद्धिदम् ।
प्रभाते नियमात्पठेद्यदि पुमान् भक्त्यन्तरात्मशुचिः
शौक्लींशान्तिमवाप्नुयात्रिजगतां सर्वेश्वरत्वं जयम् ॥ १०॥
