पट्टवस्त्रपरीधानां स्वर्णालङ्कारभूषितम् ।
वराभयकरां देवीं मुण्डमालाविभूषितां
कोटिचन्द्रसमासीनां वदनैः शोभितां पराम् ॥
स्वर्णवर्णमहादेवहृदयोपरिसंस्थिताम् ।
अक्षमालाधरां देवीं जपकर्मसमाहितां
वाञ्छितार्थप्रदायिनीं रुद्रचण्डीमहं भजे ॥
अनन्तफलमाप्नोति देवी चण्डीप्रसादतः ॥ १ ॥
चतुर्वक्त्रा महावीर्या महादेवविभूषिता ॥ २ ॥
तारिणी जननी दुर्गा चण्डिका चण्डविक्रमा ॥ ३ ॥
श्मशानवासिनी देवी घोरचण्डी भयानका ॥ ४ ॥
जाह्नवी परमा कृष्णा महात्रिपुरसुन्दरी ॥ ५ ॥
दुर्गा दुर्गशिवा घोरा चण्डहस्ता प्रचण्डिका ॥ ६ ॥
प्रमथैर्भूषिता कृष्णा चामुण्डा मुण्डमर्दिनी ॥ ७ ॥
मारणी भद्रकाली च शिवा घोरभयानका ॥ ८ ॥
मङ्गला जननी चण्डी महाक्रुद्धा भयङ्करी ॥ ९ ॥
तृष्णा निद्रा क्षुधा माया शक्तिर्मायामनोहरा ॥ १० ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ११ ॥
नान्यस्तु सम्पठेद्देवि पठने ब्रह्महा भवेत् ॥ १२ ॥
ब्रह्महत्या च गोहत्या स्त्रीवधोद्भवपातकम् ॥ १३ ॥
तत्सर्वं पातकं दुर्गे मातुर्गमनपातकम् ॥ १४ ॥
परदारकृतं पापं तत् क्षणादेव नश्यति ॥ १५ ॥
मुच्यते मुच्यते देवि गुरुपत्नीसुसङ्गमात् ॥ १६ ॥
मिथ्याजन्यं च यत्पापं तत्पापं नश्यति क्षणात् ॥ १७ ॥
स धन्यश्च कृतार्थश्च राजा राजाधिपो भवेत् ॥ १८ ॥
नवावृत्तिफलं तस्य जायते नात्र संशयः ॥ १९ ॥
सहस्रावृत्तिपाठस्य फलं जानीहि सुव्रत ॥ २० ॥
शतावृत्तिफलं तस्य बुधे लक्षफलं ध्रुवम् ॥ २१ ॥
शुक्रे देवि जगद्धात्रि चण्डीपाठेन शाङ्करी ॥ २२ ॥
शनिवारे जगद्धात्रि कोट्यावृत्तिफलं ध्रुवम् ॥ २३ ॥
स सद्यश्च कृतार्थः स्याद्राजराजाधिपो भवेत् ॥ २४ ॥
पठनाच्छ्रवणाच्चैव जायते नात्र संशयः ॥ २५ ॥
चण्डीश्रवणमात्रेण कुर्यात्सर्वं महेश्वरी ॥ २६ ॥
पापैरेतैः समायुक्तो रौरवं नरकं व्रजेत् ॥ २७ ॥
रौरवं नरकं कुण्डं कृमिकुण्डं मलस्य वै ॥ २८ ॥
ततः पितृगणैः सार्धं विष्ठायां जायते कृमिः ॥ २९ ॥
गङ्गायां चैव यत्पुण्यं काश्यां विश्वेश्वराग्रतः ॥ ३० ॥
तस्य पुण्यं भवेद्देवि सत्यं दुर्गे रमे शिवे ॥ ३१ ॥
तच्च पुण्यं तच्च पुण्यं तच्च पुण्यं न संशयः ॥ ३२ ॥
भवानी च भवानी च भवानी चोच्यते बुधैः ।
भकारस्तु भकारस्तु भकारः केवलः शिवः ॥ ३३ ॥
प्रेतवद्देवि विश्वेशि भकारः प्रेतवत्सदा ॥ ३४ ॥
धनं पुत्र जरारोग्यं कुष्ठं गलितनाशनम् ॥ ३५ ॥
सत्यं सत्यं जगद्धात्रि महामाये शिवे शिवे ॥ ३६ ॥
मन्दे दिने महेशानि विशेषफलदायिनी ॥ ३७ ॥
ब्राह्मणो हितकारी च पठेन्नियतमानसः ॥ ३८ ॥
भवेद्धि पुत्रपौत्रैश्च कन्यादासादिभिर्युतः ॥ ३९ ॥
मणिदानोद्भवं पुण्यं तुलाहिरण्यके तथा ॥ ४० ॥
निर्वाणमेति देवेशि महास्वस्त्ययने हितः ॥ ४१ ॥
मुच्यते च जगद्धात्रि राजराजाधिपो भवेत् ॥ ४२ ॥
काञ्चनी कमला विद्या महारोगविमर्दिनी ॥ ४३ ॥
देवानां दुर्लभा चण्डी रुद्रयामलसम्मता ॥ ४४ ॥
मत्स्यप्रिया मांसरता मत्स्यमांसबलिप्रिया ॥ ४५ ॥
महाभागा महारामा धान्यदा धनरत्नदा ॥ ४६ ॥
मुक्तिदा सर्वदा चण्डी महापत्तिविनाशिनी ॥ ४७ ॥
शृणोति भक्त्या परमां शिवस्य ।
चण्डीं धरण्यामतिपुण्ययुक्तां
स वै न गच्छेत्परमन्दिरं किल ॥ ४८ ॥
रुद्रचण्डीप्रसादेन किं न सिद्ध्यति भूतले ॥ ४९ ॥
रुद्रध्येया रुद्ररूपा रुद्राणी रुद्रवल्लभा ।
रुद्रशक्ती रुद्ररूपा रुद्राननसमन्विता ॥ ५० ॥
भैरवी परमा विद्या महाविद्या च षोडशी ॥ ५१ ॥
गुह्यकाली भद्रकाली महाकालविमर्दिनी ॥ ५२ ॥
अतिमात्रा महालज्जा सर्वमङ्गलदायिनि ॥ ५३ ॥
मङ्गला बगला सिद्धिदायिनी सर्वदा शिवा ॥ ५४ ॥
भयानका महादेवी भयदुःखविनाशिनी ॥ ५५ ॥
वाराही च वराहास्या इन्द्राणी शक्रपूजिता ॥ ५६ ॥
चामुण्डा नारसिंही च नृसिंहरिपुमर्दिनी ॥ ५७ ॥
इति सत्यं महादेवि सत्यं सत्यं वदाम्यहम् ॥ ५८ ॥
आरोग्यं मङ्गलं नित्यं करोति शुभमङ्गलम् ॥ ५९ ॥
अभक्ताय न दातव्यं मम प्राणाधिकं शुभम् ॥ ६० ॥
दद्यात्कदाचिद्देवेशि सत्यं सत्यं महेश्वरि ॥ ६१ ॥
अश्वमेधं वाजपेयं राजसूयशतानि च ॥ ६२ ॥
दुर्गेयं मृन्मयी ज्ञानं रुद्रयामलपुस्तकम् ॥ ६३ ॥
अत एव महेशानि किं वक्ष्ये तव सन्निधौ ॥ ६४ ॥
तत्त्वमस्यादिवाक्येन मुक्तिमाप्नोति दुर्लभाम् ॥ ६५ ॥
